
本章以两条交织的叙事线索展开,最终汇聚于瓦斯特拉帕塔(Vastrāpatha)的仪轨权威。先由萨拉斯瓦塔叙述:圣者瓦西什塔在苏瓦尔纳瑞卡河畔苦行,鲁陀罗显现赐福,令湿婆将于彼处安住,“直至月与星仍在”,使凡沐浴并礼拜者恒得罪业消除(pāpa-kṣaya)。 继而转入政治与神学背景:巴利取得普世主权,纳罗陀却不满世界缺少战事与祭祀的激荡;其言辞挑动因陀罗,但布里哈斯帕提劝以谋略,并召请毗湿奴。 故事遂引向伐摩那化身:伐摩那抵达苏罗阿什特拉后,立誓先礼敬苏摩伊湿伐罗(Somēśvara),严修诸行,直至湿婆以林伽显现。伐摩那祈愿此自生林伽(svāyambhu liṅga)常在其前。果报偈(phalāśruti)宣说:即便一次专一礼拜,亦能解脱重罪,如梵杀罪(brahmahatyā)及诸大罪(mahāpātaka);命终之后更将升历诸天界,终至鲁陀罗界(Rudraloka)。章末强调:仅聆听此显现缘起,亦能得罪业消除。
Verse 1
सारस्वत उवाच । वस्त्रापथे महाक्षेत्रे नगरे वामने पुरा । पुत्रशोकाभिसंतप्तो वसिष्ठो भगवानृषिः
萨罗娑伐多(Sārasvata)说道:往昔,在瓦斯特拉帕他(Vastrāpatha)大圣域之中、名为婆摩那(Vāmana)的城里,圣者仙人婆悉吒(Vasiṣṭha)因丧子之痛而心如火灼,(来到此处)。
Verse 2
आजगाम तपस्तप्तुं स्वर्णरेखानदीतटे । ईशानकोणे नगरात्स्वर्णरेखानदीजले
他来到娑伐那勒迦河(Svarṇarekhā)之滨修行苦行(tapas);在城之东北方,临近那河水之处。
Verse 3
स्नात्वा ध्यात्वा शिवं देवं मनसाऽचिन्तयद्यदा । तदा रुद्रः समायातस्त्रिनेत्रो वृषभध्वजः । महर्षे तव तुष्टोऽहं किं करोमि वदस्व तत्
当他沐浴已毕,入定观想,于心中忆念湿婆大自在天(Śiva)之时,鲁陀罗(Rudra)便降临——三目具足,旌旗以神牛为徽——说道:“大牟尼啊,我已悦纳于你。告诉我:我当为你作何事?”
Verse 4
वसिष्ठ उवाच । यदि तुष्टो महादेव वरो देयो ममाधुना । तदाऽत्र भवता स्थेयं यावदाचंद्रतारकम्
婆悉吒说道:“若大自在天(湿婆)垂悦于我,愿今赐我一愿:请您安住于此,直至月与星辰尚存——亦即与其同久。”
Verse 5
अत्र स्नानं करिष्यंति ये नराः पापकर्मिणः । तेषां पापक्षयो देव कर्तव्यो भवता सदा
凡造作罪业之人,将在此沐浴;噢天神,愿您恒常令其罪垢消灭。
Verse 6
नरा ये पापकर्माणः पूजयंति त्रिलोचनम् । तान्नरान्नय देवेश विमानैः शिवमंदिरम्
即便是造作罪业之人,若能礼敬三眼主(湿婆),噢诸天之主,请以天界飞车引领他们至湿婆的圣殿居处。
Verse 7
सारस्वत उवाच । तथेत्युक्ता हरो देवस्तत्रैवांतर धीयत । हिरण्यकशिपुं हत्वा नरसिंहो महाबलः । त्रैलोक्यमिंद्राय ददौ कालरुद्रं स्वयं ययौ
萨拉斯瓦塔说道:“如是。”哈罗主(湿婆)受此祈请,便在彼处当即隐没。大力的那罗辛哈诛灭希兰尼亚迦湿布后,将三界交还因陀罗,而自身则前往迦罗鲁陀罗。
Verse 8
तदन्वये बलिर्जातः स चातीव बला धिकः । एकातपत्रां पृथिवीं बलिश्चक्रे बलाधिकः । अकृष्टपच्या सुजला धरित्री सस्यशालिनी
在那一支系中诞生了婆利,威力尤为卓绝。至强的婆利使大地“同在一伞之下”(归于一统)。土地不待耕犁而自生五谷,水泽充盈,收成丰饶。
Verse 9
गन्धवंति च पुष्पाणि रसवंति फलानि च । आस्कन्धफलिनो वृक्षाः पुटके पुटके मधु
花朵芬芳,果实甘美。树木自干至根皆结硕果,每一处孔隙与空洞之中都充满蜂蜜。
Verse 10
चतुर्वेदा द्विजाः सर्वे क्षत्रिया युद्धकोविदाः । गोषु सेवापरा वैश्याः शूद्राः शुश्रूषणे रताः
一切二生者皆通达四部吠陀;刹帝利善于征战;吠舍专心侍奉牛群;首陀罗乐于忠诚服役。
Verse 11
