Verse 5

Atharvashiras

एको ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । स एव जातः जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ।

एको रुद्रो न द्वितीयाय तस्मै य इमाँल्लोकानीशत ईशनीभिः । प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता ।

यो योनिं योनिमधितिष्ठति—त्येको येनेदं सर्वं विचरति सर्वम् । तमीशानं पुरुषं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति ।

क्षमां हित्वा हेतुजालास्य मूलं बुद्ध्या संचितं स्थापयित्वा तु रुद्रे । रुद्रमेकत्वमाहुः शाश्वतं वै पुराणमिषमूर्जेण पशवोऽनुनामयन्तं मृत्युपाशान् ।

तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजन्ति पशुपाशविमोक्षणम् ।

या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेत् ब्रह्मपदम् ।

या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् ।

या सा तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् ।

या सार्धचतुर्थी मात्रा सर्वदेवत्या अव्यक्तीभूता खं विचरति शुद्धा स्फटिकसन्निभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत् पदमनामयम् ।

तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणमयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परमपरं परायणं चेति ।

वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् । तमात्मस्थं येनु पश्यन्ति धीरास्तेषां शान्तिर्भवति नेतरेषाम् ।

यस्मिन् क्रोधं यां च तृष्णां क्षमां चाक्षमां हित्वा हेतुजालस्य मूलम् । बुद्ध्या संचितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः ।

रुद्रो हि शाश्वतेन वै पुराणेनेषमूर्जेण तपसा नियन्ता ।

अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं ह वा इदं भस्म । मन एतानि चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्म नाङ्गानि संस्पृशेत् तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाशविमोक्षणाय ॥५॥

एकः ह देवः । प्रदिशः नु सर्वाः । पूर्वः ह जातः । सः उ गर्भे अन्तः । सः एव जातः । जनिष्यमाणः । प्रत्यङ् जनान् तिष्ठति । सर्वतः-मुखः ।

एकः रुद्रः । न द्वितीयाय । तस्मै । यः इमान् लोकान् ईशत । ईशनीभिः । प्रत्यङ् जनान् तिष्ठति । सञ्चुकोच । अन्त-काले । संसृज्य । विश्वाः भुवनानि । गोप्ता ।

यः योनिम् योनिम् अधितिष्ठति । इति एकः । येन इदम् सर्वम् विचरति । सर्वम् । तम् ईशानम् । पुरुषम् । देवम् । ईड्यम् । निचाय्य । इमाम् शान्तिम् अत्यन्तम् एति ।

क्षमाम् हित्वा । हेतु-जालस्य मूलम् । बुद्ध्या संचितम् । स्थापयित्वा तु । रुद्रे । रुद्रम् एकत्वम् आहुः । शाश्वतम् वै । पुराणम् । इषम्-ऊर्जेण । पशवः अनुनामयन्तम् । मृत्यु-पाशान् ।

तत् एतेन आत्मन् । एतेन अर्ध-चतुर्थेन मात्रेण । शान्तिम् संसृजन्ति । पशु-पाश-विमोक्षणम् ।

या सा प्रथमा मात्रा । ब्रह्म-देवत्या । रक्त-वर्णेन । यः ताम् ध्यायते नित्यम् । सः गच्छेत् ब्रह्म-पदम् ।

या सा द्वितीया मात्रा । विष्णु-देवत्या । कृष्णा-वर्णेन । यः ताम् ध्यायते नित्यम् । सः गच्छेत् वैष्णवम् पदम् ।

या सा तृतीया मात्रा । ईशान-देवत्या । कपिला-वर्णेन । यः ताम् ध्यायते नित्यम् । सः गच्छेत् ऐशानम् पदम् ।

या सा अर्ध-चतुर्थी मात्रा । सर्व-देवत्या । अव्यक्ती-भूता । खम् विचरति । शुद्धा । स्फटिक-सन्निभा-वर्णेन । यः ताम् ध्यायते नित्यम् । सः गच्छेत् पदम् अनामयम् ।

