Katharudra
सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् ।
सुखी भवति सर्वत्र अन्यथा सुखता कुतः ॥
असत्यस्मिन् परानन्दे स्वात्मभूतेऽखिलात्मनाम् ।
को जीवति नरो जन्तुः को वा नित्यं विचेष्टते ॥
तस्मात् सर्वात्मना चित्ते भासमानो ह्यसौ नरः ।
आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः ॥
यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे ।
निर्भेदं परमाद्वैतं विन्दते च महायतिः ॥
तदेवाभयम् अत्यन्तकल्याणं परमामृतम् ।
सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् ॥
यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः ।
विजानाति तदा तस्य भयं स्यान्नात्र संशयः ॥
अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः ।
भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु ॥
तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः ।
स्वरूपभूत आनन्दः स्वयं भाति परे यथा ॥
निमित्तं किञ्चिदाश्रित्य खलु शब्दः प्रवर्तते ।
यतो वाचो निवर्तन्ते निमित्तानामभवतः ॥
निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते ।
तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् ॥
यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च ॥
सारम् एव । रसम् । लब्ध्वा । साक्षात् । देही । सनातनम् । सुखी । भवति । सर्वत्र । अन्यथा । सुखता । कुतः ॥
असति । अस्मिन् । पर-आनन्दे । स्व-आत्म-भूते । अखिल-आत्मनाम् । कः । जीवति । नरः । जन्तुः । कः । वा । नित्यम् । विचेष्टते ॥
तस्मात् । सर्व-आत्मना । चित्ते । भासमानः । हि । असौ । नरः । आनन्दयति । दुःख-आढ्यम् । जीव-आत्मानम् । सदा । जनः ॥
यदा । हि । एव । एषः । एतस्मिन् । अदृश्यत्व-आदि-लक्षणे । निर्भेदम् । परम-अद्वैतम् । विन्दते । च । महा-यतिः ॥
तत् । एव । अभयम् । अत्यन्त-कल्याणम् । परम-अमृतम् । सत्-रूपम् । परमम् । ब्रह्म । त्रि-परिच्छेद-वर्जितम् ॥
यदा । हि । एव । एषः । एतस्मिन् । अल्पम् अपि । अन्तरम् । नरः । विजानाति । तदा । तस्य । भयम् । स्यात् । न । अत्र । संशयः ॥
अस्य । एव । आनन्द-कोशेन । स्तम्ब-अन्ताः । विष्णु-पूर्वकाः । भवन्ति । सुखिनः । नित्यम् । तारतम्य-क्रमेण । तु ॥
तत्-तत्-पद-विरक्तस्य । श्रोत्रियस्य । प्रसादिनः । स्वरूप-भूतः । आनन्दः । स्वयम् । भाति । परे । यथा ॥
निमित्तम् । किञ्चित् । आश्रित्य । खलु । शब्दः । प्रवर्तते । यतः । वाचः । निवर्तन्ते । निमित्तानाम् । अभवतः ॥
निर्विशेषे । पर-आनन्दे । कथम् । शब्दः । प्रवर्तते । तस्मात् । एतत् । मनः । सूक्ष्मम् । व्यावृतम् । सर्व-गोचरम् ॥
यस्मात् । श्रोत्र-त्वक्-अक्षि-आदि । खादि-कर्म-इन्द्रियाणि । च ॥
sāram eva rasaṃ labdhvā sākṣād dehī sanātanam |
sukhī bhavati sarvatra anyathā sukhatā kutaḥ ||
asaty asmin parānande svātmabhūte’khilātmanām |
ko jīvati naro jantuḥ ko vā nityaṃ viceṣṭate ||
tasmāt sarvātmanā citte bhāsamāno hy asau naraḥ |
ānandayati duḥkhāḍhyaṃ jīvātmānaṃ sadā janaḥ ||
yadā hy evaiṣa etasminn adṛśyatvādilakṣaṇe |
irbhedaṃ paramādvaitaṃ vindate ca mahāyatiḥ ||
tad evābhayam atyantakalyāṇaṃ paramāmṛtam |
sadrūpaṃ paramaṃ brahma triparicchedavarjitam ||
yadā hy evaiṣa etasminn alpam apy antaraṃ naraḥ |
vijānāti tadā tasya bhayaṃ syān nātra saṃśayaḥ ||
asyai vānandakośena stambāntā viṣṇupūrvakāḥ |
bhavanti sukhino nityaṃ tāratamyakrameṇa tu ||
tattatpadaviraktasya śrotriyasya prasādinaḥ |
svarūpabhūta ānandaḥ svayaṃ bhāti pare yathā ||
nimittaṃ kiñcid āśritya khalu śabdaḥ pravartate |
yato vāco nivartante nimittānām abhavataḥ ||
nirviśeṣe parānande kathaṃ śabdaḥ pravartate |
tasmād etan manaḥ sūkṣmaṃ vyāvṛtaṃ sarvagocaram ||
yasmāc chrotratvagakṣyādikhādikarmendriyāṇi ca ||
既得“味”(rasa)之真髓——亲证永恒具身之自我——则处处安乐;否则,乐从何来?在此至上大乐中,它非经验世界之对象,而为一切众我之自性;何人何众生还能以分离之相而“生”,又有谁能恒常奔逐不息?故彼在心中以一切我而光明者,常令多苦之个我(jīva)得欢喜。若大出离者于具“不可见”等相之彼处,证得无差别——至上不二(Advaita)——彼即无畏、至善、至上甘露:以“有”(Sat)为性之梵(Brahman),离三重限定。然若人于彼中知有丝毫差别,则怖畏必生——无可疑也。由此喜乐鞘(ānandamaya-kośa)之映现,自草芒以至毗湿奴(Viṣṇu)乃至更上,众生皆得常乐,唯随品类而有阶次。对安定清明、厌离诸境之闻圣者(śrotriya),其自性之乐在至上者中自照自明。言语唯依某种所缘与条件而起;于彼处,言语退还,因为诸条件不存。在无相之至上大乐中,言语何由运行?是故此心极其微细,离诸境而收摄;由此而有耳、皮、眼等诸根,以及诸业根之作用。
Same passage as Katharudra.28 in the supplied input: it asserts that happiness is grounded in direct realization of the eternal Self as the essence; that supreme bliss is the Self of all; non-dual realization yields fearlessness and immortality beyond the three delimitations; perceiving any difference produces fear; all beings enjoy only by a graded reflection of the bliss-sheath; and speech and mind cannot function in attributeless bliss, hence the withdrawal of mind and senses.