Katharudra
अस्थिस्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् ।
योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः ॥
ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरः स्थितः ।
ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः ॥
आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः ।
योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ॥
मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः ।
तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु ॥
आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् ।
तथानन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा ॥
सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित् ।
यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानद्वयात्मकम् ॥
अस्थि-स्नाय्वादि-रूपः अयम् शरीरम् भाति देहिनाम् ।
यः अयम् अन्न-मयः हि आत्मा भाति सर्व-शरीरिणः ॥
ततः प्राण-मयः हि आत्मा विभिन्नः च अन्तरः स्थितः ।
ततः विज्ञानः आत्मा तु ततः अन्यः च अन्तरः स्वतः ॥
आनन्द-मयः आत्मा तु ततः अन्यः च अन्तर-स्थितः ।
यः अयम् अन्न-मयः सः अयम् पूर्णः प्राण-मयेन तु ॥
मनो-मयेन प्राणः अपि तथा पूर्णः स्व-भावतः ।
तथा मनो-मयः हि आत्मा पूर्णः ज्ञान-मयेन तु ॥
आनन्देन सदा पूर्णः सदा ज्ञान-मयः सुखम् ।
तथा आनन्द-मयः च अपि ब्रह्मणः अन्येन साक्षिणा ॥
सर्व-अन्तरेण पूर्णः च ब्रह्म न अन्येन केनचित् ।
यत् इदम् ब्रह्म-पुच्छ-आख्यम् सत्य-ज्ञान-द्वय-आत्मकम् ॥
asthisnāyvādirūpo ’yaṃ śarīraṃ bhāti dehinām |
yo ’yam annamayo hy ātmā bhāti sarvaśarīriṇaḥ ||
tataḥ prāṇamayo hy ātmā bhinnaś cāntaraḥ sthitaḥ |
tato vijñāna ātmā tu tato ’nyaś cāntaraḥ svataḥ ||
ānandamaya ātmā tu tato ’nyaś cāntarasthitaḥ |
yo ’yam annamayaḥ so ’yaṃ pūrṇaḥ prāṇamayena tu ||
manomayena prāṇo ’pi tathā pūrṇaḥ svabhāvataḥ |
tathā manomayo hy ātmā pūrṇo jñānamayena tu ||
ānandena sadā pūrṇaḥ sadā jñānamayaḥ sukham |
tathānandamayaś cāpi brahmaṇo ’nyena sākṣiṇā ||
sarvāntareṇa pūrṇaś ca brahma nānyena kenacit |
yad idaṃ brahmapucchākhyaṃ satyajñānadvayātmakam ||
此身由骨、筋等所成,显现于诸具身者。由食所成之我(annamaya)显现于一切具身者。其后,内在而有别者为由气息生命所成之我(prāṇamaya);继而为觉知分别之我(vijñāna);再后,内在而有别者为由安乐所成之我(ānandamaya)。食所成我为气所成我所充满;气为意所成我(manomaya)所充满;意所成我为智所成我(jñānamaya)所充满。智所成我恒为安乐(ānanda)所充满,即为乐。乐所成我亦与超越其上的见证者(Sākṣin)相应。梵(Brahman)于一切内在皆为圆满,并非由他物而圆满;此名“梵之尾”(brahmapuccha),其性为真实与知识。
This body, constituted of bones, sinews, and the like, appears for embodied beings. That self made of food appears for all embodied beings. Then, distinct and inner, is the self made of vital breath; then the self of cognition; then, inner and distinct, the bliss-made self. The food-made self is filled by the breath-made; breath is filled by the mind-made; the mind-made self is filled by the knowledge-made. The knowledge-made is ever filled with bliss—happiness. And the bliss-made too is (related to) the witness, other than Brahman. Brahman is full within all, not by anything else—this which is called the ‘Brahman-tail’, of the nature of truth and knowledge.