
第七章以对话体展开,阐明业力因果、身相变异与圣地(tīrtha)之功德。国王见一女子呈鹿面之相,询其来历。女子叙述其受胎因缘:在恒河岸边,与苦行仙人优陀罗迦(Uddālaka)相关,一次偶然事件中,精滴(vīrya-bindu)与母鹿相触,遂成其“人之身份而鹿之面貌”的根本缘起。 继而转入伦理与业报的清算:女子以自己多生多世守贞之德,对照国王往昔失于刹帝利之法(kṣatriya-dharma)之过,致罪业积聚,需以忏悔与赎罪净除,并提及自焚式的赎罪意象。经文又列举诸多功德之死与善行:战场殒命、日日施食布施,以及在诸名号圣地辞世,尤以普罗婆娑(Prabhāsa)的衣道圣地(Vastrāpatha)为重。一无形之声(aśarīriṇī)宣示国王业序:先受罪果,后得升天。 随后给出具体法门:若国王在衣道圣地将一“头颅/头像”投入金线河(Swarnarekhā)之水,女子之面即复为人。门卫/使者奉命入林寻得其物,至圣地依法放流;女子又行持一月的月行斋戒(Cāndrāyaṇa),终化为经文所赞的天姿人间美人。章末以自在天(Īśvara)之声赞颂此刹土:为诸方与林野之最胜,天神与半神众所居,湿婆(Bhava)恒常安住;于此沐浴、行晨昏礼(sandhyā)、作供水(tarpaṇa)、修祖祭(śrāddha)与献花供养,能脱离轮回流转而升天界。
Verse 1
राजोवाच । कथं त्वं हरिणीरूपे जाता मानुषरूपिणी । केन संवर्धिता बाल्ये कथं ते रूपमीदृशम्
国王说道:“你如何生为母鹿之形,却具人身?幼时是谁抚养你,你又如何成就如此形貌?”
Verse 2
मृग्युवाच । शृणु देव प्रवक्ष्यामि यद्वृत्तं कन्यके वने । ऋषिरुद्दालकोनाम गंगाकूले महातपाः
鹿女说道:“请听,哦大王;我将述说在迦尼耶迦森林中发生之事。恒河岸边有一位大苦行的圣仙,名为优陀罗迦。”
Verse 3
प्रभाते मूत्रमुत्सृष्टुं गतो देव वनांतरे । मूत्रांते पतितो भूमौ वीर्यबिंदुर्द्विजन्मनः
黎明时分,哦大王,他入林小解。事毕之际,那位“二生者”的一滴精种落在地上。
Verse 4
यावत्स चलितो विप्रः शौचं कृत्वा प्रयत्नतः । तावन्मृगी समायाता दृष्ट्वा पुष्पवनांतरात्
当婆罗门行者谨慎完成净化之仪而继续前行之时,正当其时,一只母鹿自花林深处见之而来。
Verse 5
चापल्याद्भक्षितं वीर्यं दृष्टं ब्रह्मर्षिणा स्वयम् । यस्मादश्नाति मे वीर्यं तस्माद्गर्भो भविष्यति
她因躁动不安而吞食了那精种——此事为婆罗门大圣(梵仙)亲眼所见。“既然她食我之种,必将因此而成孕。”他如是断言。
Verse 6
ममरूपा तववक्त्रा नारी गर्भे भविष्यति । वर्द्धयिष्यति देव्यस्तां रसैर्दिव्यैः सुतां तव
将有一位女子在胎中受孕——具我之形、具汝之面。女神将以天界妙精滋养,使汝之女得以成长。
Verse 7
केनापि दैवयोगेन ज्ञानं तस्या भविष्यति । एवमुद्दालकादेव संजाताहं मृगानना । प्रविश्याग्नौ मृता पूर्वं त्वया सार्द्धं नराधिप
因某种幽玄的天命会合,智慧将于她心中生起。于是,我唯由优陀罗迦而生,名为“鹿面女”(Mṛgānanā)。往昔啊,国王,我曾入火而与汝同死。
Verse 8
तस्माज्जातं सतीत्वं मे सप्तजन्मनि वै प्रभो । यत्त्वया कुर्वता राज्यं पापं वै समुपार्जितम्
