कु॒विद॒ङ्ग यव॑मन्तो यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ यज॑न्ति । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑
kúvid aṅgá yávamanto yávaṃ cid yáthā dā́nti anupūrváṃ viyū́ya | ihéháiṣāṃ kṛṇuhi bhójanāni yé bárhiṣo náma uktíṃ yájanti | upayāmágṛhīto’sy aśvíbhyāṃ tvā sárasvatyai tvéndrā́ya tvā sutrā́mṇe
أفَيُرى الذين عندهم الشَّعير—بل الشَّعير نفسه—يُفيضون عطاياهم، مُوزِّعينها على الترتيب اللائق؟ ههنا، نعم ههنا، اجعل لهم أطعمتهم—أولئك الذين مع البَرْهِس (Barhis) يعبدون القولَ الموقَّر. أُخِذتَ بالأُپَياما (Upayāma): أنتَ للأَشْوِنين (Aśvins)، وأنتَ لسَرَسْوَتِي (Sarasvatī)، وأنتَ لإِندرا (Indra)، وأنتَ لِسُتْرَامَن (Sutraman).
कुवित् । अङ्ग । यवमन्तः । यवम् । चित् । यथा । दान्ति । अनुपूर्वम् । वियूय । इह । इह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिषः । नमः । उक्तिम् । यजन्ति । उपयामगृहीतः । असि । अश्विभ्याम् । त्वा । सरस्वत्यै । त्वा । इन्द्राय । त्वा । सुत्राम्णे