Katharudra
ब्रह्मभूतात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात् । अपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् ॥ आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः । वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा ॥ तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा । तेभ्य एव विसृष्टं तद्ब्रह्माण्डादि शिवेन ह ॥ ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नराः । मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः ॥
ब्रह्म-भूत-आत्मनः तस्मात् एतस्मात् शक्ति-मिश्रितात् । अपञ्चीकृतः आकाश-सम्भूतः रज्जु-सर्प-वत् ॥ आकाशात् वायु-संज्ञः तु स्पर्शः अपञ्चीकृतः पुनः । वायोः अग्निः तथा च अग्नेः आपः अद्भ्यः वसुन्धरा ॥ तानि भूतानि सूक्ष्माणि पञ्चीकृत्य ईश्वरः तदा । तेभ्यः एव विसृष्टम् तत् ब्रह्माण्ड-आदि शिवेन ह ॥ ब्रह्माण्डस्य उदरे देवाः दानवाः यक्ष-किन्नराः । मनुष्याः पशु-पक्षि-आद्याः तत्-तत्-कर्म-अनुसारतः ॥
brahmabhūtātmanas tasmād etasmāc chaktimiśritāt | apañcīkṛta ākāśasambhūto rajjusarpavat || ākāśād vāyusaṃjñas tu sparśo'pañcīkṛtaḥ punaḥ | vāyor agnis tathā cāgner āpa adbhyō vasundharā || tāni bhūtāni sūkṣmāṇi pañcīkṛtyeśvaras tadā | tebhya eva visṛṣṭaṃ tad brahmāṇḍādi śivena ha || brahmāṇḍasyodare devā dānavā yakṣakinnarāḥ | manuṣyāḥ paśupakṣyādyās tattatkarma-anusārataḥ ||
此偈复述同一宇宙生成之说:由彼已成梵之自我,与神力(śakti)相杂,生未五化之微细虚空,如绳现蛇。由虚空生未五化之触,名为风;由风生火,由火生水,由水生地。主宰将诸微细大种行五化,由此造宇宙卵及一切众生——实由湿婆(Śiva)而成。宇宙卵之中有诸天、阿修罗、夜叉、紧那罗、人类与禽兽等,皆随各自业(karma)而现。
This verse repeats the same cosmological account as Katharudra.17: from the Self associated with power arise the subtle elements (ether, air, fire, water, earth); the Lord quintuplicates them and creates the cosmic egg and beings within it according to karma, under Śiva.