Sita
क्रियाशक्तिस्वरूपं हरेर्मुखान्नादः । तन्नादाद्बिन्दुः । बिन्दोरोङ्कारः । ओङ्कारात्परतो राम वैखानसपर्वतः । तत्पर्वते कर्मज्ञानमयीभिर्बहुशाखा भवन्ति॥२०॥
क्रिया-शक्ति-स्वरूपम् । हरेः । मुखात् । नादः । तत्-नादात् । बिन्दुः । बिन्दोः । ओङ्कारः । ओङ्कारात् । परतः । राम । वैखानस-पर्वतः । तत्-पर्वते । कर्म-ज्ञान-मयीभिः । बहु-शाखाः । भवन्ति ॥२०॥
kriyāśakti-svarūpaṃ harer mukhān nādaḥ | tan-nādād binduḥ | bindor oṅkāraḥ | oṅkārāt parato rāma vaikhānasa-parvataḥ | tat-parvate karma-jñāna-mayībhir bahu-śākhā bhavanti ||20||
从哈利之口生起那达(nāda),其自性为行力(业用之力)。由那达生点(bindu);由点生唵字(Oṅkāra)。超越唵字者,罗摩啊,是毗迦那萨山;于彼山上,生出由业与智所成的众多枝分。
From the mouth of Hari (arises) nāda, whose nature is the power of action. From that nāda (arises) bindu; from bindu, Oṅkāra. Beyond Oṅkāra, O Rāma, is the Vaikhānasa mountain; on that mountain there come to be many branches consisting of action and knowledge.