Sukta 1.117
एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् । ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥
ए॒तानि॑ वामश्विना वी॒र्या॑णि॒ प्र पू॒र्व्याण्या॒यवो॑ऽवोचन् । ब्रह्म॑ कृ॒ण्वन्तो॑ वृषणा यु॒वभ्यां॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
etā́ni vāmaśvinā vīryā́ṇi prá pūrvyā́ṇy ā́yavo’vocan | bráhma kṛṇvánto vṛṣaṇā yuvábhyāṁ suvī́rāso vidátham ā́ vadema ||
هذه هي بطولاتكما، يا أشفين—الأعمالُ الأولى العتيقة—قد نادى بها الساعون. وإذ نُنشئ قوّةَ المانترا (brahman)، يا قويَّيْنِ، لكما أنتما، فليكن لنا—ونحن أغنياءُ بالأبطال في الداخل—أن نتكلّم في الـvidatha، مجمعِ اليقظة.
ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वी॒र्या॑णि । प्र । पू॒र्व्याणि॑ । आ॒यवः॑ । अ॒वो॒च॒न् । ब्रह्म॑ । कृ॒ण्वन्तः॑ । वृ॒ष॒णा॒ । यु॒वऽभ्या॑म् । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥एतानि । वाम् । अश्विना । वीर्याणि । प्र । पूर्व्याणि । आयवः । अवोचन् । ब्रह्म । कृण्वन्तः । वृषणा । युवभ्याम् । सुवीरासः । विदथम् । आ । वदेम ॥etāni | vām | aśvinā | vīryāṇi | pra | pūrvyāṇi | āyavaḥ | avocan | brahma | kṛṇvantaḥ | vṛṣaṇā | yuva-bhyām | su-vīrāsaḥ | vidatham | ā | vadema