Sukta 1.105
अहं सो अस्मि यः पुरा सुते वदामि कानि चित् । तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी ॥
अ॒हं सो अ॑स्मि॒ यः पु॒रा सु॒ते वदा॑मि॒ कानि॑ चित् । तं मा॑ व्यन्त्या॒ध्यो॒३॒॑ वृको॒ न तृ॒ष्णजं॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
aháṃ só asmí yáḥ purā suté vádāmi kā́ni cit | táṃ mā vyanty ā́dhyo vṛ́ko ná tṛ́ṣṇajaṃ mṛgáṃ vittáṃ me asyá rodasī ||
أنا ذاك الذي كان من قبل، عند عصر سوما Soma، ينطق بأشياء كثيرة؛ وها هي الفاقة تطاردني—كما يطارد الذئبُ ظبيًا مولودًا من العطش—يا سماءُ ويا أرضُ، اعرفا كنزَ هذا السعي مني.
अ॒हम् । सः । अ॒स्मि॒ । यः । पु॒रा । सु॒ते । वदा॑मि । कानि॑ । चि॒त् । तम् । मा॒ । व्य॒न्ति॒ । आ॒ऽध्यः॑ । वृकः॑ । न । तृ॒ष्णऽज॑म् । मृ॒गम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अहम् । सः । अस्मि । यः । पुरा । सुते । वदामि । कानि । चित् । तम् । मा । व्यन्ति । आध्यः । वृकः । न । तृष्णजम् । मृगम् । वित्तम् । मे । अस्य । रोदसी इति ॥aham | saḥ | asmi | yaḥ | purā | sute | vadāmi | kāni | cit | tam | mā | vyanti | ādhyaḥ | vṛkaḥ | na | tṛṣṇa-jam | mṛgam | vittam | me | asya | rodasī