
第16章以行旅叙事层层展开,并内含修持教诫。国王询问侏儒化身瓦摩那在林中独行所为;萨拉斯瓦塔叙述他前往赖伐多迦,在苏伐那勒迦河沐浴,并以供品行礼拜。在既繁盛又令人心悸的森林里,瓦摩那于心中忆念哈利;那罗辛哈显现赐予护佑,并被祈请永恒守护诸圣地(tīrtha)居者,常驻于达摩达罗神像之前。 随后瓦摩那礼敬达摩达罗与婆伐(湿婆),前往瓦斯特拉帕塔,遥望优阇延多山,思惟“微细之法”(sūkṣma-dharmāḥ):以少许善行与专注奉爱,亦能得大果报。他登山遇见在峰顶受供奉的天女安芭——斯甘陀之母,并得见婆伐/商羯罗之圣相。湿婆赐福:势力增长、通达吠陀与表演诸艺、功效稳固,并命其巡览瓦斯特拉帕塔诸圣地。鲁陀罗又按方位指示诸祠:有天池与阇梨林地,其中泥制林伽仅凭瞻礼(darśana)即可灭除梵杀罪(brahmahatyā);并有与俱毗罗/财主、赫兰巴众、记业神吉多罗笈多(Citraguptīśvara)及由生主所立的计达罗相关之林伽。 章中亦嵌入因陀罗与猎人之湿婆夜(Śivarātri)故事:猎人彻夜守夜而获天界荣誉;因陀罗、阎摩与吉多罗笈多恭敬前往其地,优阇延多山上又因爱罗婆多足迹涌出常流不竭之泉。末段化为湿婆夜誓戒的实修手册:可年年奉行或简略修持;规定斋戒与沐浴;禁油浴、醉物与赌博;供灯、夜间守夜诵念与演礼,黎明礼拜,施食苦行者与梵行者,并以布施作结(如牛与器皿),其果为净化罪垢与招致吉祥富足。
Verse 1
राजोवाच । अथासौ वामनो विप्रः प्रविष्टो गहने वने । एकाकी किं चकाराथ कौतुकं तद्वदस्व मे
国王说道:“随后那位侏儒婆罗门伐摩那进入幽深密林。独自一人,他在那里做了什么?请为我道来那奇妙之事。”
Verse 2
सारस्वत उवाच । अथासौ वामनो विप्रो गत्वा रैवतके गिरौ । स्वर्णरेखानदीतोये स्नात्वाथ विधिपूर्वकम्
萨拉斯瓦塔说道:“随后婆罗门伐摩那前往赖伐多迦山;在金线河(Svarṇarekhā)之水中沐浴后,依照仪轨次第如法行诸祭仪。”
Verse 3
सुगंधपुष्पधूपाद्यैर्देवं संपूज्य भक्तितः । तस्थौ तदग्रतो राजन्नेकाकी निर्जने वने
他以芬芳之花、香烟与诸般供品,虔敬礼拜神明;随后,王啊,他独自立于神前,在那寂静无人之林中。
Verse 4
सर्वसत्त्वसमायुक्ते सरीसृपसमाकुले । अनेकस्वरसंघुष्टे मयूरध्वनिनादिते
那林中具足诸类众生,爬虫群聚;万声回响不绝,孔雀啼鸣更使其震荡生辉。
Verse 5
कोकिलारावरम्ये च वनकुक्कुटघोषिते । खद्योतद्योतिते तस्मिन्वलीमुखविधूनिते
彼处因杜鹃啼鸣而婉转可爱,又回响着野禽的呼号;萤火微光点点照耀——群猴跳跃,摇动枝柯。
Verse 6
क्वचिद्वंशाग्निना शांते क्वचित्पुष्पितपादपे । गगनासक्तविटपे सूर्यतापविवर्जिते
有的地方宁静安然,竹火已熄;有的地方花树盛开——枝梢高举,仿佛触及苍穹——不受烈日灼热所逼。
Verse 7
लुब्धकाघात संत्रस्तभ्रांतसूकरशंबरे । संहृष्टक्षत्रियवातस्थानदानविचक्षणे
彼处野猪与鹿群因猎人击打而惊惶失措,迷乱奔走;而刹帝利武士却兴奋振作,敏锐察看那风拂之地,仿佛适宜安营扎寨。
Verse 8
अनेकाश्चर्यसंपन्नं सस्मार मनसा हरिम् । तं भीतमिव विज्ञाय नरसिंहः समाययौ
见那处充满种种奇瑞,他便在心中忆念诃利(Hari);而那位似乎心怀恐惧,知其情状,狮面人身的那罗辛哈遂来到彼处。
Verse 9
रक्षार्थं तस्य विप्रस्य बभाषे पुरतः स्थितः । न भेतव्यं त्वया विप्र वद ते किं करोम्यहम्
为护佑那位婆罗门,他立于其前说道:“婆罗门啊,莫要畏惧。告诉我——我当为你做什么?”
