Kshurika
पादस्योपरि यन्मध्ये तद्रूपं नाम कृन्तयेत् । मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः ॥ इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकीर्तनम् । तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् । चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः ॥
पादस्य । उपरि । यत् । मध्ये । तत्-रूपम् । नाम । कृन्तयेत् । मनः-द्वारेण । तीक्ष्णेन । योगम् । आश्रित्य । नित्यशः । इन्द्र-वज्रः । इति । प्रोक्तम् । मर्म । जङ्घा-अनुकीर्तनम् । तत्-ध्यान-बल-योगेन । धारणाभिः । निकृन्तयेत् । ऊर्वोः । मध्ये । तु । संस्थाप्य । मर्म । प्राण-विमोचनम् । चतुः-अभ्यास-योगेन । छिन्देत् । दैन्य-अभिशङ्कितः ।
pādasyopari yanmadhye tadrūpaṃ nāma kṛntayet | manodvāreṇa tīkṣṇena yogamāśritya nityaśaḥ || indravajra iti proktaṃ marmajaṅghānukīrtanam | taddhyānabalayogena dhāraṇābhir nikṛntayet || ūrvormadhye tu saṃsthāpya marmaprāṇavimocanam | caturabhyāsayogena chinded dainyābhiśaṅkitaḥ ||
在足之上、居中的部位,应以锐利的“心门”而“割断”彼相,恒常依止于瑜伽。此称为“因陀罗之雷霆金刚”,即对小腿处要害点(marma)的激发与诵持;凭禅定之力的瑜伽,应以诸dhāraṇā(安住持念)而断之。随后将觉照置于两股之间,于要害处释放气(prāṇa);以四重反复修习而切断,并护持其心不陷于沮丧。
Above the foot, in the middle (region), one should ‘cut’ that form by the sharp gateway of the mind, resorting to yoga constantly. This is called the “Indra’s thunderbolt,” the activation/recitation of the marma in the calf; by the yoga of meditative power, one should cut by means of dhāraṇās. Then, placing (attention) in the middle of the thighs, releasing the vital force at the marma, by fourfold repeated practice one should cut, guarding against despondency.