
第19章以神学对话展开。因国王发问,萨拉斯瓦塔(Sarasvata)叙述哈利——即侏儒化身与三步遍宇的毗湿奴(Vāmana/Trivikrama)——如何圆满祭祀(yajña)的秩序:祭毕之后,巴利被指出第三步尚有“债”(ṛṇa)未了,这是道德上的要求,必须兑现所许之施与。巴利之子巴那(Bāṇa)质疑:既以侏儒之身求取三步之地,何以又以宇宙巨身取第三步?并由此讨论交易之真实与圣者(sādhu)应守之行。 贾那尔达那(Janārdana)以理辩护:所求本有尺度,且已被巴利接受;此举终究利益巴利,使其得居苏塔拉/摩诃塔拉(Sutala/Mahātala),并获未来尊位(乃至在将来一劫的摩奴期 manvantara 中成就因陀罗之职)。三步遍宇者遂教诫巴利安住苏塔拉,并许诺常住其心、恒常亲近护持。 本章又预示与灯火(dīpa)相关的吉庆节会与大众共修之礼,将虔敬庆典系于巴利之名并关乎社会安宁。末尾功德偈(phalaśruti)宣称:忆念、聆听与诵持可减罪业,令对湿婆与奎师那之信爱坚固;并劝依正法供养诵者(dāna),同时告诫勿将“秘义”传与不敬之人,体现《往世书》传承的伦理界限。
Verse 1
राजोवाच । गृहीत्वा दक्षिणां दैत्यान्महाविष्णुर्जनार्दनः । चकार किं ममाचक्ष्व परं कौतूहलं हि मे
国王说道:“既已将达那婆(代底耶)作为达克希那(祭礼酬献)而受纳,摩诃毗湿奴——阇那尔达那——做了什么?请告诉我;我的好奇心极其强烈。”
Verse 2
सारस्वत उवाच । एवं स्तुतः सुरैर्देवो गृहीत्वा मेदिनीं हरिः । बलिं निर्वासयामास संपूर्णे यज्ञकर्मणि । यज्ञांते दक्षिणां लब्ध्वा संपूर्णोऽभूदथाध्वरः
萨拉斯瓦塔说道:“诸天如此赞颂之后,诃利便摄取大地;当祭祀仪轨圆满完成时,他将巴利驱逐出去。又在祭祀终了之际,达克希那既已受取,祭祀便臻于完全成就。”
Verse 3
भगवानप्यसंपूर्णे तृतीये तु क्रमे विभुः । समभ्येत्य बलिं प्राह ईषत्प्रस्फुरिताधरः
纵然第三步尚未圆满,全能的主仍走近巴利而开口——其唇微微颤动。
Verse 4
ऋणे भवति दैत्येन्द्र बंधनं घोरदर्शनम् । त्वं पूरय पदं तन्मे नोचेद्बन्धं प्रतीच्छ भोः
“若债务尚存,哦代底耶之主,便将招致可怖的系缚。为我圆满那一步;否则,就请受此枷锁,先生。”
Verse 5
तन्मुरारिवचः श्रुत्वा पुरो भूत्वा बलेः सुतः । बाणो वामनमाचष्टे तदा तं विश्वरूपिणम्
听闻穆拉里之言后,巴利之子婆那上前一步,随即启问当时显现为宇宙大身(毗湿瓦鲁帕)的婆摩那。
Verse 6
कृत्वा महीमल्पतरां वपुः कृत्वा तु वामनम् । पदत्रयं याचयित्वा विश्वरूपमगाः कथम्
“你令大地似乎变得微小,又取侏儒之身为婆摩那,乞求三步之地;那么你又如何化现为宇宙大身?”