因此,主啊,我作为贞烈萨蒂的忠贞,历经七生而成——因为当你治理王国之时,罪业确已积聚。
Verse 9
क्षत्त्रधर्मं परित्यज्य पलायनपरो मृतः । तदेनो हि मया दग्धं चिताग्नौ नृपसत्तम
你舍弃刹帝利之法,怀着逃遁之心而死;然而那罪业已被我在火葬柴堆之火中焚尽,噢,诸王之最胜者。
Verse 10
पतिं गृहीत्वा या नारी मृतमग्नौ विशेद्यदि । सा तारयति भर्तारमात्मानं च कुलद्वयम्
若有女子执持其夫,在夫亡后入于火中,则能度脱其夫、其身,并及两族。
Verse 11
गोग्रहे देशभंगे च संग्रामे सम्मुखे मृतः । स सूर्यमण्डलं भित्त्वा ब्रह्मलोके महीयते
凡护牛、守土或临阵而战,面向敌人而死者,能穿破日轮,受尊崇于梵天界(Brahmaloka)。
Verse 12
अनाशकं यो विदधाति मर्त्त्यो दिनेदिने यज्ञसहस्रपुण्यम् । स याति यानेन गणान्वितेन विधूय पापानि सुरैः स पूज्यते
凡人若日日持守斋戒,得千次祭祀之功德。涤除罪垢后,乘天车而去,诸天众随侍,并为诸神所敬奉。
Verse 13
गंगाजले प्रयागे वा केदारे पुष्करे च ये । वस्त्रापथे प्रभासे च मृतास्ते स्वर्गगामिनः
凡死于恒河之水,或于普罗耶伽(Prayāga)、羯达罗(Kedāra)、补湿迦罗(Puṣkara),以及普罗婆娑(Prabhāsa)的瓦斯特拉帕塔(Vastrāpatha)者,皆得往生天界。
Verse 14
द्वारावत्यां कुरुक्षेत्रे योगाभ्यासेन ये मृताः । हरिरित्यक्षरं मृत्यौ येषां ते स्वर्गगामिनः
凡在德瓦拉瓦蒂或俱卢之野(库鲁克舍特拉)以瑜伽修持而终者——以及临终唇间念出“哈利(Hari)”一音者——皆得升往天界。
Verse 15
पूजयित्वा हरिं ये तु भूमौ दर्भतिलैः सह । तिलांश्च पञ्चलोहं च दत्त्वा ये तु पयस्विनीम्
凡在地上以达尔婆草与芝麻供奉哈利者——以及布施芝麻与五金,并再施赠一头乳牛者——皆得吉祥之果报。
Verse 16
ये मृता राजशार्दूल ते नराः स्वर्ग गामिनः । उत्पाद्य पुत्रान्संस्थाप्य पितृपैतामहे पदे
王中之虎啊!在此神圣因缘中死去的男子,皆得往生天界——既已生子,并使其安立于祖先之位,延续父与祖父之宗脉。
Verse 17
निर्मला निष्कलंका ये ते मृताः स्वर्गगामिनः । व्रतोपवासनिरताः सत्याचारपरायणाः । अहिंसानिरताः शांतास्ते नराः स्वर्गगामिनः
凡清净无垢者,命终之时便得升天。乐行誓戒与斋戒,坚住真实之行,奉持不害(阿希姆萨)而安住寂静:如是之人,确实往生天界。
Verse 18
सापवादो रणं त्यक्त्वा मृतो यस्मान्नराधिप । सप्तयोनिषु ते जन्म तस्माज्जातं मया सह
人中王啊!因他背负讥责而弃战场后身亡,遂经七次入胎而生;因此,在轮回的行程中,便发生了他与我同生之事。
Verse 19
त्वां विना मे पतिर्मा भून्मरणे याचितं मया । तदांतरिक्षे राजेन्द्र वागुवाचाशरीरिणी । आदौ पापफलं भुक्त्वा पश्चा त्स्वर्गं गमिष्यसि
“愿我的夫君不要离开你而独处”——我在临终之际如此祈求。于是,噢万王之王,虚空中传来无形之声:“先受罪业之果;其后当往天界。”