Verse 10
विप्र उवाच । यदि तुष्टो वरो देयो नरसिंह त्वया मम । सदात्र रक्षा कर्त्तव्या सर्वेषां तीर्थवासिनाम्
婆罗门说道:“若你欢喜,愿赐我一愿,噢那罗辛哈,请你恒常护佑此处一切居住于圣渡口(tīrtha)之人。”
Verse 11
देवस्याग्रे सदा स्थेयं यावदिंद्राश्चतुर्द्दश । एवमस्त्विति तं प्रोच्य तथा चक्रे हरिस्तदा
“当常立于神前——直至十四位因陀罗仍在之时。”他对其说道“如是”,哈利随即照做。
Verse 12
अतो दामोदरस्याग्रे नरसिंहः स पूज्यते । वनं सौम्यं कृतं तेन तीर्थरक्षां करोति सः
因此,那罗辛哈在达摩达罗之前受人礼拜。凭其威力,那片森林变得柔和吉祥;他屹立为圣渡口(tīrtha)的守护者,护持其地。
Verse 13
भूतप्रेतादिसंवासो वने तस्मिन्न जायते । नरसिंहप्रभावेन नष्टं सिंहादिजं भयम्
在那片森林中,不再有鬼神(bhūta)、饿鬼(preta)等栖居。凭那罗辛哈之威,因狮子等诸般险患而生的恐惧尽皆消灭。
Verse 14
कार्त्तिके वासरे विष्णोर्द्वादश्यां पारणे कृते । दामोदरं नमस्कृत्य भवं द्रष्टुं ततो ययौ
在迦尔提迦月,于毗湿奴之日,当在十二日(Dvādaśī)如仪圆满解斋后,他向达摩达罗顶礼,继而出发去瞻礼婆伐(湿婆)。
Verse 15
चतुर्दश्यां कृतस्नानो भवं संपूज्य भावतः । भवभावभवं पापं भस्मीभूतं भवार्चनात्
在十四日(Caturdaśī)之时,他沐浴净身,以至诚之心礼敬婆婆(Bhava)。由礼敬婆婆之力,因世间生有与缠缚而起的罪垢尽皆化为灰烬。
Verse 16
स क्षीणपापनिचयो जातो देवस्य दर्शनात् । भवस्याग्रे स्थितं शांतं तथा वस्त्रापथस्य च
因得瞻礼神明,他所积聚的罪业悉皆消尽。随后他安然立于婆婆(Bhava)之前,也同样立于伐斯特拉帕他(Vastrāpatha)之神前。
Verse 17
तं कालमेघं समभ्यर्च्य ततो वस्त्रापथं ययौ । देवं संपूज्य मंत्रैः स वेदोक्तैर्विधिपूर्वकम्
他如法供奉那位迦罗梅伽(Kālamēgha)之后,便前往伐斯特拉帕他(Vastrāpatha)。在彼处,他依正仪轨,以吠陀所宣说的真言,圆满礼拜神明。
Verse 18
धूपदीपादिनैवेद्यैः सर्वं चक्रे स वामनः । प्रदक्षिणाशतं कृत्वा भवस्याग्रे व्यवस्थितः
那位婆摩那(Vāmana)以香、灯与食供(naivedya)成办一切供养。绕行礼敬百匝之后,他立于婆婆(Bhava)之前。
Verse 19
यावन्निरीक्षते सर्वं तावत्पश्यति पर्वतम् । उज्जयंतं गिरिवरं मैनाकस्य सहोदरम्
当他环顾四方之时,便望见一座山——优阇延多(Ujjayanta),卓绝之峰,相传为迈那迦(Maināka)之同胞。
Verse 20
सुराष्ट्रदेशे विख्यातं युगादौ प्रथमं स्थितम् । भूधरं भूधरैर्युक्तं शिलापादपमंडितम्
在苏罗湿吒罗之地声名远播,自劫初便已安立;此为巍峨山体,群岭相随,岩石与林木庄严点缀。
Verse 21
तं दृष्ट्वा चिंतयामास सूक्ष्मान्धर्मान्स वामनः । अल्पायासान्सुबहुलान्पुत्रलक्ष्मीप्रदायकान्
见此,婆摩那沉思微妙之法:行之不劳而果报丰厚,能赐子嗣之福与兴盛之财。
Verse 22
अवश्यं क्रिय माणेषु स्वधर्म उपजायते । दृष्ट्वा नदीं सागरगां स्नात्वा पापैः प्रमुच्यते
当诸般圣行确实奉行时,自身之法自然而生。仅仅瞻望那奔入大海之河,并于其中沐浴,便能脱离罪垢。
Verse 23
गां स्पृष्ट्वा ब्राह्मणं नत्वा संपूज्य गुरुदेवताः । तपस्विनं यतिं शांतं श्रोत्रियं ब्रह्मचारिणम्
触及圣牛,礼敬婆罗门,并如法恭奉师长与诸天;(亦当敬奉)苦行者、出离者、寂静者、通晓吠陀之闻持者(śrotriya),以及守梵行的学子——(由此得大功德)。
Verse 24
पितरं मातरं भगिनीं तत्पतिं दुहितां पतिम् । भागिनेयमथ दौहित्रं मित्रसंबधिबांधवान् । संभोज्य पातकैः सर्वैर्मुच्यंते गृहमेधिनः
居家之人以供食款待而脱离诸罪:父与母、姊妹及其夫、女儿与女婿、外甥与外孙,并诸友人、亲属与宗族眷属。
Verse 25
राजा गजाश्वनकुलं सतीवृषमहीधराः । आदर्शक्षीरवृक्षाश्च सततान्नप्रदास्तु ते
愿他们得享王权;家族中象马充盈、门第高贵;得贤德之妻、良种之牛与如山之富饶;又愿有能满愿的“乳树”,并恒常施与饮食。
Verse 26
दृष्टमात्राः पुनन्त्येते ये नित्यं सत्यवादिनः । वेदधर्मकथां श्रुत्वा भुक्तिमुक्तिप्रदा नरान्
这些人恒常说真语,仅凭一见便能净化他人。聆听他们宣说吠陀与法(dharma),人们得以同时获得现世之乐与出世解脱。
Verse 27
स्मृत्वा हरिहरौ गंगां कृत्वा तीरेण मार्जनम् । गत्वा जागरणे विष्णोर्दत्त्वा दानं च शक्तितः
忆念哈利与哈拉,并忆念恒河,在河岸行净化之仪;前往毗湿奴的夜间守夜法会,并随己力行布施——此皆称为殊胜功德。
Verse 28
तांबूलं कुसुमं दीपं नैवेद्यं तुलसीदलम् । गीतं नृत्यं च वाद्यं च विधाय सुरमंदिरे
在神圣殿宇中供奉槟榔叶、花、灯、食供(naivedya)与图拉西叶;并安排歌咏、舞蹈与器乐——此为功德殊胜之礼拜。
