प्र पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठान्नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः । ता आऽव॑वृत्रन्नध॒रागुद॑क्ता॒ अहिं॑ बु॒ध्न्य॒मनु॒ रीय॑माणाः । विष्णो॑र्वि॒क्रम॑णमसि॒ विष्णो॒र्विक्रा॑न्तमसि॒ विष्णो॑: क्रा॒न्तम॑सि
prá párvatasya vṛṣabhásya pṛṣṭhā́n nā́vaś caranti svásica iyānā́ḥ | tā́ ā́vavṛtrann adharā́gudaktā́ ahíṃ budhnyám ánu rī́yamāṇāḥ | víṣṇor vikrámaṇam asi víṣṇor vikrā́ntam asi víṣṇoḥ krā́ntam asi
من ظهرِ ثورِ الجبلِ تمضي السفنُ قُدُمًا، مندفعةً بذاتها في مسيرها. تلك، صاعدةً من أسفل، قد أحاطتْ ودَفعتْ إلى الوراءِ الحيّةَ السُّفلى، وهي تتدحرجُ ماضيةً. أنتَ خُطوةُ فيشنو؛ أنتَ خُطوةُ فيشنو المُنجَزة؛ أنتَ الحيّزُ الذي خَطاهُ فيشنو.
प्र । पर्वतस्य । वृषभस्य । पृष्ठात् । नावः । चरन्ति । स्वसिचः । इयानाः । ताः । आ । अववृत्रन् । अधरात् । उदक्ताः । अहिम् । बुध्न्यम् । अनु । रीयमाणाः । विष्णोः । विक्रमणम् । असि । विष्णोः । विक्रान्तम् । असि । विष्णोः । क्रान्तम् । असि