ततः परिचयावस्था जायतेऽभ्यासयोगतः । वायुः परिचितो यत्नादग्निना सह कुण्डलीम्॥ भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः । वायुना सह चित्तं च प्रविशेच्च महापथम्॥ यस्य चित्तं स्वपवनं सुषुम्नां प्रविशेदिह । भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः॥ येषु पञ्चसु देवानां धारणा पञ्चधोद्यते । पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते॥ पृथिवी चतुरस्रं च पीतवर्णं लवर्णकम् । पार्थिवे वायुमारोप्य लकारेण समन्वितम्॥ ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् । धारयेत्पञ्चघटिकाः पृथिवीजयमाप्नुयात्॥ पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः । आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम्॥ आपोऽर्धचन्द्रं शुक्लं च वंबीजं परिकीर्तितम् । वारुणे वायुमारोप्य वकारेण समन्वितम्॥ स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम् । शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम्॥ धारयेत्पञ्चघटिकाः सर्वपापैः प्रमुच्यते । ततो जलाद्भयं नास्ति जले मृत्युर्न विद्यते॥८१-९०॥
ततः परिचय-अवस्था जायते अभ्यास-योगतः । वायुः परिचितः यत्नात् अग्निना सह कुण्डलीम् । भावयित्वा सुषुम्नायाम् प्रविशेत् अनिरोधतः । वायुना सह चित्तम् च प्रविशेत् च महा-पथम् । यस्य चित्तम् स्व-पवनम् सुषुम्नाम् प्रविशेत् इह । भूमिः आपः अनलः वायुः आकाशः च इति पञ्चकः । येषु पञ्चसु देवानाम् धारणा पञ्चधा उद्यते । पादात् यानु-पर्यन्तम् पृथिवी-स्थानम् उच्यते । पृथिवी चतुरस्रम् च पीत-वर्णम् ल-वर्णकम् । पार्थिवे वायुम् आरोप्य ल-कारेण समन्वितम् । ध्यायन् चतुर्भुज-आकारम् चतुर्वक्त्रम् हिरण्मयम् । धारयेत् पञ्च-घटिकाः पृथिवी-जयम् आप्नुयात् । पृथिवी-योगतः मृत्युः न भवेत् अस्य योगिनः । आ-जानोः पायु-पर्यन्तम् अपाम् स्थानम् प्रकीर्तितम् । आपः अर्ध-चन्द्रम् शुक्लम् च वम्-बीजम् परिकीर्तितम् । वारुणे वायुम् आरोप्य व-कारेण समन्वितम् । स्मरन् नारायणम् देवम् चतुर्बाहुम् किरीटिनम् । शुद्ध-स्फटिक-सङ्काशम् पीत-वाससम् अच्युतम् । धारयेत् पञ्च-घटिकाः सर्व-पापैः प्रमुच्यते । ततः जलात् भयम् न अस्ति जले मृत्युः न विद्यते ।
tataḥ paricayāvasthā jāyate ’bhyāsa-yogataḥ | vāyuḥ paricito yatnād agninā saha kuṇḍalīm || bhāvayitvā suṣumnāyāṃ praviśed anirodhataḥ | vāyunā saha cittaṃ ca praviśec ca mahāpatham || yasya cittaṃ svapavanaṃ suṣumnāṃ praviśed iha | bhūmir āpo ’nalo vāyur ākāśaś ceti pañcakaḥ || yeṣu pañcasu devānāṃ dhāraṇā pañcadhodyate | pādādijānūparyantaṃ pṛthivīsthānam ucyate || pṛthivī caturasraṃ ca pītavarṇaṃ lavarṇakam | pārthive vāyum āropya lakāreṇa samanvitam || dhyāyaṃś caturbhujākāraṃ caturvaktraṃ hiraṇmayam | dhārayet pañcaghaṭikāḥ pṛthivījayam āpnuyāt || pṛthivīyogato mṛtyur na bhaved asya yoginaḥ | ājānoḥ pāyuparyantam apāṃ sthānaṃ prakīrtitam || āpo ’rdhacandraṃ śuklaṃ ca vaṃbījaṃ parikīrtitam | vāruṇe vāyum āropya vakāreṇa samanvitam || smarann nārāyaṇaṃ devaṃ caturbāhuṃ kirīṭinam | śuddhasphaṭikasaṅkāśaṃ pītavāsasam acyutam || dhārayet pañcaghaṭikāḥ sarvapāpaiḥ pramucyate | tato jalād bhayaṃ nāsti jale mṛtyur na vidyate ||81–90||
随后,由修习之瑜伽而生起“熟习位”(paricaya)。以精勤之力令持命之风(prāṇa-vāyu)渐趋纯熟,并观想昆达里尼(kuṇḍalī)与火力相应,当无阻碍地入于苏舒姆那(Suṣumnā)。心亦与气同入“大道”。若有人之心与其风在此入于苏舒姆那,则五大——地、水、火、风、空——成为所缘;于此五处,对应五尊而修五重持念与安住(dhāraṇā)。自足至膝称为地界。地为方形,色黄,具音节“la”。将风安置于地界,并与“la”相应,观想四臂四面、金光灿然之形;持此定五个伽提迦(ghaṭikā),便得胜地。由地之瑜伽,此瑜伽行者不为死亡所侵。自膝至肛门宣说为水界。水为半月形,色白,所谓具种子音“vaṃ”。将风安置于水界,并与“va”相应,忆念那罗延(Nārāyaṇa)——四臂、戴冠之神,阿周陀(Acyuta)——如净水晶,着黄衣;持此定五个伽提迦,即脱离一切罪垢。于是对水不复恐惧;于水中亦无死亡可得。
Then, through the yoga of practice, the stage of familiarity (paricaya) arises. Having, by effort, made the vital wind familiar, (and) having contemplated Kuṇḍalī together with fire, one should enter the Suṣumnā without obstruction. And the mind, together with the vital wind, should enter the great path. For whom the mind and its wind enter the Suṣumnā here—(for him) the group of five, namely earth, water, fire, wind, and space (become relevant), in which, among the five deities, the fivefold concentration is undertaken. From the feet up to the knees is said to be the region of earth. Earth is square, yellow in color, and has the syllable ‘la’. Placing the wind in the earth (region), joined with the syllable ‘la’, meditating on the four-armed, four-faced, golden form, one should hold (this concentration) for five ghaṭikās; one attains conquest of earth. Through the yoga of earth, death does not occur for this yogin. From the knees up to the anus is proclaimed as the region of waters. Waters are a half-moon, white, and are said to have the seed-syllable ‘vaṃ’. Placing the wind in the watery (region), joined with the syllable ‘va’, remembering Nārāyaṇa, the four-armed, crowned deity—Acyuta—resembling pure crystal, wearing yellow garments, one should hold (this concentration) for five ghaṭikās; one is freed from all sins. Then there is no fear from water; in water, death is not found.