Verse 29
एते सूक्ष्माः स्मृता धर्माः क्रियमाणा महोदयाः । अतो गिरीन्द्रं पश्यामि सर्वदेवालयं शुभम्
这些被忆为微妙之法(dharma);若能奉行,便带来极大的提升。因此我瞻仰“群山之主”——吉祥殊胜,为诸神同居之圣所。
Verse 30
तेषां करतले स्वर्गः शिखरं यांति ये नराः
对那些登临圣山之巅的人而言,天界仿佛就在掌中。
Verse 31
इति ज्ञात्वा समा रूढो वामनो गिरिमूर्द्धनि । ऐरावतपदाक्रांत्या यत्र तोयं विनिःसृतम्
既知其义,婆摩那登上山巅——在那被爱罗婆多足迹所踏之处,清水涌出。
Verse 32
ततः शिखरमारूढां भवानीं स्कन्दमातरम् । द्रष्टुं स वामनो याति शिखरे गगनाश्रिते
随后,婆摩那前去瞻礼已登峰的婆伐尼——斯甘达之母;那峰顶仿佛依止于苍穹。
Verse 33
यथायथा गिरिवरे समारोहंति मानवाः । तथातथा विमुच्यंते पातकैः सर्वदेहिनः
人们如何攀登那殊胜之山,一切具身众生便如何相应地脱离罪垢。
Verse 34
इति कृत्वा मतिं विप्रो जगाम गिरिमूर्द्धनि । भवभक्तो भवानीं स ददर्श स्कन्दमातरम्
既作此决意,那婆罗门便登上山巅;以对婆伐(湿婆)的虔敬之心,他得见婆伐尼——斯甘达之母。
Verse 35
अंबेति भाषते स्कंदस्ततोऽन्ये सर्वदेवताः । पृथिव्यां मानवाः सर्वे पाताले सर्वपन्नगाः
斯甘达呼唤道:“安芭(Ambā)!”随即诸天众神皆同声应和。于大地之上,一切人类皆宣称此名;于帕塔拉(Pātāla)之中,一切那伽圣蛇亦复如是。
Verse 36
अतो ह्यंबेति विख्याता पूज्यते गिरिमूर्द्धनि । संपूज्य विविधैर्मुख्यैः फलैर्नानाविधैर्द्विजः
因此,她以“安芭(Ambā)”之名闻名,并在山巅受人礼拜。那位婆罗门以多种上妙佳果如法供养礼敬之后,继续行持其仪轨。
Verse 37
गगनासक्तशिखरे संस्थितः कौतुकान्वितः । एकाकी शिखरे तस्मिन्नूर्द्ध्वबाहुर्व्यवस्थितः
他立于那仿佛系于苍穹的峰巅,心怀惊叹;独自一人在那山顶安住不动,双臂高举而立。
Verse 38
निरीक्ष्य मेदिनीं सर्वां सपर्वतससागराम् । आद्यं सनातनं देवं भास्करं त्रिगुणात्मकम्
他遍观大地全境——连同群山与大海——遂观想婆斯迦罗(Bhāskara),那原初而永恒的神,其体性为三德(guṇa)。
Verse 39
सर्वतेजोमयं सर्वदेवं देवैर्नमस्कृतम् । भ्रममाणं निराधारं कालमानप्रयोजकम्
他见到那遍满光辉者——在某种意义上即“诸神之神”的天尊,为众天所礼敬——无所依止而行进,并确立时间的尺度。
Verse 40
यावत्पश्यति तं विप्रस्तावत्पश्यति शंकरम् । दिगंबरं भवं देवं समंतादश्मगुंठितम्
婆罗门凝望他(婆斯迦罗)多久,就同样多久得见商羯罗——婆婆(Bhava)、以十方为衣的裸空天神——四面皆为巨岩所环绕。
Verse 41
बुद्धरूपाकृतिं देवं सर्वज्ञं गुणभूषितम् । कृशांगं जटिलं सौम्यं व्योममार्गे स्वयं स्थितम्
他见到那位神祇呈佛陀般的形相——遍知一切、以诸德为庄严——肢体清瘦,发结成髻,温和安宁,自立于虚空之道。
Verse 42
श्रीशिव उवाच । शृणु वामन तुष्टोऽहं दास्ये ते विविधान्वरान् । त्रैलोक्यव्यापिनी वृद्धिर्भविष्यति न संशयः
圣师湿婆说道:“听着,婆摩那。我已欢喜满足。我将赐你种种恩赐。你的福祉与灵性增长必遍满三界——此无疑也。”
Verse 43
प्रतिभास्यंति ते वेदा गीतनृत्यादिकं च यत् । असाध्यसाधनी शक्ति भविष्यति तव स्थिरा । परं वस्त्रापथे गत्वा कुरु तीर्थावलोकनम्
“诸吠陀将在你心中以清明的领悟而放光,歌唱舞蹈等诸艺亦复如是。能成就连似乎不可成之事的坚固神力,将在你内生起。因此,前往伐斯特罗帕他,瞻礼诸圣渡处(tīrtha)。”
Verse 44
वामन उवाच । वस्त्रापथे महादेव यानि तीर्थानि तानि मे । वद देव विशेषेण यद्यस्ति करुणा मयि
婆摩那说道:“噢,大天(Mahādeva),伐斯特罗帕他有哪些圣渡处(tīrtha)?若你对我怀有悲悯,愿你为我详尽宣说,天主啊。”
Verse 45
रुद्र उवाच । वस्त्रापथस्य वायव्ये कोणे दिव्यं सरोवरम् । तस्य पश्चिमदिग्भागे जालिर्गहनपल्लवा
鲁陀罗说道:“在瓦斯特拉帕塔的西北角,有一处神圣的湖泊。其西侧有一片名为‘阇离’的密林,枝叶繁茂,嫩芽丛生。”
Verse 46
बिल्ववृक्षमयी मध्ये लिंगं तत्रास्ति मृन्मयम् । यत्रासौ लुब्धकः सिद्धो गतो मम पुरे पुरा
“在那片毕罗婆树丛的中央,有一尊泥塑的林伽。就在此处,往昔有一位猎人证得成就,久远之前已前往我的城邑(湿婆的居所)。”
Verse 47
तस्य दर्शनमात्रेण ब्रह्महत्या विनश्यति । इंद्रो वै वृत्रहा यस्मिन्विमुक्तो ब्रह्महत्यया
“只要一见那(林伽),‘梵杀罪’(brahmahatyā)便被摧灭。正是在那里,因陀罗——诛灭弗利陀罗者——得以脱离梵杀罪的污垢。”
Verse 48
तस्माद्रुत्तरदिग्भागे धनदेन प्रतिष्ठितम् । लिंगं त्रैलोक्यविख्यातं तत्र देवी त्रिशूलिनी
