Sukta 1.127
स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना । महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै । महि स्तोतृभ्यो मघवन्त्सुवीर्यं मथीरुग्रो न शवसा ॥
स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने॑ दे॒वेभि॒: सच॑नाः सुचे॒तुना॑ म॒हो रा॒यः सु॑चे॒तुना॑ । महि॑ शविष्ठ नस्कृधि सं॒चक्षे॑ भु॒जे अ॒स्यै । महि॑ स्तो॒तृभ्यो॑ मघवन्त्सु॒वीर्यं॒ मथी॑रु॒ग्रो न शव॑सा ॥
sá no nediṣṭháṃ dadṛśāná ā́ bharāgne devébhīḥ sácanāḥ sucétunā mahó rāyáḥ sucétunā | máhi śaviṣṭha naḥ kṛdhi saṃcákṣe bhujé asyái | máhi stotṛ́bhyo maghavantsu-vī́ryaṃ mathī́r ugró ná śávasā ||
هاتِ لنا، يا أغني، أقربَ الرؤى وأدناها—أيّها المرئيّ؛ وأقبلْ مع الآلهة بذكائك النيّر، حاملاً الغنى العظيم بذكائك النيّر. اجعلْه عظيماً لنا، أيّها الأشدُّ قوّة، لِرؤيتِنا المشتركة، ولِتمتّعِنا في هذا العمل. وامنحِ المُرتّلين، أيّها السخيّ، بطولةً عظيمة—كالعنيفِ الذي يثيرُ ويُحرّكُ بالقوّة.
सः । नः॒ । नेदि॑ष्ठम् । ददृ॑शानः । आ । भ॒र॒ । अग्ने॑ । दे॒वेभिः॑ । सऽच॑नाः । सुऽचे॒तुना॑ । म॒हः । र॒यः । सु॒ऽचे॒तुना॑ । महि॑ । श॒वि॒ष्ठ॒ । नः॒ । कृ॒धि॒ । स॒म्ऽचक्षे॑ । भु॒जे । अ॒स्यै । महि॑ । स्तो॒तृऽभ्यः॑ । म॒घ॒ऽव॒न् । सु॒ऽवीर्य॑म् । मथीः॑ । उ॒ग्रः । न । शव॑सा ॥सः । नः । नेदिष्ठम् । ददृशानः । आ । भर । अग्ने । देवेभिः । सचनाः । सुचेतुना । महः । रयः । सुचेतुना । महि । शविष्ठ । नः । कृधि । सम्चक्षे । भुजे । अस्यै । महि । स्तोतृभ्यः । मघवन् । सुवीर्यम् । मथीः । उग्रः । न । शवसा ॥saḥ | naḥ | nediṣṭham | dadṛśānaḥ | ā | bhara | agne | devebhiḥ | sa-canāḥ | su-cetunā | mahaḥ | rayaḥ | su-cetunā | mahi | śaviṣṭha | naḥ | kṛdhi | sam-cakṣe | bhuje | asyai | mahi | stotṛ-bhyaḥ | magha-van | su-vīryam | mathīḥ | ugraḥ | na | śavasā