Kshurika
ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् । एकोत्तरं नाडिशतं तासां मध्ये वराः स्मृताः ॥ सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी । इडा तिष्ठति वामेन पिङ्गला दक्षिणेन च ॥
ततः । कण्ठ-अन्तरे । योगी । समूहन् । नाडि-सञ्चयम् । एक-उत्तरम् । नाडि-शतम् । तासाम् । मध्ये । वराः । स्मृताः ॥ सुषुम्ना । तु । परे । लीना । विरजा । ब्रह्म-रूपिणी ॥ इडा । तिष्ठति । वामेन । पिङ्गला । दक्षिणेन । च ॥
tataḥ kaṇṭhāntare yogī samūhannāḍisañcayam | ekottaraṃ nāḍiśataṃ tāsāṃ madhye varāḥ smṛtāḥ || suṣumnā tu pare līnā virajā brahmarūpiṇī | iḍā tiṣṭhati vāmena piṅgalā dakṣiṇena ca ||
于是,在喉中之域,瑜伽行者摄聚诸脉(nāḍī)之群。相传有一百零一条脉;其中若干被称为最胜。苏舒姆那(Suṣumnā)实融于至上——无垢清净,具梵(Brahman)之性。伊达(Iḍā)居左,平伽拉(Piṅgalā)居右。
Then, in the region within the throat, the yogin gathers together the collection of nāḍīs. There are said to be one hundred and one nāḍīs; among them certain ones are regarded as excellent. Suṣumnā, indeed, is merged in the Supreme—stainless, of the nature of Brahman. Iḍā stands on the left, and Piṅgalā on the right.