“在那处以北,有财主天(俱毗罗,Dhanada)所建立的林伽,名闻三界。那里也有三叉戟女神——特里舒利尼(Triśūlinī)。”
Verse 49
यस्या दर्शनमात्रेण पुत्रोऽस्य नलकूबर । पाशानुषक्तहस्तोऽभूद्देवं चक्रे त्रिशूलिनम्
“只要一见她(特里舒利尼),他的儿子那罗拘婆罗(Nalakūbara)——手被绳索套缚者——便得以复原;并且他奉事礼敬三叉戟之神特里舒林(持三叉戟的湿婆)。”
Verse 50
भवस्य नैरृते कोणे गणो हेरंबसंज्ञितः । यमेन कुर्वता लिंगं प्रथमं च प्रतिष्ठितः
在婆伐(湿婆)境域的西南隅,有一位名为赫然婆(Heraṃba)的侍从神(gaṇa)。就在此处,阎摩在履行其职分之时,最初安立了一座林伽。
Verse 51
विचित्रं तस्य माहात्म्यं चित्रगुप्तोऽति विस्मितः । दृष्ट्वा समागतो द्रष्टुं देवं तं मृन्मयं पुरा
那处(林伽/圣地)的威德奇妙无比。赤多罗笈多(Citragupta)大为惊叹;昔日他见闻之后,曾前来瞻礼那以泥土塑成的神体——土制林伽。
Verse 52
तेनापि निर्मितं लिंगं तस्मिन्क्षेत्रे द्विजोत्तम । चित्रगुप्तेश्वरंनाम विख्यातं भुवन त्रये
噢,最胜的二生者啊,他也在那圣域中建立了一座林伽。此林伽以“赤多罗笈多自在天”(Citraguptēśvara)之名,名闻三界。
Verse 53
पश्चिमेन चकारोच्चैः प्रजापतिरुदारधीः । केदाराख्यं तदा लिंगं गिरौ रैवतके स्थितम् । प्रजापतिः स्वयं तस्थौ तत्र पर्वतसानुनि
在西方,心怀广大之智的生主(Prajāpati)当时建立了一座名为“计达罗”(Kedāra)的林伽,安住于罗伊伐多迦山(Raivataka)上。生主自身也停驻在那山坡之处。
Verse 54
रुद्र उवाच । इंद्रेश्वरस्य माहात्म्यं कथयिष्ये शृणुष्व तत् । ईशानकोणे विख्यातं भवस्य विदितं मम
鲁陀罗说道:“我将宣说因陀罗自在天(Indreśvara)的伟大威德,你当谛听。此处在东北方位最为著名,我与婆伐(湿婆)皆深知其事。”
Verse 55
वामन उवाच । कस्मादिंद्रः समायातः कथं चक्रे हरं हरिः । कथां सविस्तरामेतां कथयस्व मम प्रभो
婆摩那说道:因何因缘因陀罗来到此处?又是如何由诃利使诃罗(湿婆)显现?愿主为我详尽宣说此一圣传。
Verse 56
रुद्र उवाच । लुब्धकस्तु पुरा सिद्धः शिवरात्रिप्रजागरात् । शिवलोके तदा प्राप्तं विमानं गणसंयुतम्
楼陀罗说道:久远以前,有一猎人因在湿婆夜(Śivarātri)守夜而得成就(悉地)。其时在湿婆之界,一乘天车(毗摩那)降至,并有众伽那随侍。
Verse 57
सर्वत्रगं सुरुचिरं दिव्यस्त्रीगीतनादितम् तदारुह्य समायातो द्रष्टुं तां नगरीं हरेः
那天车能遍行诸方,殊妙庄严,又回响着天女歌咏之声;他登乘其上,前来瞻观诃利之城。
Verse 58
यस्यां युद्धं समभवद्गणानां यमकिंकरैः । आगच्छमानं तं ज्ञात्वा देवराजेन चिंतितम्
在彼处,湿婆的伽那与阎摩的使者起了争战。得知他正将到来,天帝因陀罗心生忧惧,遂沉思筹虑。
Verse 59
पूज्योऽयं हरवत्सर्वैश्चित्रगुप्तयमादिभिः । इंद्रो गजं समारुह्य महिषेण यमो यतः
“此人当受众皆如敬诃利般礼敬——由质多罗笈多、阎摩等一切。”因此因陀罗乘其神象而起,阎摩则骑其水牛而行。
Verse 60
विधाय लेखनीं कर्णे चित्रगुप्तो यमाज्ञया । ततो हूता गणाः सर्वे ये नीता धरणीतलात्
奉阎摩之命,持录官质多罗笈多将书写之笔置于耳畔,准备记录。随后,凡自人间地表被带来的诸众伽那,尽皆被召集而来。
Verse 61
निजापराधसंतप्ता गतास्ते दक्षिणामुखम् आथित्यपू । जा कर्तव्या लुब्धके गृहमागते
他们因自知罪愆而心受煎迫,遂面向南方而行。若有猎人以宾客之身来到家中,当以款待之礼与恭敬供奉相迎。
Verse 62
अपूजिते गते ह्यस्मिन्हरो मां शपयिष्यति । तस्मात्पूजां करिष्यामि यथा तुष्यति शंकरः
“若我不加礼拜便从此离去,哈罗必定降咒于我。故我当修行供奉之礼,使商羯罗彻底欢喜。”
Verse 63
देवं द्रष्टुं समायातं ददर्शादूरतः स्थितम् । विमानस्थं हराकारं सूर्यकोटिसमप्रभम्
他远远望见那位为人所瞻礼而降临的神祇——端坐天车之上,具哈罗之相,光辉灿然,若千万日轮。
Verse 64
संस्तूयमानं चरितैः शिवरात्रेः शिवस्य च । माघे मासे चतुर्द्दश्यां कृष्णायां जागरे कृते
人们以《湿婆夜》(Śivarātri)与湿婆本尊的圣传赞颂他——在摩伽月、黑半月第十四日,当守夜之行已圆满成就之时。
Verse 65
तदेवं जायते सर्वं सुरेश्वर धरातले । एवं देवांगना काचिदाचक्षंती पुरंदरम् । निवार्य हस्तमुद्यम्य गजेंद्रं चारुलोचना
如是,噢诸天之主,一切皆在大地上如法发生。于是有一位天女对普兰达罗(因陀罗)如是陈说;那位美目者举手制止,指向威严的象王。
Verse 66
किं दानैर्बहुभिर्दत्तैर्व्रतैः किं किं सुरार्चनैः । किं योगैः किं तपोभिश्च ब्रह्मचर्य्यैः सुरेश्वर
施舍布施再多又有何用?持戒立誓有何所得?礼敬诸天、修习瑜伽、行苦行、守梵行(brahmacarya)又能得什么——噢诸天之主?