सदाचारा जनपदा ईतिव्याधिविवर्जिताः । हृष्टपुष्टजनाः सर्वे सदानंदाः सदोद्यताः
城邑与乡邦皆守善行,远离灾祸与疾病。众人欢欣而丰健——恒常喜悦,恒常精进。
Verse 12
कुंकुमागुरुलिप्तांगाः सुवेषाः साधुमंडिताः । दारिद्र्यदुःखमरणैर्विमुक्ताश्चिरजीविनः
他们的肢体涂抹藏红花与沉香,衣饰端美,并以德行为庄严。远离贫困、忧苦与夭亡,得以长寿。
Verse 13
दीपोद्द्योतितभूभागा रात्रावपि यथा दिने । विचरंति तथा मर्त्या देवा देवालये यथा
大地为灯火所照耀,夜间亦如白昼。众人往来无碍,宛如诸天在神圣殿宇中自在行走。
Verse 14
पृथिव्यां स्वर्गरूपायां राज्यं चक्रेऽसुरो बलिः । नित्यं विवाहवादित्रैर्नादितं भूपमंदिरम्
在化作天界般的大地上,阿修罗巴利统御其国。王宫日日回响庆典之乐与诸般乐器之声,如同婚礼所奏。
Verse 15
धरित्रीं बुभुजे दैत्यो देवराजो यथा दिवि । देवेन्द्रो बलिना नित्यं यज्ञैः संतोषितस्तदा
魔族巴利享用并治理大地,如同天帝在天界受乐。彼时天主帝释(因陀罗)常由巴利以祭祀(yajña)而得满足。
Verse 16
देवानां दानवानां च नास्ति युद्धं परस्परम् । एक एव महीपालो युद्धं नास्ति धरातले
天众与达那婆之间彼此无战。大地之上唯有一位君王,故世间全无兵戈。
Verse 17
सपत्नककलिर्नाम नास्ति युद्धं हरेर्गजैः । न सर्प्पनकुलैर्नित्यं न बिडालैश्च मूषकैः
所谓“共妻相妒”的争竞不复存在;狮与象亦无争斗。蛇与獴不再常相仇,猫与鼠也不再相斗。
Verse 18
मैत्रीभावं गतं सर्वं जगत्स्थावर जंगमम् । त्रैलोक्यभ्रमणं कृत्वा नारदो नंदने वने
一切世界——动与不动者——皆入于友善之境。那罗陀游历三界之后,来至难陀那林苑。
Verse 19
गतो न पश्यते युद्धं त्रैलोक्ये सचराचरे । तावत्तस्योदरे पीडा महती समजायत
他虽四处行走,却在三界之中、于一切动与不动之间,未见任何战争。然而就在那时,他腹中忽起剧烈的大痛。
Verse 20
न मे स्नानादिना कार्यं तर्प्पणैः किं प्रयोजनम् । जपहोमादिना सर्वमन्यथा मम चेष्टितम्
于我而言,沐浴等事已无所需;作塔尔帕那(tarpaṇa)奠献又有何用?一切行持——持诵(japa)、火供(homa)及其余诸事——对我都成了徒然,甚至背离其本旨。
Verse 21
तत्स्नानं यत्र युध्यन्ते गजा दंतविघट्टनैः । सा संध्या यत्र निहतैः कबन्धैर्भूर्विभूषिता
“那才是沐浴”——在群象交战、象牙相撞之处;“那才是暮时礼拜(sandhyā)”——在大地以阵亡者无首之躯为饰之处。
Verse 22
कुंतघातविनिर्भिन्नगजकुम्भोद्भवासृजा । तृप्यंति यत्र क्रव्यादास्तर्पणं तन्मम प्रियम्
我所喜爱的塔尔帕那(tarpaṇa)奠献,是在那处:食肉者因长矛劈裂象颞而喷涌的鲜血而得满足。
Verse 23
गजशीर्षैरगम्यास्ते निहताः क्षत्रिया रणे । स होमो यत्र हूयंते गजाश्च नरपुंगवाः
那些刹帝利在战阵中被杀,因遍地象首而使道路难行,便横陈其间。“那才是火供(homa)”——在那处,群象与人中雄杰被献入(战争之)火。
Verse 24
शब्दाग्नौ नारदस्यायं होमस्त्रै लोक्यविश्रुतः । छिन्नपादशिरोहस्तैरंतरांत्रविलबितैः
在言语之火中,圣者那罗陀的此一“护摩”名闻三界——显现为足、首、手被斩断之相,内脏肠腑垂悬其中。
Verse 25
यदर्च्यते भूमितलं तन्मे नित्यं सुरार्चनम् । किं देवैर्दिवि मे कार्यं किं मनुष्यैर्धरातले
凡在大地之上所受礼敬者,于我即是日日供奉诸天之礼。天界诸神于我何用?地上人众于我又何用?