Verse 20
यदि वस्त्रापथे गत्वा शिरः कश्चिद्विमुंचति । स्वर्णरेखाजले राजन्मानुषं स्यान्मुखं मम
大王啊,若有人前往筏斯特罗帕他(Vastrāpatha),并在彼处献出一首级,则在金线河(Svarṇarekhā)之水中,我的面容将复为人面。
Verse 21
अहं मानुषवक्त्राऽस्मि पापच्छायाऽवृतं मुखम् । दृश्यते मृगवक्त्राभं तस्माच्छीघ्रं विमुंचय
我本具人面,然此面为罪影所覆;看似鹿面。故当速速解脱之(使救治之法得以发动)。
Verse 22
इति श्रुत्वा वचो राजा सारस्वतमुदैक्षत । जनो विहस्य सानन्दं सर्वं सत्यं मृगीवचः
闻此言,国王转目望向萨拉斯瓦塔(Sārasvata)。众人欢笑欣悦,承认那母鹿所说句句皆真。
Verse 23
इत्युक्त्वाऽह द्विजेन्द्रः स एवं कुरु नृपोत्तम । एवं राज्ञा समादिष्टः प्रतीहारो ययौ वनम्
言毕,那位最胜婆罗门说道:“当如是行,噢最上之王。”国王既下令,侍门官(pratīhāra)便往森林而去。
Verse 24
वस्त्रापथे महातीर्थे भवं द्रष्टुं त्वरान्वितः । त्वक्सारजालिर्महती स्वर्णरेखाजलोपरि
他急切前往瓦斯特拉帕塔的大圣渡口,欲瞻礼婆婆(湿婆);只见一张以树皮纤维编成的巨大网罗,铺展在斯瓦尔纳雷卡河的水面之上。
Verse 25
वर्त्तते तच्छिरो यत्र वंशप्रोतं महावने । सारस्वतस्य शिष्येण कुशलेन निवेदितम्
那头颅所在之处——在大林中被系缚于竹杖之上——乃由萨拉斯瓦塔的弟子库舍罗(Kuśala)如实禀告。
Verse 26
तीर्थं वस्त्रापथं गत्वा भवस्याग्रे महानदी । जाले तत्र शिरो दृष्टं तच्च तोये विमोचितम्
他来到名为瓦斯特拉帕塔的圣渡口,在婆婆(湿婆)前的大河边,看见一颗头颅陷在网中,便将其解脱,放入水里。
Verse 27
स्नात्वा संपूज्य तीर्थेशं प्रतीहारः समभ्यगात् । शिष्येण सहितो वेगाद्रथेनादित्यवर्चसा
沐浴之后,又如法礼敬圣地之主,那位侍卫长(pratīhāra)与弟子同来,乘一辆光辉如日的车驾迅疾抵达。
Verse 28
यदागतः प्रतीहारस्तदा सारस्वतेन सा । वृता चान्द्रायणेनैव मासमेकं निरन्तरम्
当侍卫长到来之时,她正奉行萨拉斯瓦塔之清规,并且连续不间断地守持“旃陀罗耶那”(Cāndrāyaṇa)誓戒,整整一月。
Verse 29
संपूर्णे तु व्रते तस्या दिव्यं वक्त्रं सुलोचनम् । सुशोभनं दीर्घकेशं दीर्घकर्णं शुभद्विजम्
当她的誓愿圆满之时,便显现出神圣而美丽的容颜,双目清丽;光辉灿然,长发垂肩,长耳端严,齿列吉祥而洁美。
Verse 30
कम्बुग्रीवं पद्मगंधं सर्वलक्षणसंयुतम् । व्रतांते मूर्च्छिता बाला गतज्ञाना वभूव सा
她颈如海螺,身有莲华之香,具足一切吉相;然而誓愿将尽之际,那少女忽然昏厥,神识迷失,不复知觉。
Verse 31
न देवी न च गंधर्वी नासुरी न च किंनरी । यादृशी सा तदा जाता तीर्थभावेन सुन्दरी
她既非天女,亦非乾闼婆女,非阿修罗女,亦非紧那罗女;然而凭借圣地 tīrtha 的威力,她当时竟得如是绝美之姿。