Verse 67
गयायां पिंडदानेन प्रयागमरणेन किम् । सोमेश्वरे सरस्वत्यां सोमपर्वणि किं गतैः
在伽耶供奉祭团(piṇḍa)能得何成就?在普拉亚伽舍身又有何所得?于苏摩圣日(Soma-parvan)前往娑摩伊湿伐罗(Someśvara)或前往萨拉斯瓦蒂河,又能得什么?
Verse 68
कुरुक्षेत्रगतैः किं स्याद्राहुग्रस्ते दिवाकरे । तुलासुवर्णदानेन वेदपाठेन किं भवेत्
当太阳被罗睺所蚀之时前往俱卢之地(Kurukṣetra),又有何所得?以天平施金(tulā-dāna)或诵读吠陀,又会产生何种果报?
Verse 69
सर्वपापक्षयो येन वृषोत्सर्गेण तेन किम् । गोदानं किं करोत्येवं जलदानं तथैव च
即便是那被称为能灭尽诸罪的放公牛仪(vṛṣotsarga),又有何意义?如此一来,施舍一头牛又能成就什么——施水亦复如是。
Verse 70
अयने विषुवे चैव संक्रांतौ कीदृशं फलम् । माघमासे चतुर्दश्यां यादृशं जागरे कृते
在至日(ayana)、在昼夜平分之日(viṣuva),以及在转节日(saṅkrānti)时,能获得何等功德之果?又在摩伽月第十四日,若行通宵守夜礼敬(jāgara),将得何等无比殊胜之果?
Verse 71
यमः संभाषते वाण्या महिषोपरि संस्थितः । पश्य रुद्रस्य माहात्म्यं चित्रगुप्त विचारय
阎摩(Yama)端坐于水牛之上,以言语说道:“观此鲁陀罗(Rudra)之伟大威德——噢,质多罗笈多(Citragupta),当细加审察。”
Verse 72
अयं स लुब्धको येन हरः संपूजितः पुरा । सुराष्ट्रदेशे विख्यातं तीर्थं वस्त्रापथं शृणु
此人正是那位猎人,往昔曾如法礼敬哈罗(Hara,湿婆Śiva)。如今且听那在苏罗湿吒罗(Surāṣṭra)之地闻名的圣渡处——名为“伐斯特罗跋他”(Vastrāpatha)的提尔塔(tīrtha)。
Verse 73
उज्जयंतो गिरिस्तत्र तथा रैवतको गिरिः । महती वर्त्तते जालिस्तयोर्मध्ये मया श्रुतम्
彼处有郁阇延多山(Ujjayanta),亦有罗伊伐多迦山(Raivataka)。在两山之间,有广大的阇梨(Jāli)——我如是听闻。
Verse 74
मृन्मयं वर्तते लिगं रात्रौ चानेन पूजितः । रात्रौ जागरणं कर्त्तुं येन कार्येण चागतः
有一尊以泥土塑成的林伽(liṅga),他在夜间礼拜供奉。为行通宵守夜之修持,他特此前来。
Verse 75
तदस्माभिः कथं वाच्यं स्वयं जानंति ते सुराः । वरांगना वरं द्रष्टुं वरयंति परस्परम् । इंद्रावासात्समायाता नंदने वेगवत्तराः
我们又怎能说尽?诸天自知其事。天女们渴望瞻见至上之美,彼此择选;身法迅疾,自因陀罗之居所来到难陀那园林。
Verse 76
विरंचिना रायणशंकरत्विषा देहेन चागच्छति कोऽपि पूरुषः । पुरीं सुरेशाधिपतेर्निरीक्षितुं भर्त्ता ममायं तव चास्ति किं पतिः
有一男子正走来,身躯辉耀,具毗兰支(梵天)、那罗延与商羯罗之光彩。他来是为瞻观天帝因陀罗之城。“此人是我夫!”——可你也有夫可与我争认他吗?
Verse 77
मृदंगवीणा पटहस्वरस्तुतैः प्रवोधिताभिः सुरराजमन्दिरे । देवो हरोऽयं न नरो हराकृतिर्दृष्टोंगनाभिस्तव किं किमावयोः
在天王宫中,她们被伴随木林鼓、维那琴与战鼓之声的赞颂所唤醒,遂觉悟:“此乃哈罗神(湿婆),非凡人,虽现哈罗之形!”既已为天女所见,那么你可称何为你,我又可称何为我?
Verse 78
गायंति काश्चिद्विहसंति काश्चिन्नृत्यंति काश्चित्प्रपठंति काश्चित् । वदन्ति काश्चिज्जयशब्दसंयुतैर्वाक्यैरनेकैर्गुरुसन्निधाने
有的歌唱,有的欢笑,有的起舞,有的诵读;又有人在尊师长者之前,说出许多夹杂“胜利!胜利!”的言辞。
Verse 79
काचिच्छिवं स्तौति शिवां तथान्या पृच्छत्यथान्या किमु बिल्वपत्रात् । किं वोपवासेन फलं तवेदं निद्राक्षयेणाथ फलं तवैतत्
一位赞颂湿婆,另一位赞颂湿婆女神(Śivā)。又一位问道:“供奉毕尔瓦叶究竟得何功德?持斋禁食得何果报?而彻夜不眠、守夜精进又得何果报?”
