Yogatattva
तमुवाच हृषीकेशो वक्ष्यामि शृणु तत्त्वतः । सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः ॥४॥
तम् । उवाच । हृषीकेशः । वक्ष्यामि । शृणु । तत्त्वतः । सर्वे । जीवाः । सुखैः । दुःखैः । मायाजालेन । वेष्टिताः ॥४॥
tam uvāca hṛṣīkeśo vakṣyāmi śṛṇu tattvataḥ | sarve jīvāḥ sukhair duḥkhair māyājālena veṣṭitāḥ ||4||
Hṛṣīkeśa对他说:“我将开示——汝当如实谛听。一切众生因乐与苦而被摩耶(māyā)之网所缠覆。”
Hṛṣīkeśa said to him: “I shall explain—listen in accordance with reality. All living beings are enveloped by the net of māyā, through pleasures and pains.”