Verse 26
पन्नगैः किं तु पाताले न युध्यन्ते परस्परम् । तथा करिष्ये देवेन्द्रादुपेन्द्राच्च धरातले
难道住在地下界波多罗的龙蛇族不也彼此争斗吗?同样地,在这大地之上,我也将与天帝因陀罗(Devendra)及优天帝毗湿奴(Upendra)相争。
Verse 27
रसातलं बलिर्यातु सत्यमस्तु वचो मम । जीवितेनापि राज्येन यदा दामोदरं हरिम्
“让婆利下沉至罗娑多罗;愿我之言成为真实。纵以性命与王国为代价——当事关达摩达罗·诃利(毗湿奴)之时……”
Verse 28
तोषयिष्यति यत्नेन तदेन्द्रोऽसौ भविष्यति । देवेन्द्रो वृत्रहा भूत्वा भ्रष्टराज्यो भविष्यति
“他将竭力以求取悦(主宰);于是那人将成为因陀罗。然而天帝因陀罗既成诛灭弗利陀罗者,便将失去其王权。”
Verse 29
यदा वस्त्रापथे गत्वा भवं भावेन पूजयेत् । सुराधिपस्तदा भूयो ब्रह्महत्याविवर्जितः
当诸天之主前往瓦斯特拉帕塔,并以至诚之心礼敬婆伐(湿婆)时,他便再次脱离“梵杀罪”(brahma-hatyā)的罪垢。
Verse 30
अनेन मन्त्रजाप्येन स शांतोदरवे दनः । नारदो देवराजस्य समीपं सहसा ययौ
因反复诵持此真言,他内心安定平和。随后,那罗陀迅速前往天帝之前。
Verse 31
सिंहासनं समारुह्य नन्दने संस्थितो हरिः । आस्ते परिवृतो देवेर्देवराजो महाबलः
哈利(因陀罗)登上狮子宝座,端坐于难陀那园中;这位大力的天帝,周围环侍着诸天。
Verse 32
निरीक्षमाणो नृत्यन्तीं रंभां तां सुरसुन्दरीम् । आयांतं ददृशे देवो नारदं विस्मयान्वितः
当他正观赏天女兰婆的舞姿时,天神(因陀罗)看见那罗陀走近,心中充满惊异。
Verse 33
अहो विरुद्धो भगवान्नारदो मयि दृश्यते । नृत्यते किं न वा नृत्ये गीयते किं न गीयते
“唉!尊贵的那罗陀似乎对我不悦。难道不该起舞吗?还是不该歌唱吗?”
Verse 34
वाद्यतां तालमानैः किं यावच्चिंतापरो हरिः । ऋषिः समागतस्तावज्जलाभ्युक्षणत त्परः
当哈利(因陀罗)沉浸于忧虑之中时,依塔拉节拍奏乐又有何用?此时圣仙已至,专心欲行洒净水之仪,以作吉祥的迎接。
Verse 36
महर्षे स्वागतं तेऽद्य कुतो वाऽग म्यते त्वया । स्नाने संध्यार्चने होमे कुशलं तव विद्यते
噢大圣仙,今日欢迎你到来。你从何处而来?你在沐浴净身、暮时礼拜(sandhyā)以及向圣火献供(homa)等修持上,可都安好?
Verse 37
इति प्रोक्तो विहस्याथ बभाषे नारदो हरिम् । यद्येतज्जायते मह्यं किमन्येन प्रयोजनम्
被如此问及,纳罗陀含笑而对哈利说道:“若此事果真为我成就,我还需要别的什么呢?”
