प॒वित्रे॑ स्थो वैष्ण॒व्यौ॒ सवि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: । अनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि॒ स्वाहा॑ राज॒स्व॒:
pavítre sthó vaiṣṇavyàu savítur vaḥ prasavá útpunāmy ácchidreṇa pavítreṇa sū́ryasya raśmíbhíḥ | aníbhr̥ṣṭam asi vā́co bándhus tapojā́ḥ sómasya dā́tram asi svā́hā rā́jasvaḥ
أنتما المُطهِّران، الخاصّان بفيشنو؛ بدافع سافيتṛ أُطهِّركما صعودًا، بالمُطهِّر الذي لا عيب فيه، وبأشعّة سوريَا. أنت غيرُ مُصاب، رباطُ فاك (الكلام)، مولودٌ من التَّبَس (الزهد المتّقد)؛ أنت مُعطي سوما. سْفَاهَا! تَسَلَّطْ واحكُمْ!
पवित्रे । स्थः । वैष्णव्यौ । सवितुः । वः । प्रसवः । उत्-पुनामि । अच्छिद्रेण । पवित्रेण । सूर्यस्य । रश्मिभिः । अनिभृष्टम् । असि । वाचः । बन्धुः । तपोजाः । सोमस्य । दात्रम् । असि । स्वाहा । राजस्वः ।