तत् एतत् उपासीत । मुनयः वाक् वदन्ति । न तस्य ग्रहण-मयः पन्थाः । विहितः उत्तरेण । येन देवाः यान्ति । येन पितरः । येन ऋषयः । परम-अपरम् परायणम् च इति ।

वाल-अग्र-मात्रम् । हृदयस्य मध्ये । विश्वम् देवम् । जात-रूपम् । वरेण्यम् । तम् आत्म-स्थम् । येनु पश्यन्ति । धीराः । तेषाम् शान्तिः भवति । न इतरेषाम् ।

यस्मिन् क्रोधम् । याम् च तृष्णाम् । क्षमाम् च अक्षमाम् । हित्वा । हेतु-जालस्य मूलम् । बुद्ध्या संचितम् । स्थापयित्वा तु । रुद्रे । रुद्रम् एकत्वम् आहुः ।

रुद्रः हि । शाश्वतेन वै । पुराणेन । इषम्-ऊर्जेण । तपसा । नियन्ता ।

अग्निः इति भस्म । वायुः इति भस्म । जलम् इति भस्म । स्थलम् इति भस्म । व्योम इति भस्म । सर्वम् ह वा इदम् भस्म । मनः । एतानि चक्षूंषि । यस्मात् व्रतम् इदम् पाशुपतम् । यत् भस्म । न अङ्गानि संस्पृशेत् । तस्मात् ब्रह्म । तत् एतत् पाशुपतम् । पशु-पाश-विमोक्षणाय ॥५॥

eko ha devaḥ pradiśo nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ | sa eva jātaḥ janiṣyamāṇaḥ pratyaṅjanās tiṣṭhati sarvatomukhaḥ |

eko rudro na dvitīyāya tasmai ya imāṃl lokān īśata īśanībhiḥ | pratyaṅjanās tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni goptā |

yo yoniṃ yonim adhitiṣṭhatīty eko yenedaṃ sarvaṃ vicarati sarvam | tam īśānaṃ puruṣaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti |

kṣamāṃ hitvā hetujālāsya mūlaṃ buddhyā saṃcitaṃ sthāpayitvā tu rudre | rudram ekatvam āhuḥ śāśvataṃ vai purāṇam iṣamūrjeṇa paśavo ’nunāmayantaṃ mṛtyupāśān |

tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjanti paśupāśavimokṣaṇam |

yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet brahmapadam |

yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam |

yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam |

yā sārdhacaturthī mātrā sarvadevatyā ’vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasannibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam |

tad etad upāsīta munayo vāg vadanti na tasya grahaṇamayaḥ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti |

vālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ jātarūpaṃ vareṇyam | tam ātmasthaṃ yenū paśyanti dhīrās teṣāṃ śāntir bhavati netareṣām |

yasmin krodhaṃ yāṃ ca tṛṣṇāṃ kṣamāṃ cākṣamāṃ hitvā hetujālasya mūlam | buddhyā saṃcitaṃ sthāpayitvā tu rudre rudram ekatvam āhuḥ |

rudro hi śāśvatena vai purāṇeneṣamūrjeṇa tapasā niyantā |

agnir iti bhasma vāyur iti bhasma jalam iti bhasma sthalam iti bhasma vyometi bhasma sarvaṃ ha vā idaṃ bhasma | mana etāni cakṣūṃṣi yasmād vrataṃ idaṃ pāśupataṃ yad bhasma nāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya ||5||