Verse 38
प्रेक्षणीकस्य ते स्थानं नाहं पश्यामि स्वर्पते । यावद्राज्यं बलेस्तावत्त्वया मे न प्रयोजनम्
噢天界之主,我看不出你有何处可仅作旁观者而立。只要婆利的王权尚存,我便不需要你以此身份出现。
Verse 39
आदित्याद्या ग्रहाः सर्वे काल मानेन योजिताः । आहुत्या प्लाविता मेघा वर्षंति हृषिता भुवि
自太阳起,一切诸星皆依时间之尺度而运行;而云霭因祭献之供物(āhuti)而充盈,欢喜地向大地降下甘霖。
Verse 40
रोगादिमरणं नास्ति यमो धर्मेण पीडितः
并无因疾病等而致死;阎摩亦为正法所制,受其压制而退却。
Verse 41
एकातपत्रां पृथिवीं बुभुजे स नराधिपः । त्रैलोक्यनाथेति महानृपेति संग्रामविद्याकुशलेति नित्यम् । त्रैलोक्यलक्ष्मीकुचकामुकेति संस्तूयते चारणबंदिवृन्दैः
那位君王以一伞之下独享大地,成就一统之主。众多恰罗那与颂诗者恒常称颂他为“统御三界者”“大帝王”“精通战阵之艺者”,以及“三界吉祥天女拉克什米胸怀所爱者”。
Verse 42
ब्रह्मेति कृष्णेति हरेति भूमाविंद्रेति सूर्येति धनाधिपेति । देवारिनाथेति सुराधिपेति जेगीयते चारणबंदिवृन्दैः
在世间,众恰罗那与颂诗者歌咏他为“梵天”“黑天(克里希纳)”“诃利”“因陀罗”“苏利耶”“财富之主”,又为“制伏天敌之主”与“诸天之首”。
Verse 43
युद्धं विना दैत्यगणा हसंति मत्ताः प्रमत्ताः करिणो नदंति । रथाधिरूढाः पुरुषा भ्रमंति सेनाधिपा स्त्रीषु गृहे रमंति
“无战之时,群魔(代底耶)放声而笑;醉狂放逸之象长鸣;乘车之人四处游荡;诸军统帅在家与妇女取乐。”
Verse 44
यज्ञाग्निधूमेन नभो विराजते सुवर्णरूपा पृथिवी विराजते । शून्यं तु वेदैर्भुवनं च शोभते धिष्ण्यं बलेर्दैर्त्यैगणैश्च शोभते
“苍穹因祭火之烟而辉映;大地亦如黄金般灿然。然而世间却仿佛空缺了吠陀之声;而婆利的王座则以众代底耶之群而显赫。”
Verse 45
बलिर्न जानाति सुराधिपं त्वां सुराश्च सर्वे बलियज्ञभोजिनः । त्वमेव तेऽरिं हृदि चिंतय स्वयं युक्तं तवेदं कथितं मयेति
巴厘并不认你为诸天之主,诸天也都分食巴厘祭祀之供品。故当由你自己在心中省思你的仇敌;我所说者,实为相宜。
Verse 46
रंभा न राजते रंगे मेनका त्वां न मन्यते । तिलोत्तमापि मनुते बलिराजं सुरेश्वरम्
蓝婆在舞台上不再光耀;美那迦也不以你为至上。就连提洛多摩亦认巴厘王为诸天之主。
Verse 47
उर्वशी चैव तं याति सुकेशा सह भाषते । मञ्जुघोषा मुखं वक्त्रं कृत्वा त्वां न निरीक्षते
乌尔瓦希前往他处;苏凯莎与他交谈。曼珠歌沙转过脸去,不肯望你一眼。
Verse 48
पुलोमा पुलकोद्भेदं न करोति बलिं विना । पौलोमी पुरतो गत्वा बलिं स्तौति च मंथरा
没有巴厘,普罗摩连喜悦的战栗也不生。保罗弥走到前方赞颂巴厘;曼陀罗亦同声称赞。
Verse 49
नारदः पर्वतश्चैव हाहा हूहूश्च तुंबुरुः । बलिराज्यं प्रशंसंति रुद्रस्याग्रे मया श्रुतम्
那罗陀、帕尔瓦塔,以及哈哈、呼呼与通布鲁,都赞颂巴厘王的王权——此乃我在鲁陀罗面前亲闻。
Verse 50
आज्याहुतीभिः सन्तुष्टा ऋषयो ब्रह्मसद्मनि । ब्रह्मणोऽग्रे प्रशंसंति तदेवं कथितं मया
诸仙因酥油供献而心满意足,在梵天的居所中,于梵天之前赞颂(彼)。此事我已如是叙述。
Verse 51
बृहस्पतिर्यदाचष्टे न तद्वाच्यं मया तव । इंद्राणी बलिनं मत्वा बलिं चित्रेषु पश्यति
布里哈斯帕提所宣说之事,我不宜告知于你。因以婆利为强盛者,因陀罗尼便在画像(肖像)中凝望婆利。
Verse 52
