Naadbindu
सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् ।
सदा नादानुसन्धानात् संक्षीणा वासना भवेत् ॥
निरञ्जने विलीयेते मनोवायू न संशयः ।
नादकोटिसहस्राणि बिन्दुकोटिशतानि च ॥
सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके ।
सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः ॥
मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः ।
शङ्खदुन्दुभिनादं च न शृणोति कदाचन ॥
स-शब्दः च अक्षरे क्षीणे निः-शब्दम् परम् पदम् ।
सदा नाद-अनुसन्धानात् सं-क्षीणा वासना भवेत् ॥
निरञ्जने विलीयेते मनः-वायू न संशयः ।
नाद-कोटि-सहस्राणि बिन्दु-कोटि-शतानि च ॥
सर्वे तत्र लयम् यान्ति ब्रह्म-प्रणव-नादके ।
सर्व-अवस्था-विनिर्मुक्तः सर्व-चिन्ता-विवर्जितः ॥
मृत-वत् तिष्ठते योगी सः मुक्तः न अत्र संशयः ।
शङ्ख-दुन्दुभि-नादम् च न शृणोति कदाचन ॥
saśabdaścākṣare kṣīṇe niḥśabdaṃ paramaṃ padam |
sadā nādānusandhānāt saṃkṣīṇā vāsanā bhavet ||
nirañjane vilīyete manovāyū na saṃśayaḥ |
nādakoṭisahasrāṇi bindukoṭiśatāni ca ||
sarve tatra layaṃ yānti brahmapraṇavanādake |
sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ ||
mṛtavattiṣṭhate yogī sa mukto nātra saṃśayaḥ |
śaṅkhadundubhinādaṃ ca na śṛṇoti kadācana ||
当不坏音节(akṣara,即“唵”Oṃ)连同一切有声之相都已穷尽时,至上境界即为无声。由恒常探究那达(nāda),潜在习气(vāsanā)便彻底消薄而灭。在无垢者(nirañjana)中,心与生命之风(prāṇa)融解无余——毫无疑惑。千千万万的那达与亿万的点滴(bindu),皆于彼处归于寂灭:在作为普罗那瓦之音(praṇava-nāda)的梵(Brahman)中。超越一切状态,远离一切思虑,瑜伽行者如同死寂而立;彼已解脱——无可置疑。他从不再听见,哪怕是海螺与鼓的声响。
When the syllable (akṣara, i.e., Oṃ) together with sound is exhausted, the supreme state is soundless. By constant investigation of nāda, latent impressions (vāsanā-s) become completely attenuated. In the stainless (nirañjana) [Brahman], mind and vital wind dissolve—there is no doubt. Thousands of crores of nāda-s and hundreds of crores of bindu-s—all of them enter dissolution there, in the Brahman that is the praṇava-nāda. Freed from all states and devoid of all thought, the yogin stands as if dead; he is liberated—no doubt of this. He does not at any time hear even the sounds of conch or drum.