Verse 32
परिणीता तु सा तेन भोजराजेन सुन्दरी । मृगीमुखीति विख्याता देवी सा भुवनेश्वरी
那位绝美的女子为菩阇王所娶;她以“牟梨姬目契”(Mṛgīmukhī,鹿面者)之名闻世。她乃女神——即是布婆涅湿伐丽(Bhuvaneśvarī)本尊。
Verse 33
न जानाति पुनः किंचिद्यद्वृत्तं राजमन्दिरे । कृता सा पट्टमहिषी भोजराजेन धीमता
她再也不知王宫中曾发生过什么;睿智的菩阇王立她为正妃(paṭṭa-mahiṣī)。
Verse 34
ईश्वर उवाच । देशानां प्रवरो देशो गिरीणां प्रवरो गिरिः । क्षेत्राणामुत्तमं क्षेत्रं वनानामुत्तमं वनम्
自在天(Īśvara)说道:“诸国土之中,此地最为尊胜;诸山岳之中,此山最为尊胜;诸圣域(kṣetra)之中,此为无上圣域;诸林薮之中,此林最为无上。”
Verse 35
गंगा सरस्वती तापी स्वर्णरेखाजले स्थिता । ब्रह्मा विष्णुश्च सूर्यश्च सर्व इन्द्रादयः सुराः
恒河(Gaṅgā)、萨拉斯瓦蒂(Sarasvatī)与塔毗河(Tāpī)皆住于金线河(Svarṇarekhā)之水中;梵天(Brahmā)、毗湿奴(Viṣṇu)与日神(Sūrya)亦在其中——以及以因陀罗(Indra)为首的一切天神。
Verse 36
नागा यक्षाश्च गन्धर्वा अस्मिन्क्षेत्रे व्यवस्थिताः । ब्रह्मांडं निर्मितं येन त्रैलोक्यं सचराचरम्
那伽(Nāga)、夜叉(Yakṣa)与乾闼婆(Gandharva)安住于此圣域。此处有那一位:由祂造就梵卵(brahmāṇḍa),成就三界,含一切有动与无动之众。
Verse 37
देवा ब्रह्मादयो जाताः स भवोऽत्र व्यवस्थितः । शिवो भवेति विख्यातः स्वयं देवस्त्रिलोचनः
诸天——以梵天等为首——皆由此而生;而彼“婆伐”(Bhava)安住于此。祂即是湿婆(Śiva),以“婆伐”之名著称——三目之主,亲自显现。
Verse 38
वेवेति स्कन्दरचनाद्भवानी चात्र संस्थिता । अतो यन्नाधिकं प्रोक्तं तीर्थं देवि मया तव
因斯坎达(Skanda)发声曰“Veve!”之故,婆伐尼(Bhavānī)亦安立于此。是以,女神啊,我已向你宣说此渡口圣地(tīrtha);更高之事已无可言。
Verse 39
तस्मिञ्जले स्नानपरो नरो यदि संध्यां विधायानु करोति तर्पणम् । श्राद्धं पितॄणां च ददाति दक्षिणां भवोद्भवं पश्यति मुच्यते भवात्
若有人以虔敬之心在彼水中沐浴,行毕三时礼(sandhyā),继而奉献供水礼(tarpaṇa);又为祖灵(Pitṛ)修行施食祭(śrāddha),并施与应施之供养(dakṣiṇā)——则得瞻见“Bhavodbhava”,从轮回之有(bhava)中解脱。
Verse 40
अथ यदि भवपूजां दिव्यपुष्पैः करोति तदनु शिवशिवेति स्तोत्रपाठं च गीतम् । सुरवर गणवृन्दैः स्तूयमानो विमानैः सुरवरशिवरूपो मानवो याति नाकम्
又若有人以天界妙花供奉婆伐(Bhava),继而诵读赞颂并歌唱“湿婆、湿婆”(Śiva, Śiva)之名——此人将为诸天胜众所称赞,乘天宫宝车(vimāna)而行,往生天界,于诸神之中得近似湿婆之形相。