Naadbindu
देहादीनामसत्त्वात्तु यथा स्वप्नो विबोधतः । कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ॥
देह-आदीनाम् । असत्त्वात् । तु । यथा । स्वप्नः । विबोधतः । कर्म । जन्म-अन्तरीयम् । यत् । प्रारब्धम् । इति । कीर्तितम् ॥
dehādīnām asattvāt tu yathā svapno vibodhataḥ | karma janmāntarīyaṃ yat prārabdham iti kīrtitam ||
然而由于此身及其一切本不真实——如梦在醒时即破——那被称为“prārabdha”的、属于他生的业,也同样是不真实的。
But because the body and the rest are unreal—just as a dream (is unreal) upon awakening—the karma belonging to another birth which is spoken of as ‘prārabdha’ (is likewise unreal).