Verse 7
यदि तृतीयं क्रमणं याचसे जगदीश्वर । पुनर्वामनतां याहि बलिर्दास्यति तत्पदम्
“若你要索取第三步,噢世间主宰,请再回到婆摩那之形;巴利必将那一步奉献给同一位婆摩那。”
Verse 8
यादृग्विधाय बलिना वामनायोदकं कृतम् । तत्तादृशाय दातव्यमथ किं विश्वरूपिणे
“巴利所献的奠水原是为那样的婆摩那而行;应当给予同类之身——又怎可把它给那显现宇宙大身者呢?”
Verse 9
भवत्कृतमिदं विश्वं विश्वस्मिन्वर्तते बलिः । छद्मना नैव गृह्णन्ति साधवो ये महेश्वर
“此宇宙为你所造,巴利亦在此宇宙之中而住。真正的贤善之士,噢大自在天,不以欺诳之法而受取。”
Verse 10
जगदेतज्जगन्नाथ तावकं यदि मन्यसे । ज्ञात्वा बलिममर्यादं भवद्भक्तिपराङ्मुखम्
“若你认为这整个世界皆属你,噢世间之主——那么,既知巴利乃逾越法度、背离对你虔敬之人……”
Verse 11
कंठपाशेन निष्कास्य केन वै वार्यते भवान् । गोपालमन्यं कुरुते रक्षणाय च गोपतिः । सुतृणं चारयन्पूर्वो गोपः किं कुरुते तदा
“若你以套索缚其颈而逐之,谁还能约束你?当牧群之主另立一位牧者以护持时,那先前的牧人此刻又能作何——不过是让牛群啮食佳草而已?”
Verse 12
इत्येवमुक्ते तेनाथ वचने बलिसूनुना । प्रोवाच भगवान्वाक्यमादिकर्ता जनार्दनः
巴利之子既如此言毕,阇那尔达那——至福的世尊、原初的造化主——便以如下言辞作答。
Verse 13
यान्युक्तानि वचांसीत्थं त्वया बालेन सांप्रतम् । तेषां त्वं हेतुसंयुक्तं शृणु प्रत्युत्तरं मम
“孩子啊,对于你方才如此所言,如今且听我之答复——合乎因由,根基分明。”
Verse 14
पूर्वमुक्तस्तव पिता मया बाण पदत्रयम् । देहि मह्यं प्रमाणेन तदेतत्समनुष्ठितम्
“先前,噢婆那,我曾向你父求取‘三步’之地。请以正当凭证示我:此事确已如法履行。”
Verse 15
किं न वेत्ति प्रमाणं मे बलिस्तव पिता सुत । बलेरपि हितार्थाय कृतमेतत्पदत्रयम्
孩子啊,难道你的父亲婆利不知我真实的量度吗?这“三步”之举,也是为婆利自身的福祉而行。
Verse 16
तस्माद्यन्मम बालेय त्वत्पित्रांऽबु करे महत् । दत्तं तेनास्य सुतले कल्पं यावद्वसिष्यति
因此,亲爱的孩子啊,由于你父亲以献水之礼将广大布施置于我手中,他将住在苏多罗,直至一劫(kalpa)终尽。
Verse 17
गते मन्वन्तरे बाण श्राद्धदेवस्य साम्प्रतम् । सावर्णिके त्वागते च बलिरिन्द्रो भविष्यति
婆那啊,当现今的施罗陀提婆(Śrāddhadeva)之摩奴劫期(Manvantara)过去,而萨婆尔尼迦(Sāvarṇika)摩奴劫期到来时,婆利将成为因陀罗。
Verse 18
इति प्रोक्त्वा बलिसुतं बाणं देवस्त्रिविक्रमः । प्रोवाच बलिमभ्येत्य वचनं मधुराक्षरम्
如此对婆利之子婆那说罢,三步尊神特里维克拉玛(Trivikrama)走近婆利,以柔和甘美之言对他说道。
Verse 19
श्रीभगवानुवाच । अपूर्णदक्षिणे यागे गच्छ राजन्महातलम् । सुतलंनाम पातालं वस तत्र निरामयः
世尊说道:“由于祭祀的达克希那(dakṣiṇā,祭师酬礼)未得圆满,国王啊,你当往大塔罗(Mahātala)。在名为苏多罗(Sutala)的地下界(Pātāla)中安住,远离诸苦。”
Verse 20
बलिरुवाच । सुतलस्थस्य मे नाथ कथं चरणयोस्तव । दर्शनं पूजनं भोगो निवसामि यथासुखम्
巴厘说道:“噢主宰!若我须居于苏塔拉,我当如何得见你圣足,奉行礼拜供养,并享受你临在之乐,使我得以安然居住?”