अनेन वाक्येन सुराधिपस्तु चचाल कोपावरितस्तदानीम् । गजेति वज्रेति जगाद सूतं समानयासिं कवचं रथं च
闻此言,诸天之主震动不已,当下为忿怒所覆,遂命御者曰:“牵来大象与金刚杵;并将我的宝剑、铠甲与战车一并带来。”
Verse 53
रथेन सूर्यो मरुतो गजेन वृषेण रुद्रो महिषेण सौरिः । वाद्यंतु वाद्यानि रणाय मेऽद्य चण्डी गणेशास्त्वरिताः प्रयातु
令苏利耶乘战车而来;诸马鲁特乘大象而来;鲁陀罗乘公牛而来;娑乌利乘水牛而来。愿今日为我之战鼓吹诸般战器之声,并令旃提与诸伽内沙迅疾出征。
Verse 54
दृष्ट्वा सुरेन्द्रं संक्रुद्धं बृहस्पतिरुदारधीः । ऋषिमध्ये गतो विद्वान्बभाषे समयोचितम्
见因陀罗盛怒,心怀高雅之智的布里哈斯帕提——那位贤者——走入诸仙之中,说出了当时最相宜之言。
Verse 55
सामाद्या नीतयः प्रोक्ताश्चतस्रो मनुना पुरा । सामसाध्येषु कार्येषु दण्डस्तेन न पात्यताम्
远古之时,摩奴宣说四种治策,以“娑摩”(和解、安抚)为先。凡可由娑摩成就之事,便不应施以刑罚。
Verse 56
अतो ह्युपेन्द्र्माहूय मंत्रयन्तु सुरोत्तमाः । तदधीनं जगत्सर्वं त्रैलोक्यं सचराचरम्
因此,当召请优彭陀罗(Upendra),令诸天中最胜者共作商议。因为整个世界——三界连同一切动与不动——皆依赖于他。
Verse 57
विनष्टेषु च कार्येषु तस्य वाच्यं शुभाशुभम् । स एव प्रथमं गच्छेत्पृथिव्यां स्वार्थसिद्धये
当诸般谋事败坏之时,应向他陈明吉与凶。并且他自己当先行下至大地,使其所愿得以成就。
Verse 58
तथेति देवैर्विज्ञप्तस्तथा चक्रे सुरेश्वरः । मन्दरेऽथ गिरौ विष्णुः सत्यलोकात्समागतः
诸神如此祈请,天众之主答曰“如是”,遂依言而行。其后,于曼陀罗山上,毗湿奴自真谛界(Satyaloka)降临而至。
Verse 59
ऋषयस्तत्र ते यांतु समानेतुं जनार्द्दनम् । इत्युक्तो नारदः स्वर्गात्स्नातुं प्राप्तः स मन्दरे
“令诸仙人前往彼处,迎请阇那尔达那(Janārdana)。”奉此言教,那罗陀自天界下降,至曼陀罗而来沐浴。
Verse 60
गौतमोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ कश्यपः । जमदग्निर्वसिष्ठश्च संप्राप्ता हरिमन्दिरे
乔多摩、阿特里、婆罗陀婆阇、毗湿瓦密多罗与迦叶波——并同阇摩达格尼与婆悉吒——来到诃利的圣殿。
Verse 61
गिरौ गंगा जले स्नानं संध्यां चक्रे स नारदः । यावदास्ते तदा हृष्टा वालखिल्या महर्षयः
在山上,那罗陀于恒河之水中沐浴,并修行暮晨礼(Sandhyā)。当他停留其间,瓦拉奇利耶诸大圣者皆欢喜。
Verse 62
विनयेनाभिवाद्याथ कथयामास नारदः । ऋषयो मन्दरे प्राप्ता विष्णुं नेतुं सुरालये
那罗陀以谦恭致礼后说道:“诸仙已至曼陀罗,为引毗湿奴前往天神之居所。”
Verse 63
ऋषयो दर्शनं कर्त्तुं भवतामपि युज्यते । तदेतद्वचनं श्रुत्वा हर्षितास्ते महर्षयः
“你们也当去求得诸仙的达尔善(darśana)。”闻此言,那些大圣者心生欢喜。
Verse 64
अंगुष्ठपर्वमात्रांस्तान्वामनान्हरिमन्दिरे । गतान्गंगाजले स्नातुं वालखिल्यान्पुरो हरिः
诃利走在前方,引领那些瓦拉奇利耶——如侏儒般微小、仅拇指一节大小的圣者——他们自诃利圣殿出发,前往恒河水中沐浴。
Verse 65
जहास वामनान्सर्वान्भाविकार्यबलात्ततः । ब्रह्मपुत्रा वालखिल्याः सर्वे ते शंसितव्रताः
随后,在将来之事的势力催迫下,他讥笑了那些形如侏儒的诸仙。彼等瓦拉奇利耶(Vālakhilya)乃梵天之子,皆以受赞叹的誓戒而闻名。
Verse 66
लज्जान्विताः क्रोधपरा उच्चैरूचुः परस्परम् । केनापि देवकार्येण वामनोऽयं भविष्यति
他们满怀羞惭,又被忿怒驱使,彼此高声呼喊:“因何等天神之业,此人将成侏儒?”