Verse 80
तासां नानाविधा वाचः श्रूयन्ते नन्दने वने । ब्रह्मलोकादिका वार्त्ताः कृत्वा च तदनन्तरम्
在难陀那林中,听见她们种种不同的声音。谈及梵天界(Brahmaloka)及诸世界之事后,便又继续前行。
Verse 81
देवेन्द्रो लुब्धकं भूयो बभाषे कौतुकान्वितः । कस्मिन्देशे गिरौ जालिर्लिंगं यत्रास्ति दर्शय
天帝因陀罗又满怀好奇地对猎人说道:“那名为阇梨(Jāli)、有林伽之处,在何方国土、哪座山上?请指示于我。”
Verse 82
लुब्धक उवाच । सुराष्ट्रदेशे विख्यातो यस्मिन्देशे सरस्वती । वाडवं शिरसा धृत्वा प्रविष्टा लवणोदधौ
猎人说道:“在著名的苏罗湿吒罗(Surāṣṭra)之地,有一处闻名之境:萨拉斯瓦蒂河(Sarasvatī)顶戴瓦陀婆(Vāḍava,地下之火),流入咸海。”
Verse 83
यत्र सा गोमती याति यत्रास्ते गन्धमादनः । उज्जयंतो गिरिवरो यत्र रैवतको गिरिः
“那里有戈摩提河(Gomatī)流淌;那里有甘达摩陀那(Gandhamādana)屹立;那里有殊胜的优阇延多山(Ujjayanta);亦有赖伐多迦山(Raivataka)——”
Verse 84
तत्र वस्त्रापथं क्षेत्रं भवस्तत्र व्यवस्थितः । तत्रास्ते मृन्मयं लिंगं जालिमध्ये सुरोत्तम
“其处即名为伐斯特罗跋他(Vastrāpatha)的圣域;婆伐(Bhava,即湿婆Śiva)安住于彼。又在其处,噢诸天中最胜者,于阇梨(Jāli)之中有一尊土制林伽。”
Verse 85
इन्द्र उवाच । सहितैस्तत्र गंतव्यं पूजयिष्ये भवं स्वयम् । जालिमध्ये तथा लिंगं दर्शयस्व च लुब्धक
因陀罗说道:“我们众人一同前往那里;我将亲自礼拜婆伐(湿婆)。猎人啊,也请把那在阇梨之中的林伽指示给我们。”
Verse 86
परदारादिकं पापं दैत्यानां तु विकृंतने । वधे वृत्रस्य संजातं तत्सर्वं क्षालयाम्यहम्
“从侵犯他人妻室等罪业开始的罪,斩除代底耶时所染之罪,以及诛杀弗利陀罗所生之罪——这一切我都将洗净。”
Verse 87
इत्युक्त्वा सहिताः सर्वे संप्राप्ता गिरिमूर्द्धनि । वाहनानि च ते त्यक्त्वा प्रस्थिताः पादचारिणः
说罢,众人一同抵达山巅;舍下车乘,改以步行前进。
Verse 88
उज्जयन्तगिरेर्मूर्ध्नि गजराजः समागतः । तदाग्रचरणं तस्य ददौ मूर्धनि कारणात्
在优阇延多山之巅,尊贵的象王来到;随后因某种缘由,他将前足踏在峰顶之上。
Verse 89
तेनाक्रान्तो गिरिवरस्तोयं सुस्राव निर्मलम् । गजपादोद्भवं वारि भविष्यति सदा स्थिरम्
当那殊胜之山被他踏压时,清净之水便涌流而出。此水由象足所生,将恒常长存,坚固不移。
Verse 90
इति प्रोक्तं सुरेन्द्रेण लोकानां हितकाम्यया । सर्वे समागतास्तत्र यत्र जालिर्व्यवस्थिता
天神之主因陀罗为诸世界之安乐而如是宣说。随后众人皆聚集于彼处,即阇利(Jāli)安住之地。
Verse 91
संपूज्य विविधैः पुष्पैर्माघमासे चतुर्दशी । तस्यां जागरणं कृत्वा सञ्जातो निर्मलो हरिः
于摩伽月第十四日,以种种花供养礼拜;并于彼夜守夜不眠,哈利(Hari)遂得清净,无垢无染。
Verse 92
वस्त्रापथे भवं पूज्य हरिं रैवतके गिरौ । इन्द्रेश्वरं प्रतिष्ठाप्य संप्राप्तः स्वनिकतनम्
在伐斯特罗帕他(Vastrāpatha)礼拜婆伐(Bhava,湿婆),又在赖伐多迦山礼拜哈利。随后安立名为因陀罗主(Indreśvara)之林伽,便回归自家住处。
Verse 93
लुब्धकोऽपि विमानेन संप्राप्तो हरिमन्दिरे । इत्युक्त्वा स भवो देवस्तत्रैवांतरधीयत
“即便那猎人,也乘天车(vimāna)到达哈利之庙。”言毕,婆伐天主(湿婆)当场隐没不现。
Verse 94
वामनोपि ततश्चक्रे तत्र तीर्थावगाहनम् । यादृग्रूपः शिवो दृष्टः सूर्यबिंबे दिगंबरः
其后,婆摩那亦于彼圣渡(tīrtha)沐浴。彼见湿婆现如是相——为“披方者”(Digambara,衣以诸方),显现于日轮之中。
Verse 95
पद्मासनस्थितः सौम्यस्तथा तं तत्र संस्मरन् । प्रतिष्ठाप्य महामूर्त्तिं पूजयामास वासरम्
他端坐莲花坐,性情温和,于彼处忆念圣尊;遂安立宏伟圣像(mahāmūrti),终日虔敬礼拜供养。
Verse 96
मनोऽभीष्टार्थसिद्ध्यर्थं ततः सिद्धिमवाप्तवान् । नेमिनाथशिवेत्येवं नाम चक्रे स वामनः
为成就心中所愿,他遂得圆满成就。于是侏儒仙(Vāmana)为其命名为“尼弥那他—湿婆”(Neminātha-Śiva)。
Verse 97
भवस्य पश्चिमे भागे प्रत्यासन्ने धरातले । वामनो वसतिं चक्रे तीर्थे वस्त्रापथे तदा
其后,在婆婆(Bhava,即湿婆)圣所西侧近旁的地面上,侏儒仙(Vāmana)于瓦斯特拉帕他圣渡处(Vastrāpatha tīrtha)建立居所。
Verse 98
अतो यवाधिकं प्रोक्तं तीर्थं देवैः सवासवैः । इंद्रेण कुर्वता देवं समागत्य भवाग्रतः
因此,诸天与婆娑婆(Vāsava,即因陀罗)一同宣称此圣渡处名为“Yavādhika”。当因陀罗正在塑立并安置神像时,他们齐集于婆婆(Bhava,湿婆)之前。
Verse 99
यवाधिकं प्रभासात्तु तीर्थमेतद्भवाज्ञया । अन्येषां षड्गुणं तीर्थं भविष्यति शिवाज्ञया
此圣渡处奉婆婆(Bhava)之命名为“Yavādhika”,其殊胜甚至超越普拉婆娑(Prabhāsa)。又奉湿婆之命,其功德将较诸他处圣渡高出六倍。
Verse 100
इत्येतत्कथितं सर्वं किमन्यत्परिपृच्छसि
如是,一切皆已宣说;你还想再问什么?
