Yogatattva
यथेष्टवायुधारणाद्वायोः सिद्ध्येत्केवलकुम्भकः ।
केवले कुम्भके सिद्धे रेचपूरविवर्जिते ॥
न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते ।
प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् ॥
ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः ।
कम्पो भवति देहस्य आसनस्थस्य देहिनः ॥
ततोऽधिकतराभ्यासाद्दार्दुरी स्वेन जायते ।
यथा च दर्दुरो भाव उत्प्लुन्योत्प्लुत्य गच्छति ॥
पद्मासनस्थितो योगी तथा गच्छति भूतले ।
ततोऽधिकतरभ्यासाद्भूमित्यागश्च जायते ॥
यथा-इष्ट । वायु-धारणात् । वायोः । सिद्ध्येत् । केवल-कुम्भकः ।
केवले । कुम्भके । सिद्धे । रेच-पूर-विवर्जिते ।
न । तस्य । दुर्लभम् । किञ्चित् । त्रिषु । लोकेषु । विद्यते ।
प्र-स्वेदः । जायते । पूर्वम् । मर्दनम् । तेन । कारयेत् ।
ततः । अपि । धारणात् । वायोः । क्रमेण । एव । शनैः । शनैः ।
कम्पः । भवति । देहस्य । आसन-स्थस्य । देहिनः ।
ततः । अधिकतर-अभ्यासात् । दार्दुरी । स्वेन । जायते ।
यथा । च । दर्दुरः । भावः । उत्प्लुन्य-उत्प्लुत्य । गच्छति ।
पद्मासन-स्थितः । योगी । तथा । गच्छति । भूतले ।
ततः । अधिकतर-अभ्यासात् । भूमि-त्यागः । च । जायते ।
yatheṣṭavāyudhāraṇādvāyoḥ siddhyet kevalakumbhakaḥ |
kevale kumbhake siddhe recapūravivarjite ||
na tasya durlabhaṃ kiñcit triṣu lokeṣu vidyate |
prasvedo jāyate pūrvaṃ mardanaṃ tena kārayet ||
tato'pi dhāraṇādvāyoḥ krameṇaiva śanaiḥ śanaiḥ |
kampo bhavati dehasya āsanasthasya dehinaḥ ||
tato'dhikatarābhyāsāddārdurī svena jāyate |
yathā ca darduro bhāva utplunyotplutya gacchati ||
padmāsanasthito yogī tathā gacchati bhūtale |
tato'dhikatarabhyāsādbhūmityāgaśca jāyate ||
随意持息,则能成就 kevala-kumbhaka(绝对止息)。当 kevala-kumbhaka 成就之时——无出息、无入息——于三界之中,彼无所不可得。最初先起汗;应以此而行摩擦按摩。继而更进一步持息,循序渐进、缓缓而行,安坐于坐法之人,其身发生震颤。复由更深之修习,自然生起“如蛙之态”;如蛙依其本性跳跃前行,瑜伽者安住莲华坐(padmāsana)亦能在地上移动。再由更胜之练习,便生起离地之相(腾空)。
By retention of the breath as one wishes, kevala-kumbhaka (spontaneous/absolute retention) is accomplished. When kevala-kumbhaka is accomplished—free from exhalation and inhalation—nothing is unattainable for him in the three worlds. First sweat arises; by that one should have rubbing/massage done. Then, from further retention of the breath, gradually—little by little—there is trembling of the body of the embodied one seated in posture. Then, from still greater practice, the ‘frog-like’ (state) arises of itself; just as the frog, by nature, goes leaping and leaping, so the yogin seated in padmāsana moves upon the ground. Then, from still greater practice, abandonment of the ground (levitation) arises.