Sita
देवा ह वै प्रजापतिम् अब्रुवन्—का सीता, किं रूपम् इति । स होवाच प्रजापतिः—सा सीतेति । मूलप्रकृतिरूपत्वात् सा सीता प्रकृतिः स्मृता । प्रणवप्रकृतिरूपत्वात् सा सीता प्रकृतिर् उच्यते । सीता इति त्रिवर्णात्मा साक्षान् मायामयी भवेत् । विष्णुः प्रपञ्चबीजं च; माया ईकार उच्यते । सकारः सत्यम् अमृतं प्राप्तिः सोमश् च कीर्त्यते । तकारस् तारलक्ष्म्या च वैराजः प्रस्तरः स्मृतः । ईकाररूपिणी सोमामृतावयवदिव्यालङ्कारस्रङ्मौक्तिकाद्याभरणलङ्कृता महामाया अव्यक्तरूपिणी व्यक्ता भवति । प्रथमा शब्दब्रह्ममयी स्वाध्यायकाले प्रसन्ना उद्भावनकरी सात्मिका; द्वितीया भूतले हलाग्रे समुत्पन्ना; तृतीया ईकाररूपिणी अव्यक्तस्वरूपा भवतीति—सीता इत्य् उदाहरन्ति । शौनकीये ॥१–६॥
देवाः । ह । वै । प्रजापतिम् । अब्रुवन् । का । सीता । किम् । रूपम् । इति । सः । ह । उवाच । प्रजापतिः । सा । सीता । इति । मूल-प्रकृति-रूपत्वात् । सा । सीता । प्रकृतिः । स्मृता । प्रणव-प्रकृति-रूपत्वात् । सा । सीता । प्रकृतिः । उच्यते । सीता । इति । त्रि-वर्ण-आत्मा । साक्षात् । माया-मयी । भवेत् । विष्णुः । प्रपञ्च-बीजम् । च । माया । ई-कारः । उच्यते । स-कारः । सत्यम् । अमृतम् । प्राप्तिः । सोमः । च । कीर्त्यते । त-कारः । तार-लक्ष्म्या । च । वैराजः । प्रस्तरः । स्मृतः । ई-कार-रूपिणी । सोम-अमृत-अवयव । दिव्य-अलङ्कार । स्रक्-मौक्तिक-आदि-आभरण । अलङ्कृता । महा-माया । अव्यक्त-रूपिणी । व्यक्ता । भवति । प्रथमा । शब्द-ब्रह्म-मयी । स्वाध्याय-काले । प्रसन्ना । उद्भावन-करी । स-आत्मिका । द्वितीया । भू-तले । हल-अग्रे । समुत्पन्ना । तृतीया । ई-कार-रूपिणी । अव्यक्त-स्वरूपा । भवति । इति । सीता । इति । उदाहरन्ति ।
devā ha vai prajāpatiṃ abruvan—kā sītā, kiṃ rūpam iti | sa hovāca prajāpatiḥ—sā sīteti | mūlaprakṛtirūpatvāt sā sītā prakṛtiḥ smṛtā | praṇavaprakṛtirūpatvāt sā sītā prakṛtir ucyate | sītā iti trivarnātmā sākṣān māyāmayī bhavet | viṣṇuḥ prapañcabījaṃ ca; māyā īkāra ucyate | sakāraḥ satyam amṛtaṃ prāptiḥ somaś ca kīrtyate | takāras tāralakṣmyā ca vairājaḥ prastaraḥ smṛtaḥ | īkārarūpiṇī somāmṛtāvayavadivyālaṅkārasraṅmauktikādyābharaṇalaṅkṛtā mahāmāyā avyaktarūpiṇī vyaktā bhavati | prathamā śabdabrahmamayī svādhyāyakāle prasannā udbhāvanakarī sātmikā; dvitīyā bhūtale halāgre samutpannā; tṛtīyā īkārarūpiṇī avyaktasvarūpā bhavatīti—sītā ity udāharanti | śaunakīye ||1–6||
诸天问生主(Prajāpati)曰:“谁是悉多(Sītā)?其相云何?”生主答曰:“彼即悉多。”以其具根本自性(mūla-prakṛti)之性,故悉多被忆为自性(Prakṛti);又以其具圣音 praṇava(唵 Oṃ)之自性,亦称自性。“悉多”由三音素而成,直是幻力(Māyā)。毗湿奴(Viṣṇu)为现象世界之种子;幻力被说为元音“ī”。音“sa”宣说为真实、不死、得成与苏摩(Soma);音“ta”被忆为‘tāra’之福瑞与宇宙广大(vairāja)之铺展。以“ī”之形,佩以花鬘、珍珠等天饰,大神幻(Mahāmāyā)虽本不显而今显现。其第一为声梵(Śabda-Brahman),于吠陀诵持时欢悦,能生起显现,且属清净(sattva);其第二于大地犁尖处出生;其第三为“ī”之形,体性不显——故称之为“悉多”。
The gods asked Prajāpati: “Who is Sītā; what is her form?” Prajāpati answered: “She is Sītā.” Because she is of the nature of the root-Prakṛti, Sītā is remembered as Prakṛti; because she is of the nature of the Prakṛti of the praṇava, she is called Prakṛti. “Sītā” is of three phonemes and is directly Māyā. Viṣṇu is the seed of the phenomenal world; Māyā is said to be the vowel ī. The phoneme sa is declared to be truth, immortality, attainment, and Soma; the phoneme ta is remembered as the ‘tāra’-prosperity and as the cosmic (vairāja) expanse. As ī-form, adorned with divine ornaments—garlands, pearls, and the like—Mahāmāyā, unmanifest in form, becomes manifest. The first is Śabda-Brahman, pleased during Vedic recitation, productive of manifestation, and sattvic; the second arises on earth at the tip of the plough; the third, of ī-form, is unmanifest in nature—thus they speak of “Sītā.”