Verse 101
राजोवाच । शिवरात्रिप्रभावोयमतुलः परिकीर्त्तितः । अजानता कृता तेन लुब्धकेन पुरा श्रुतम्
国王说道:“湿婆夜(Śivarātri)无与伦比的功德已被宣扬。我听说在久远以前,那猎人虽不知其真义,也曾行持此戒。”
Verse 102
इदानीं वद कर्त्तव्या कथमन्यैर्जनैर्विभो । किं ग्राह्यं किं नु मोक्तव्यं शिवरात्र्यां वदस्व मे
如今请告知我,主啊:他人当如何奉行?在湿婆夜应当守持什么、又当避免什么——请为我宣示。
Verse 103
सारस्वत उवाच । संप्राप्य मानुषं जन्म ज्ञात्वा देवं महेश्वरम् । शिवरात्रिः सदा कार्या भुक्तिमुक्तिप्रदायिनी
娑罗娑伐多说道:既得人身,又已识得大自在天摩诃伊湿伐罗为主,当恒常奉行湿婆夜;因为它赐予世间福乐与解脱。
Verse 104
ईदृशं जायते पुण्यमेकया कृतया नृप । ये कुर्वंति सदा मर्त्त्यास्तेषां पुण्यमनंतकम्
大王啊,如此功德即便只行一次也能生起;而凡人若恒常守持,其功德便无有穷尽。
Verse 105
द्वादशाब्दं व्रतमिदं कर्त्तव्यं प्रतिवत्सरम् । जीवितं चंचलं नृणां यदि कर्तुं न शक्यते
此神圣誓戒当行十二年,年复一年如法守持。然而人命无常,若不能久行至此……
Verse 106
तदा द्वादशभिर्मासैर्व्रत मेतत्समाप्यते । माघमासे चतुर्दश्यां प्रारम्भः क्रियते नृप
于是此誓戒亦可于十二个月内圆满。大王啊,其起行之仪当在摩伽月第十四日(caturdaśī)举行。
Verse 107
प्रतिमासं ततः कार्यं पौषांते तु समाप्यते । विघ्नश्चेज्जायते मध्ये कथं चिद्दैवयोगतः
此后当月月奉行,并于波沙月末圆满。若中途因不可预料的命运因缘而生障碍……
Verse 108
न भवेद्व्रतभंगस्तु पुनः कार्यमनन्तरम् । द्वादशैव प्रकर्तव्याः कृत्वा संख्या विशेषतः
不应视为破戒;当即再行其仪。确须圆满十二次修持——将次数精确补足。
Verse 109
कृतं न नश्यते लोके शुभं वा यदि वाऽशुभम् । कृष्णायां तु चतुर्दश्यां कृतपूर्वाह्निकक्रियः
在此世间,所作之业不致消亡,无论善恶皆然。因此,于黑半月(Kṛṣṇa pakṣa)第十四日,既已完成上午诸仪……
Verse 110
उपवासनियमो ग्राह्यो नद्यां स्नानं विधीयते । तदभावे तडागादौ कार्यं स्नानं स्वशक्तितः
应当受持斋戒之律,并依教在河中沐浴。若无此缘,则当随己之力,于池塘等处沐浴。
Verse 111
तैलाभ्यंगो न कर्त्तव्यो न कार्यं गमनं क्वचित् । तीर्थसेवा प्रकर्त्तव्या तस्मिंश्चागमनं शुभम्
不可行油按摩,亦不应四处游走。应当奉事圣渡处(tīrtha);前往彼处即为吉祥。
Verse 112
शिवरात्रिः सदा कार्या लिंगे स्वायंभुवे नरैः । तदभावे महापुण्ये लिंगे वर्षशताधिके
众人应常于自现之林伽(svayambhū)前守持湿婆夜(Śivarātri)。若无此林伽,则当于功德极大、建立逾百年的林伽前行此誓愿。
Verse 113
गिरौ वने समुद्रांते नद्यां यच्च शिवालये । तद्वै स्वायंभुवं लिंगं स्वयं तत्रैव संस्थितम्
无论在山上、林中、海滨、河岸,或在湿婆庙内——凡所见之处——当知彼为自现林伽(svayambhū),自然而然安住于彼处。
Verse 114
वालुलिंगादिकं लिंगं पूजितं फलदं स्मृतम् । दिवा संपूज्य यत्नेन पुष्पधूपादिना नरः
如沙林伽(vāluliṅga)等诸林伽,忆念其被礼拜则能赐果。于白昼之时,行者当勤谨供奉,以花、香(熏香)等而敬礼。
Verse 115
वर्जयेन्मदिरां द्यूतं नारीं नखनिकृन्तनम् । ब्रह्मचर्यपरैः शांतैः कर्त्तव्यं समुपोषणम्
应当远离酒、赌博、纵欲与修剪指甲。以宁静之心、坚守梵行(brahmacarya)者,当如法修持斋戒与守夜之行。
Verse 116
रात्रौ देवाग्रतो गत्वा कर्त्तव्याः सप्त पर्वताः । पक्वान्नफलतांबूलपुष्पधूपादिचर्चिताः
夜间,至神前,应备置七座“parvata”(仪式供堆),以熟食、果品、槟榔叶、花、香等供物庄严装饰。
Verse 117
घृतेन दीपः कर्त्तव्यः पापनाशनहेतवे । यतो दीपस्य माहात्म्यं विज्ञेयं मुक्तिदायकम्
