Previous Verse
Next Verse

Verse 4

Kalagnirudra

तं होवाच भगवान्कालाग्निरुद्रः— यद्द्रव्यं तदाग्नेयं भस्म। सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्य ‘अग्निरिति भस्म, वायुरिति भस्म, जलमिति भस्म, स्थलमिति भस्म, व्योमेति भस्म’ इत्यनेनाभिमन्त्र्य ‘मानस्तोक’ इति समुद्धृत्य ‘मा नो महान्तम्’ इति जलेन संसृज्य ‘त्रियायुषम्’ इति शिरोललाटवक्षःस्कन्धेषु त्रियायुषैस्त्र्यम्बकैस्त्रिशक्तिभिस्तिर्यक्तिस्रो रेखाः प्रकुर्वीत। व्रतमेतच्छाम्भवं सर्वेषु देवेषु वेदवादिभिरुक्तं भवति। तस्मात्तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय॥ अथ सनत्कुमारः पप्रच्छ— प्रमाणमस्य त्रिपुण्ड्रधारणस्य? त्रिधा रेखा भवत्याललाटादाचक्षुषोरामूर्ध्नोराभ्रुवोर्मध्यतश्च॥

तम् । होवाच । भगवान् । कालाग्निरुद्रः । यत् । द्रव्यम् । तत् । आग्नेयम् । भस्म । सद्योजात-आदि-पञ्चब्रह्म-मन्त्रैः । परिगृह्य । अग्निः-इति । भस्म । वायुः-इति । भस्म । जलम्-इति । भस्म । स्थलम्-इति । भस्म । व्योम-इति । भस्म । इति । अनेन । अभिमन्त्र्य । मानः-स्तोकः-इति । समुद्धृत्य । मा । नः । महान्तम्-इति । जलेन । संसृज्य । त्रि-आयुषम्-इति । शिरः-ललाट-वक्षः-स्कन्धेषु । त्रि-आयुषैः । त्र्यम्बकैः । त्रि-शक्तिभिः । तिर्यक् । तिस्रः । रेखाः । प्रकुर्वीत । व्रतम् । एतत् । शाम्भवम् । सर्वेषु । देवेषु । वेद-वादिभिः । उक्तम् । भवति । तस्मात् । तत् । समाचरेत् । मुमुक्षुः । न । पुनर्भवाय । अथ । सनत्कुमारः । पप्रच्छ । प्रमाणम् । अस्य । त्रिपुण्ड्र-धारणस्य । त्रिधा । रेखा । भवति । आ-ललाटात् । आ-चक्षुषोः । आ-मूर्ध्नोः । आ-भ्रुवोः । मध्यतः । च ।

taṃ hovāca bhagavān kālāgnirudraḥ— yaddravyaṃ tadāgneyaṃ bhasma | sadyojātādipañcabrahma-mantraiḥ parigṛhya ‘agnir iti bhasma, vāyur iti bhasma, jalam iti bhasma, sthalam iti bhasma, vyometi bhasma’ ity anenābhimantrya ‘mānas toka’ iti samuddhṛtya ‘mā no mahāntam’ iti jalena saṃsṛjya ‘triyāyuṣam’ iti śirolalāṭavakṣaḥskandheṣu triyāyuṣais tryambakais triśaktibhis tiryaktisro rekhāḥ prakurvīta | vratam etac chāmbhavaṃ sarveṣu deveṣu vedavādibhir uktaṃ bhavati | tasmāt tat samācaret mumukṣur na punarbhavāya || atha sanatkumāraḥ papraccha— pramāṇam asya tripuṇḍra-dhāraṇasya? tridhā rekhā bhavaty ālalāṭād ācakṣuṣor āmūrdhnor ābhruvor madhyataś ca ||

世尊迦罗阿伽尼鲁陀罗对他说:“此物具火性,即圣灰(bhasma)。以始于‘Sadyojāta’之五梵(Pañca-brahman)真言摄持之;复以此句加持:‘灰即火;灰即风;灰即水;灰即地;灰即虚空。’又以‘mānas toka’举取,以‘mā no mahāntam’和水调合;继而以‘triyāyuṣam’在头顶、额、胸与双肩画三道横线——并配以‘triyāyuṣa’、‘tryambaka’与‘triśakti’诸真言。此为湿婆之誓行(Śāmbhava),为诸吠陀阐释者于一切神祇中所宣说。故求解脱者当修此行,以得不复来(不再轮回)。其后,善德童子(Sanatkumāra)问:‘佩戴三道圣灰纹(tripuṇḍra)的准则为何?’答曰:‘其线为三:自额至目;至头顶;并自两眉之间之中点而起。’

Kālāgnirudra said to him: “That substance is of the nature of fire—namely, ash. Having taken it up with the five-Brahman mantras beginning with ‘Sadyojāta’, and having consecrated it with (the formula) ‘Ash is fire; ash is wind; ash is water; ash is earth; ash is space’, and having lifted it up with ‘mānas toka’, and having mixed it with water with ‘mā no mahāntam’, one should, with ‘triyāyuṣam’, make three horizontal lines on the head, forehead, chest, and shoulders—(lines) with the (mantras) ‘triyāyuṣa’, ‘tryambaka’, and ‘triśakti’. This observance is Śaiva (Śāmbhava) and is declared by the exponents of the Veda among all the deities. Therefore the seeker of liberation should practice it, for the sake of non-return (from rebirth). Then Sanatkumāra asked: ‘What is the measure/standard for wearing the tripuṇḍra?’ (He replied:) ‘The line is threefold—(drawn) from the forehead up to the eyes, up to the crown of the head, and from the middle of the eyebrows.’

Moksha (non-return) through Śaiva-vrata; purification and consecration of the body as a support for Brahma-vidyāMahavakya: Indirect: supports the sādhanā (purification/adhikāritva) for realizing identity-teachings such as ‘ahaṃ brahmāsmi’ rather than stating a Mahāvākya explicitlyAtharvaChandas: Prose (Upaniṣadic gadya with embedded mantra citations)