Verse 21
श्रीभगवानुवाच । दैत्येन्द्र हदये नित्यं तावके निवसाम्यहम् । अतस्ते दर्शनं प्राप्तः पुनः स्थास्ये तवान्तिकम्
世尊说道:“噢代提耶之王,我恒常住于你心中。因此你已得我之达尔沙那;我也将再次常在你近旁。”
Verse 22
तथान्यमुत्सवं पुण्यं वृत्ते शक्रमहोत्सवे । दीपप्रतिपन्नामाऽसौ तत्र भावी महोत्सवः
当释迦罗(因陀罗)的盛大节庆过去之后,彼处还将兴起另一场清净庆典——一场名为“Dīpa-pratipannā(燃灯初庆)”的大节。
Verse 23
तत्र त्वां नरशार्दूला हृष्टाः पुष्टाः स्वलंकृताः । पुष्पदीपप्रदानेन अर्चयिष्यंति यत्नतः
在那里,噢人中之虎,众人欢喜、兴盛、装饰庄严,将以殷勤之心献花与灯火,向你奉行礼拜供养。
Verse 24
तत्रोत्सवः पुण्यतमो भविष्यति धरातले । तव नामांकितो दैत्य तेन त्वं वत्सरं सुखी
那里的节庆将成为大地上功德最胜的庆典。以你的名号为印记,噢代提耶,由此你将一整年安乐吉祥。
Verse 25
भविष्यसि नरा ये तु दृढभक्तिसहा न्विताः । त्वामर्चयन्ति विधिवत्तेऽपि स्युः सुखभागिनः
凡具坚固虔信、依正法仪轨礼拜汝者,彼等亦将同享安乐之分。
Verse 26
यथैव राज्यं भवतस्तु सांप्रतं तथैव सा भाव्यथ कौमुदीति । इत्येवमुक्त्वा मधुमदितीश्वरं निवासयित्वा सुतलं सभार्यकम्
“如汝今之王权安立不动,如是名为‘考牟底’之庆典亦将成就。”言毕,诛灭摩度之主安置彼(魔王)与其妻同居苏多罗。
Verse 27
उर्वी समादाय जगाम तूर्णं स शक्रसद्मामरसंघजुष्टम् । दत्त्वा मघोने मधुजित्त्रिविष्टपं कृत्वा तु देवान्मखभागभोगिनः
承当大地之任后,他疾赴释迦(因陀罗)之宫,诸不死众所乐居。继而将诛摩度者所得之天界赐予摩伽梵(因陀罗),并使诸天在祭祀中享受其应得之分。
Verse 28
अन्तर्दधे विश्वपतिर्महेशः संपश्यतां वै वसुधाधिपानाम्
宇宙之主大自在天(摩诃湿婆)在诸地上诸王注视之际,忽然隐没不见。
Verse 29
गृहीत्वेति बले राज्यं मनुपुत्रे नियोजितम् । द्वीपांतरे च ते दैत्याः प्रेषिताश्चाज्ञया स्वयम्
于是,王权自婆梨处收回,托付于摩奴之子;而诸代底耶亦奉命亲自被遣往另一洲岛。
Verse 30
पातालनिलया ये तु ते तत्रैव निवेशिताः । देवानां परमो हर्षः संजातो बलिनिग्रहे
凡居于帕塔拉(Pātāla)者,皆就地安置。诸天因降伏巴利(Bali)而生无上欢喜。
Verse 31
निवासाय पुनश्चक्रे वामनो वामनो मनः । तत्र क्षेत्रे स्वनगरे वामनः स न्युवास ह