应以酥油(ghee)点灯,为灭除罪垢之因;当知灯之功德广大,能赐解脱(mukti)。
Verse 118
दीपः सदैव कर्त्तव्यो गृहे देवालये नरैः । दिवा निशि च संध्यायां दीपः कार्यः स्वशक्तितः
众人应常在家中与神庙里供灯不息。白昼、夜晚及暮昏之时(sandhyā),当随己力点灯。
Verse 119
किञ्चिदुद्द्योतमात्रेण देवास्तुष्यंति भूतले । पितॄणां प्रथमं दीपः कर्त्तव्यः श्राद्धकर्मणि
纵然只是一点微光,也能令诸天在世间欢喜。至于祖灵(Pitṛ),在施行施食祭(śrāddha)时,首先应供奉一盏灯。
Verse 120
रात्रौ जागरणं कार्यं यथा निद्रा न जा यते । शिवरात्रिप्रभावोऽयं श्रोतव्यः शिवसंनिधौ
夜间当守夜不眠,使睡意不生。此“湿婆夜”(Śivarātri)之威德与光荣,应在湿婆(Śiva)亲临之前聆听。
Verse 121
शिवस्य चरितं रात्रौ श्रोतव्यं बहुविस्तरम् । गीतं नृत्यं तथा वाद्यं कर्तव्यं शिवसंनिधौ
夜间应详尽聆听湿婆(Śiva)的圣行与事迹传记。并当在湿婆面前献上歌咏、舞蹈与器乐演奏。
Verse 122
एवं सा नीयते रात्रिर्मुख्यं जागरणं यतः । रात्रौ देयानि दानानि शक्त्या वै तत्र जागरे
如是度过此夜,因为守夜为最主要的行持。在那夜的清醒守持中,应随己力而行布施。
Verse 123
पुनः स्नात्वा प्रभाते तु कर्त्तव्यं शिवपूजनम् । पूजनीयाश्च यतयो भोजनाच्छादनादिभिः
随后于黎明再沐浴一次,当行对湿婆(Śiva)之礼拜供奉。亦当以饮食、衣物等供养,恭敬诸苦行者。
Verse 124
तपस्विनां प्रदातव्यं भोजनं गृहमेधिभिः । द्वादशाष्टौ च चत्वारो भोक्तव्या एक एव वा
居家之人当施食于苦行者。可供养十二位,或八位,或四位——乃至仅一位亦可。
Verse 125
एकोऽपि ब्रह्मचारी यो ब्रह्मविच्छिवपूजकः । सहस्राणां समो भक्त्या गृहे संभोजितो भवेत्
即使仅有一位梵行者——通达梵(Brahman)并礼敬湿婆(Śiva)——若在家中以虔敬供食,其功德等同供养千人。
Verse 126
अक्षारालवणं पत्रे भोक्तव्यं वाग्यतैः स्वयम् । पुत्रमित्रकलत्राणां दातव्यं भोजनं पुरः
当摄持言语时,应亲自食用盛于叶上的清淡无盐之食;并应先将食物供给儿子、友人及妻子。
Verse 127
अनेन विधिना कार्या शिवरात्रिः शिवव्रतैः । द्वादशैता यदा पूर्णास्तिलपात्राणि वै तदा
依此法当以湿婆之誓戒守持湿婆夜(Śivarātri)。当这十二项圆满之时,便应备办十二器芝麻(以供奉或布施)。
Verse 128
द्वादशैव प्रदेयानिगुरुब्राह्मणज्ञातिषु । व्रतांते गौः प्रदातव्या कृष्णा वत्सयुता दृढा
那十二器芝麻确应施与上师、婆罗门及亲族。誓愿圆满之际,当布施一头健壮黑牛,并连同其犊。
Verse 129
सवस्त्राभरणा देया घंटाभरणभूषिता । अंगुलीयकवासांसि च्छत्रोपानत्कमण्डलु
应连同衣物与饰品一并布施,并以铃饰庄严;又当施与戒指、衣裳、伞盖、鞋履及净水壶(kamaṇḍalu)。
Verse 130
गुरवे दक्षिणा देयाब्राह्मणेभ्यः स्वशक्तितः । एवं कृत्वा ततो देयं तपस्विभ्योऽथ भोजनम् । मिष्टान्नं विविधं दत्त्वा क्षमाप्य च विसर्जयेत्
应向上师奉献达克希那(dakṣiṇā),并依自身能力布施婆罗门。如此行毕,继而供养苦行者饮食;献上种种甜美佳肴后,当祈求宽恕,并恭敬送别。
Verse 131
एवं यः कुरुते सत्यं तस्य पापं न विद्यते । संतानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान्
诚然,凡如此行持者,罪垢不复存留。得上善子嗣,享受无与伦比的福德与安乐。
Verse 132
दिव्यविमानमारूढो दिव्यस्त्रीपरिवेष्टितः । गतिवादित्रनिर्घोषैर्नीयते शिवमन्दिरे
他乘上天界飞车(vimāna),为天女环绕;在行进的天乐器齐鸣回响之中,被送往湿婆的圣殿。
Verse 133
तदेतत्कथितं पुण्यं शिवरात्रिव्रतं मया । कृतेन येन लोकानां सर्वपापक्षयो भवेत्
如是,我已宣说这功德殊胜的湿婆夜(Śivarātri)誓戒;行持此誓,世人得以灭尽一切罪业。