Verse 67
ऋषिभिर्वि ष्णुना सर्वे प्रतिबोध्य प्रसादिताः । भाग्यमोक्षः कदा विष्णोर्भविष्यति तदुच्यताम्
众人既与诸仙同受毗湿奴教诲,又蒙其慈恩而心得安抚,便说道:“噢,毗湿奴,命定的解脱何时可得?愿为我等宣说。”
Verse 68
प्रभासादधिकं क्षेत्रं यदा वस्त्रापथं भवेत् । भविष्यति तदा वृद्धिर्ध्रुवमण्डलव्यापिनी । तथा वस्त्रापथं क्षेत्रं भविष्यति यवाधिकम्
当瓦斯特拉帕塔(Vastrāpatha)成为比普拉婆娑(Prabhāsa)更为殊胜的圣域之时,它的荣光必定增长,并遍满整个穹苍。由是,瓦斯特拉帕塔这神圣刹土将愈加丰盛而显赫。
Verse 69
दृष्ट्वा सोमेश्वरं देवं दोषमुक्तो भविष्यति । असाध्यसाधनी शक्तिर्भविष्यति स्थिरा तव
瞻礼苏摩伊湿伐罗(Someśvara)之神,便能脱离诸过。并且于你将生起一种坚固之力,能成就甚至看似不可成之事。
Verse 70
वस्त्रापथे सोमनाथं यः पश्यति स पश्यति । इन्द्रोपेन्द्रौ समालिंग्याथासीनौ तौ वरासने
凡在伐斯特罗帕塔瞻礼苏摩那他者,实即得见至上真实。于彼处亦见因陀罗与优朋陀罗相拥而坐,安住于殊胜宝座之上。
Verse 71
विष्णुरुवाच । किं ते कार्यं देवराज तदवश्यं करोम्यहम्
毗湿奴曰:“噢,天神之王,你有何所求?我必定为你成就。”
Verse 72
इन्द्र उवाच । हिरण्यकशिपोर्वंशे बलिर्दैत्यो महा बलः । तेनेदं सकलं व्याप्तं देवा यज्ञभुजः कृताः
因陀罗曰:“在希兰尼亚迦湿布的族系中,有名为婆利的大力代底耶。由他横扫侵占此一切境界,使诸天仅成‘享食祭供者’,失却主权。”
Verse 73
देवलोके भूमिलोको गतः सर्वोऽपि केशव । यावन्नो विकृतिं याति पूर्ववैरमनुस्मरन् । भ्रष्टराज्यो बलिस्तावत्पातालमधितिष्ठतु
“噢,计舍婆,大地之世仿佛已归入天界之域。只要他——追忆旧怨——尚未对我等生起心意乖变,便令失去王权的婆利居于帕塔拉(地下界)。”
Verse 74
सूर्यसोमान्वये कश्चिद्राजा भवतु भूतले
“愿大地之上兴起一位出自日族—月族之王。”
Verse 75
सारस्वत उवाच । इत्येतद्वचनं श्रुत्वा स्वयं संचिन्त्य चेतसा । तथा करिष्ये तं प्रोच्य मुनीन्प्राह जनार्दनः
萨拉斯瓦塔说道:听闻此言后,阇那尔达那在心中自省沉思,答道:“我当如此行。”随后便对诸位圣仙开示。
Verse 76
ऋषयस्तत्र गच्छंतु कारयन्तु महामखम् । अहं तत्रागमिष्यामि साधयिष्यामि तं बलिम्
“让诸位圣仙前往彼处,令大祭(摩诃祭)得以举行。我亦将到那里,成就此事,使巴利归于制伏。”
Verse 77
इत्युक्ता मुनयः सर्वे गतास्ते यज्ञमण्डपे । द्वादशाहो महायज्ञः प्रारब्धः सर्वदक्षिणः
诸牟尼既受此言,皆往祭坛之堂。彼处遂开启十二日大祭,诸般应施之达克希那与供赠无不圆满。
Verse 78
सुराष्ट्रदेशं विख्यातं क्षेत्रं वस्त्रापथं नृप । तस्य दक्षिणदिग्भागे बलेः सिद्धं महापुरम्
大王啊,在闻名的苏罗湿多罗国土中,有一处著名圣域名为“瓦斯特拉帕塔”。其南方一隅,矗立着巴利已成就而稳固的大城(摩诃城)。
Verse 79