随后,婆摩那(Vāmana)再次将心意转向在彼处安住。在那神圣的刹帝罗(kṣetra)中,宛如在自己的城邦,婆摩那确实居住其间。
Verse 32
सारस्वत उवाच । प्रादुर्भावस्ते कथितो नरेन्द्र पुण्यः शुचिर्वामनस्याघहारी । स्मृते यस्मिन्संश्रुते कीर्तिते च पापं यायात्संक्षयं पुण्यमेति
萨拉斯瓦塔(Sārasvata)说道:大王啊,我已向你叙述婆摩那(Vāmana)那神圣清净、能除罪垢的显现。此事若被忆念、聆听或诵扬,罪业便消减,福德自增长。
Verse 33
ईश्वर उवाच । इति सारस्वतवचः श्रुत्वा भोजः स भूपतिः । नमस्कृत्य मुनिश्रेष्ठं पूजयामास भक्तितः
自在天(Īśvara)说道:婆阇王(Bhoja)如是听闻萨拉斯瓦塔之言,便向最胜牟尼顶礼,并以虔敬之心供奉礼拜。
Verse 34
ततो यथोक्तविधिना स भोजो नृपसत्तमः । वस्त्रापथक्षेत्र यात्रां परिवारजनैः सह । कृत्वा कृतार्थतां प्राप्तो जगामान्ते परं पदम्
随后,最胜之王婆阇(Bhoja)依所说仪轨,与随从同往伐斯特罗帕塔圣域(Vastrāpathakṣetra)朝圣。既已圆满所愿,最终证入至上境界。
Verse 35
एतन्मया पुण्यतमं प्रभासक्षेत्रे च वस्रापथमीरितं ते । श्रुत्वा पठित्वा परया समेतो भक्त्या तु विष्णोः पदमभ्युपैति
我已向你宣说此最具功德之事:在神圣的普拉婆娑之地,关于瓦斯罗帕他之胜德。凡听闻并以至上虔敬诵读者,必得趋入毗湿奴之住处。
Verse 36
यथा पापानि धूयंते गंगावारिविगाहनात् । तथा पुराणश्रवणाद्दुरितानां विना शनम्
正如入浴恒河之水能洗除诸罪,如是聆听《普罗那》亦能渐次摧灭诸恶业。
Verse 37
इदं रहस्यं परमं तवोक्तं न वाच्यमेतद्धरिभक्तिवर्जिते । द्विजस्य निन्दानिरतेऽतिपापे गुरावभक्ते कृतपापबुद्धौ
此至上秘义既由你宣说,切莫告于无哈利信爱者;亦莫告于重罪之人——乐于诋毁婆罗门者、不敬师长者、心念执著于作恶者。
Verse 38
इदं पठेद्यो नियतं मनुष्यः कृतभावनः । तस्य भक्तिः शिवे कृष्णे निश्चला जायते धुवम्
凡人若持戒自律、专心一意,恒常诵读此文并作观想,则其对湿婆与黑天(克里希那)的不动信爱必定生起。
Verse 39
तद्भक्त्या सकलानर्थान्प्राप्नोति पुरुषोत्तमः । पुराणवाचिने दद्याद्गोभूस्वर्णविभूषणम्
凭此信爱,人便能获得一切所愿之善果。应当供养宣诵《普罗那》者,以牛、田地、黄金与饰物等为施。
Verse 40
वित्तशाठ्यं न कर्तव्यं कुर्वन्दारिद्र्यमाप्नुयात् । त्रिःकृत्वा प्रपठञ्छृण्वंन्सर्वान्कामानवाप्नुयात्
不可对财富行吝啬之事;如此作为,必堕贫困。若三遍诵读并聆听此偈,则可成就一切所愿。