Sukta 1.127
द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः । अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम् । प्रियाँ अपिधीँर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥
द्वि॒ता यदीं॑ की॒स्तासो॑ अ॒भिद्य॑वो नम॒स्यन्त॑ उप॒वोच॑न्त॒ भृग॑वो म॒थ्नन्तो॑ दा॒शा भृग॑वः । अ॒ग्निरी॑शे॒ वसू॑नां॒ शुचि॒र्यो ध॒र्णिरे॑षाम् । प्रि॒याँ अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ॥
dvitā́ yad īṃ kīstā́so abhí-dyavo namasyánta upa-vócanta bhṛ́gavo mathnánto dāśā́ bhṛ́gavaḥ | agnír ī́śe vásūnāṃ śúcir yó dharṇír eṣām | priyā́n api-dhī́ṃr vaniṣīṣṭa médhirá ā́ vaniṣīṣṭa médhiraḥ ||
مرّةً بعد مرّة، حين ينحني المادحون ذوو الرؤية المرفوعة وينطقون بالكلمة، فإنّ البْهْرِغُو، وهم يخضّون، يقدّمون العطاء. أغني يَسودُ على الثروات؛ هو الطاهرُ، حاملُها وأساسُها. فليَظفَرْ لنا الحكيمُ بالكنوزِ المحبوبةِ المستورة؛ وليَظفَرْ بها لنا الحكيمُ.
द्वि॒ता । यत् । ई॒म् । की॒स्तासः॑ । अ॒भिऽद्य॑वः । न॒म॒स्यन्तः॑ । उ॒प॒ऽवोच॑न्त । भृग॑वः । म॒श्नन्तः॑ । दा॒शा । भृग॑वः । अ॒ग्निः । ई॒शे॒ । वसू॑नाम् । शुचिः॑ । यः । ध॒र्णिः । ए॒षा॒म् । प्रि॒यान् । अ॒पि॒ऽधीन् । व॒नि॒षी॒ष्ट॒ । मेधि॑रः । आ । व॒नि॒षी॒श्ट॒ । मेधि॑रः ॥द्विता । यत् । ईम् । कीस्तासः । अभिद्यवः । नमस्यन्तः । उपवोचन्त । भृगवः । मश्नन्तः । दाशा । भृगवः । अग्निः । ईशे । वसूनाम् । शुचिः । यः । धर्णिः । एषाम् । प्रियान् । अपिधीन् । वनिषीष्ट । मेधिरः । आ । वनिषीश्ट । मेधिरः ॥dvitā | yat | īm | kīstāsaḥ | abhi-dyavaḥ | namasyantaḥ | upa-vocanta | bhṛgavaḥ | maśnantaḥ | dāśā | bhṛgavaḥ | agniḥ | īśe | vasūnām | śuciḥ | yaḥ | dharṇiḥ | eṣām | priyān | api-dhīn | vaniṣīṣṭa | medhiraḥ | ā | vaniṣīśṭa | medhiraḥ