诸方之中,唯有一神;彼实先出生;彼在胎中。彼自为已生与将生者,向众生之内而立,面向四方。 鲁陀罗唯是一,无有第二;彼以统御之力主宰此诸世界。彼向众生之内而立;于终末之时收摄内敛;既已创造,复为诸界之守护者。 彼主宰一胎复一胎——即是一者,由彼而此一切运行。洞见伊沙那(Īśāna)、那位人(Purusha)、可赞之神者,便得此究竟安宁。 舍弃仅仅的忍受,将由智所积之因网之根安置于鲁陀罗之中;人们宣说鲁陀罗之一味——永恒、真实古老——彼以精力与滋养令众生俯伏,并松解死亡之绳索。 以此自我,以此半四分之量,成就寂静——解脱众生之缚。 第一量属梵天(Brahmā),色赤;恒观之者至梵位。第二量属毗湿奴(Viṣṇu),色黑;恒观之者至毗湿奴之位。第三量属伊沙那,色黄褐;恒观之者至伊沙那之位。半第四量属一切诸神,成不显,行于虚空,清净,如水晶之色;恒观之者至无病之境。 当修此观;诸牟尼言:其道非执取之道;其道安立于北——诸天由此而行,祖灵由此而行,诸仙由此而行——趋向至上、超越与究竟归依。 于心之中央,微如发端,有遍宇宙之神,金色之形,最可敬择;智者见彼安住于自我——彼等得安宁,余者不然。 于彼之中,舍怒与渴,舍忍与不忍,将由智所积之因网之根安置于鲁陀罗之中,人们宣说鲁陀罗之一味。 鲁陀罗以永恒古老之法则,以精力与滋养,以苦行(tapas),为调御者。 “火”为灰;“风”为灰;“水”为灰;“地”为灰;“空”为灰;此一切实为灰。心与此双眼——以此为帕舒帕塔(Pāśupata)之誓行:灰不触肢体;故此即梵。此为帕舒帕塔之法,以解众生之缚。

One indeed is the God in all the directions; first indeed he was born; he is within the womb. He alone, being born and being yet to be born, stands facing inward toward beings, with faces on all sides. One is Rudra—there is no second for him—to him who rules these worlds with his ruling powers. He stands facing inward toward beings; contracting at the time of the end, having created, he is the protector of all worlds. He who presides over womb after womb—he is the One by whom all this moves, all. Having discerned that Īśāna, the Person, the adorable God, one attains this peace utterly. Abandoning (mere) forbearance, having placed in Rudra the root of the net of causes accumulated by the intellect, they declare Rudra’s oneness—eternal, truly ancient—who, with vigor and nourishment, makes the creatures bend (and loosens) the nooses of death. By this Self, by this half-fourth measure, they fashion peace—the release from the bonds of the creature. That first measure, belonging to Brahmā, red in color—whoever meditates on it always goes to the Brahman-state. That second measure, belonging to Viṣṇu, black in color—whoever meditates on it always goes to the Viṣṇu-state. That third measure, belonging to Īśāna, tawny in color—whoever meditates on it always goes to the Īśāna-state. That half-fourth measure, belonging to all deities, become unmanifest, moving in space, pure, crystal-like in color—whoever meditates on it always goes to the unailing state. Let one worship this; the sages speak: its path is not one of grasping; it is laid out to the north—by which the gods go, by which the fathers go, by which the seers go—to the supreme and the beyond, the final refuge. Within the heart’s center, of the measure of the tip of a hair, is the universal God, golden-formed, the most excellent; the wise see him established in the Self—peace belongs to them, not to others. In whom, having abandoned anger and thirst, forbearance and unforbearance, and having placed in Rudra the root of the net of causes accumulated by the intellect, they declare Rudra’s oneness. Rudra indeed, by the eternal ancient (principle), by vigor and nourishment, by austerity, is the controller. ‘Fire’ is ash; ‘wind’ is ash; ‘water’ is ash; ‘earth’ is ash; ‘space’ is ash; all this indeed is ash. Mind (and) these eyes—because this is the Pāśupata observance: that ash should not touch the limbs; therefore (it is) Brahman. This is the Pāśupata (discipline) for the release from the bonds of the creature.

Mokṣa through Oṃ (mātrā/turīya) and Rudra-eka; pāśa-vimokṣa (release from bondage); inner heart SelfMahavakya: Aligns with “ayam ātmā brahma” via heart-located Ātman/Brahman and the ‘half-fourth’ (turīya) doctrine; also echoes “tat tvam asi” through inward-facing all-pervasive deity as one’s own Self.AtharvaAtharvaveda (Śaunaka tradition; Atharvaśiras/Śaiva Upaniṣad corpus) ShakhaChandas: Mixed: opening verses are metrical (Upaniṣadic/Śvetāśvatara-like anuṣṭubh/triṣṭubh tendencies); later sections are prose with instructional cadence