क्षेत्राद्बहिः समारब्धो यज्ञः सर्वस्वदक्षिणः । शुक्रेणामन्त्रिताः सर्वे मुनयो यज्ञकर्मणि । अतिहृष्टो बलिर्यज्ञे ददौ दानान्यनेकधा
在圣域界外,祭祀被开启,以全部财物作为达克希那奉施。应舒克罗之邀,诸牟尼尽皆被召来行祭仪。巴利在祭中欢喜无量,广行种种布施。
Verse 80
स्वर्णपात्रेषु सर्वेषु दीयते भोजनं बहु । अतिथिर्ब्राह्मणो विद्वान्सर्वस्वेनापि पूज्यते । दानाद्यज्ञो भवेत्पूर्णो दानहीनो वृथा भवेत्
在一切金器之中,供奉了丰盛的饮食。那位博学的婆罗门宾客,即使倾尽家财也应受敬奉。祭祀因布施而圆满;无布施则徒然无果。
Verse 81
एतस्मिन्नेव काले तु विष्णुर्वामनतां गतः । मध्यदेशे चतुर्वेदो ब्राह्मणस्तीर्थयात्रिकः । महोदरो ह्रस्वभुजः खञ्जपादो महाशिराः
就在那时,毗湿奴化作侏儒婆摩那之形。在中土(Madhyadeśa),他显现为一位朝圣的婆罗门,通达四部吠陀——腹大、臂短、足跛、头硕。
Verse 82
महाहनुः स्थूलजंघः स्थूलग्रीवोऽतिलंपटः । श्वेतवस्त्रो बद्धशिखश्छत्रोपानत्कमण्डलून्
他下颌突出,小腿粗壮,颈项粗厚,形貌极为笨拙。身着白衣,发髻束起,携带伞盖、木屐(凉鞋)与净水壶迦曼陀卢(kamaṇḍalu)。
Verse 83
द्रष्टुं तीर्थान्यनेकानि बभ्राम स महीतले । सुराष्ट्रदेशे संप्राप्तः क्षेत्रे वस्त्रापथे द्विजः
为瞻礼诸多圣渡(tīrtha),他在大地上周游。那位婆罗门遂抵达苏罗ाष्ट्र之地,来到瓦斯特拉帕塔的圣域。
Verse 84
स्वर्णरेखा नदीतीरे चिंतयामास वामनः । प्रथमं किं भवं दृष्ट्वा यामि सोमेश्वरं शिवम्
在斯瓦尔纳瑞卡河畔,婆摩那沉思道:“我先瞻礼婆婆(Bhava),然后再去诣见娑摩伊湿伐罗——湿婆吗?”
Verse 85
अथ सोमेश्वरं पूज्य पश्चाद्यास्यामि मन्दरम् । इति चिन्तापरो भूत्वा कृत्यं सञ्चिन्त्य चेतसा । अत्र स्थितः सोमनाथं पूजयिष्यामि निश्चितम्
“先礼敬苏摩主(Someśvara),随后我将前往曼陀罗(Mandara)。”他专注思惟,心中细察当行之事,遂决意道:“我就住在此处,必定礼拜苏摩那他(Somanātha)。”
Verse 86
वस्त्रापथे महाक्षेत्रे भवं सोमेश्वरं वृथा । पूजयंति जना नित्यं तथा कार्यं मया धुवम्
“在瓦斯特拉帕塔(Vastrāpatha)这大圣域中,人们日日礼拜婆伐(Bhava)—苏摩主(Someśvara),却多成徒然(因不具正解)。因此,此事必当由我如法而行。”
Verse 87
देशानामुत्तमो देशो गिरीणामुत्तमो गिरिः । क्षेत्राणामुत्तमं क्षेत्रं नदीनामुत्तमा सरित्
诸国土之中,此为最胜之地;诸山岳之中,此为无上之山;诸圣域之中,此为至高之刹土;诸河流之中,此为第一之水脉。
Verse 88
दिव्यं वनं वनानां तु देवानामुत्तमो भवः । यदा सोमेश्वरो देवो भूमिं भित्त्वा भविष्यति
此为天妙之林,诸林之最胜;婆伐(湿婆)为诸天之至尊。当苏摩主(Someśvara)神将裂开大地而显现(于此)之时……
Verse 89
तदाम्रमण्डले दिव्यं क्षेत्रमेतद्यवाधिकम् । चैत्र शुक्लचतुर्दश्यामग्निसाधनतत्परः
