Naadbindu
विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति । मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः ॥ नियामनसमर्थोऽयं निनादो निशिताङ्कुशः । नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते ॥ अन्तरङ्गसमुद्रस्य रोधे वेलायतेऽपि च । ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः ॥
विस्मृत्य । विश्वम् । एकाग्रः । कुत्रचित् । न । हि । धावति । मनः-उन्मत्त-गजेन्द्रस्य । विषय-उद्यान-चारिणः ॥ नियामन-समर्थः । अयम् । निनादः । निशित-अङ्कुशः । नादः । अन्तरङ्ग-सारङ्ग-बन्धने । वागुरा । आयते ॥ अन्तरङ्ग-समुद्रस्य । रोधे । वेला । आयते । अपि । च । ब्रह्म-प्रणव-संलग्न-नादः । ज्योतिः-मय-आत्मकः ॥
vismṛtya viśvam ekāgraḥ kutracinnahi dhāvati | manomattagajendrasya viṣayodyānacāriṇaḥ || niyāmanasamartho 'yaṃ ninādo niśitāṅkuśaḥ | nādo 'ntaraṅgasāraṅgabandhane vāgurāyate || antaraṅgasamudrasya rodhe velāyate 'pi ca | brahmapraṇavasaṃlagnanādo jyotirmayātmakaḥ ||
忘却世间之后,心念专一,不再奔逐他处——如发情的象王在诸境欲乐之园中游走。此回响(nināda)如锐利之钩,能摄持调御;此 nāda 成为罗网,系缚内在之鹿(心)。它亦如堤岸,遏止内海之波;而与梵、以圣音 praṇava(Oṃ)相应之 nāda,其自性为光明。
Having forgotten the world, the mind, made one-pointed, does not run anywhere—(the mind) of the rutting lordly elephant that roams in the pleasure-grove of sense-objects. This resonance (nināda) is a sharp goad capable of restraint; the nāda becomes a net for binding the inner deer (the mind). It also becomes a shore (velā) for damming the inner ocean; the nāda, conjoined with Brahman as praṇava (Oṃ), is of the nature of light.