Sukta 1.105
असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः । न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी ॥
अ॒सौ यः पन्था॑ आदि॒त्यो दि॒वि प्र॒वाच्यं॑ कृ॒तः । न स दे॑वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
asáu yáḥ pánthā ādityó diví prá-vācyam kṛtáḥ | ná sá devā́ ati-kráme táṁ martāso ná paśyatha vittáṁ me asyá rodasī ||
ذاك هو السبيل في السماء، الذي جعله الآديتيا (Āditya) مُعلَنًا مُنادىً به؛ حتى الآلهة لا تتجاوزه. غير أنّ الفانين لا يبصرونه. فلتُثبّتِ السماءُ والأرضُ (Rodasi) فيَّ انكشافَ هذا الطريق الحقّ.
अ॒सौ । यः । पन्थाः॑ । आ॒दि॒त्यः । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तः । न । सः । दे॒वाः॒ । अ॒ति॒ऽक्रमे॑ । तम् । म॒र्ता॒सः॒ । न । प॒श्य॒थ॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥असौ । यः । पन्थाः । आदित्यः । दिवि । प्रवाच्यम् । कृतः । न । सः । देवाः । अतिक्रमे । तम् । मर्तासः । न । पश्यथ । वित्तम् । मे । अस्य । रोदसी इति ॥asau | yaḥ | panthāḥ | ādityaḥ | divi | pra-vācyam | kṛtaḥ | na | saḥ | devāḥ | ati-krame | tam | martāsaḥ | na | paśyatha | vittam | me | asya | rodasī iti