Sarvasara
सुखदुःखबुद्ध्या श्रेयोऽन्तः कर्ता यदा तदा इष्टविषये बुद्धिः सुखबुद्धिरनिष्टविषये बुद्धिर्दुःखबुद्धिः। शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः। पुण्यपापकर्मानुसारी भूत्वा प्राप्तशरीरसंयोगमप्राप्तशरीरसंयोगमिव कुर्वाणो यदा दृश्यते तदोपहितजीव इत्युच्यते॥६॥
सुख-दुःख-बुद्ध्या । श्रेयः-अन्तः । कर्ता । यदा । तदा । इष्ट-विषये । बुद्धिः । सुख-बुद्धिः । अनिष्ट-विषये । बुद्धिः । दुःख-बुद्धिः । शब्द-स्पर्श-रूप-रस-गन्धाः । सुख-दुःख-हेतवः । पुण्य-पाप-कर्म-अनुसारी । भूत्वा । प्राप्त-शरीर-संयोगम् । अप्राप्त-शरीर-संयोगम् । इव । कुर्वाणः । यदा । दृश्यते । तदा । उपहित-जीवः । इति । उच्यते ॥६॥
sukha-duḥkha-buddhyā śreyo 'ntaḥ kartā yadā tadā iṣṭa-viṣaye buddhiḥ sukha-buddhir aniṣṭa-viṣaye buddhiḥ duḥkha-buddhiḥ | śabda-sparśa-rūpa-rasa-gandhāḥ sukha-duḥkha-hetavaḥ | puṇya-pāpa-karma-anusārī bhūtvā prāpta-śarīra-saṃyogam aprāpta-śarīra-saṃyogam iva kurvāṇo yadā dṛśyate tadā upahita-jīva ity ucyate ||6||
当由于对乐与苦的认知,而内在出现一个趋向于善益的“作者”时:于可意之境,认知即为乐知;于不可意之境,认知即为苦知。声、触、色、味、香,是乐与苦之因。若见其随顺福业与罪业,仿佛造成与已得之身的结合,以及与未得之身的结合,则名为受条件所限的个体(upahita jīva)。
When, through the cognition of pleasure and pain, there is an inner agent concerned with what is beneficial, then in a desired object the cognition is a pleasure-cognition, and in an undesired object the cognition is a pain-cognition. Sound, touch, form, taste, and smell are causes of pleasure and pain. When one is seen to follow merit and demerit, producing as it were conjunction with a body already obtained and conjunction with a body not yet obtained, then it is called the conditioned individual (upahita jīva).