其时,于彼天妙芒果林之围中,此神圣刹土更增殊胜。至于恰伊特拉月(Caitra)白分(明半月)第十四日,专志于火行修持(Agni-sādhana)……
Verse 90
ऊर्ध्वबाहुः सूर्यकाले भवं तावत्स पश्यति । मध्यंदिनं परं याते दिननाथे विलंबिते
日出之时,他高举双臂,于那段时分得以瞻见婆伐(湿婆)。当正午已过,而白昼之主——太阳——仍迟迟向前行进……
Verse 91
अग्नि तापांगसंतप्तस्तावत्पश्यति शंकरम् । सोमनाथं शिवं शांतं सर्वदेवनमस्कृतम् । अर्घ्येण पुष्पमिश्रेण जलमिश्रेण भामिनि
肢体为火热所灼,他遂得瞻见商羯罗——苏摩那他,寂静的湿婆,为诸天所礼敬。美丽的女子啊,以掺和花朵的阿尔伽水,并以清水供献……
Verse 92
सारस्वत उवाच । भूमिं भित्त्वाथ देवेशः स्वयं सोमेश्वरः स्थितः । लिंगरूपो महादेवो यावदाब्रह्मवासरम्
萨拉斯瓦塔说道:劈开大地之后,诸神之主——索摩伊湿伐罗亲自——显现而立。大天神以林伽之形安住,直至梵天之日(宇宙一日之终)。
Verse 93
सोमेश्वर उवाच । सिद्धस्त्वं मत्प्रसादेन कार्यं सिद्धं भविष्यति । इत्युक्तो वामनो देवं प्रत्युवाच महेश्वरम्
索摩伊湿伐罗说道:“凭我的恩赐,你已成就;你的所愿必将圆满。”如此被告知后,婆摩那答复大自在天。
Verse 94
वामन उवाच । यदि तुष्टो महादेव यदि देयो वरो मम । तदाऽत्र लिंगे स्थातव्यमस्तु दिव्यं पुरो मम
婆摩那说道:“若您欢喜,噢大天神,若要赐我恩愿——愿您就安住于此林伽之中,作为我城前的神圣临在。”
Verse 95
यस्तु स्वायंभुवं लिंगं वामने नगरे मम । पूजयिष्यति ब्रह्मघ्नो गोघ्नो वा बालघातकः
凡在我之婆摩那城礼敬自现(svayambhū)之林伽者——纵使是杀婆罗门者、杀牛者,或杀害幼童者——
Verse 96
गुरुद्रोही स्वर्णचोरो मुच्यते सर्वपातकैः । निर्दोषः पूजयेद्यस्तु सकृत्सोमेश्वरं हरम्
背叛师尊者与盗金者,皆得解脱一切罪垢。又凡心无诡诈、仅一次礼敬娑摩伊湿伐罗(Someśvara)——哈罗(湿婆)者,
Verse 97
मृतो विमानमारुह्य दिव्यस्त्रीपरिवेष्टितः । संस्तूयमानो दिक्पालैर्यातु स्वर्गे शिवालये
其人命终之时,愿登天界宝车,众天女环侍;为诸方护世者所赞颂,愿其往生天界——至湿婆之圣居。
Verse 98
ब्रह्मलोकमतिक्रम्य रुद्रलोके स गच्छतु । तथेत्युक्त्वा सोमनाथस्तत्रैवान्तरधीयत
“超越梵天之界,令其往至鲁陀罗之境。”说罢“如是”,娑摩那他(Somnātha)即于彼处隐没不现。
Verse 99
प्रकाश्य वामनो लिगं सोमनाथं स्वयंभुवम् । प्राप्तज्ञानो लब्धवृद्धिर्ययौ द्रष्टुं भवं हरम्
显现娑摩那他自生之林伽后,婆罗门瓦摩那——已得真实智慧并增长灵性功德——遂前往瞻礼婆伐(Bhava)、哈罗主(湿婆)。
Verse 100
गंगाद्याः सरितः सर्वाः स्वर्णरेखाजले स्थिताः । एतां सोमेश्वरोत्पत्तिं ये शृण्वंति नराः स्त्रियः । सर्वपापक्षयस्तेषां जायते नात्र संशयः
一切河流——以恒河为首——皆汇现于金线河(Svarṇarekhā)之水中。凡男女听闻月主自在天(Someśvara)起源之事者,其罪业尽灭;对此毫无疑惑。