Adhyaya 33
Mahesvara KhandaKedara KhandaAdhyaya 33

Adhyaya 33

本章开端,诸仙人请罗摩沙(Lomāśa)说明一位基拉塔/猎人之身份及其誓行。罗摩沙叙述旃陀(Caṇḍa,亦名普什迦塞那 Puṣkasena)的故事:其人凶暴悖德,以狩猎残害众生为业。于摩伽月(Māgha)黑半月第十四夜(kṛṣṇapakṣa-caturdaśī),他伏于树上伺机射杀野猪;其间无意割落毕尔瓦叶(bilva),又有口中之水滴落树下林伽(liṅga)。因缘巧合,这些举动竟成了为林伽沐浴(liṅga-snapana)与以毕尔瓦供养(bilva-arcana),而他整夜不眠也就成了湿婆夜(Śivarātri)的守夜。 随后写到家中一段:其妻甘诺达丽/旃底(Ghanodarī/Caṇḍī)彻夜忧惧,后在河边寻得丈夫并送来食物;却被狗吃尽,引发其怒。普什迦塞那以无常之理劝诫,令自己放下傲慢与嗔恚,使当夜的守夜与斋戒更添道德教化之力。 临近新月(amāvasyā)时,湿婆的众伽那乘天车(vimāna)而至,宣说他这场“无心”的湿婆夜供奉已结成业果,使其得亲近湿婆。普什迦塞那疑惑罪业猎人何以获此;毗罗跋陀罗(Vīrabhadra)阐明其机理:湿婆夜之毕尔瓦供叶、通宵守夜与禁食(upavāsa)最为悦意湿婆。继而本章展开历法与宇宙论教示:梵天(Brahmā)建立时间之轮(kālacakra)、诸日分(tithi)的结构,以及为何黑半月第十四日并具午夜时分(niśītha)即为湿婆夜;此日能灭罪并赐与湿婆同一(Śiva-sāyujya)。又举第二例:一位德行败落者仅因在湿婆圣所附近度过湿婆夜并保持清醒,得更胜之生,终以持续的湿婆信奉而证解脱。章末称述湿婆夜誓行历代多有灵验,并回到湿婆与帕尔瓦蒂(Pārvatī)神圣嬉戏之景。

Shlokas

Verse 1

ऋषय ऊचुः । किन्नामा च किरातोऽभूत्किं तेन व्रतमाहितम् । तत्त्वं कथय विप्रेंद्र परं कौतूहलं हि नः

诸仙人说道:“那位基拉塔名为何?他受持了何等誓愿?噢,婆罗门中最胜者,请为我们宣说真实;我们的好奇实在深切。”

Verse 2

तत्सर्वं श्रोतुमिच्छामो याथातथ्येन कथ्यताम् । न ह्यन्यो विद्यते लोके त्वद्विना वदतां वरः । तस्मात्कथ भो विप्र सर्वं शुश्रूषतां हि नः

我们愿闻其详;请如实、如其所然地宣说。在此世间,除你之外,再无更胜的说法者。因此,噢,婆罗门,请尽皆讲述;我们正恭敬渴听。

Verse 3

एवमुक्तस्तदा तेन शौनकेन महात्मना । कथयामास तत्सर्वं पुष्कसेन कृतं यत्

当时他被大德绍那迦如此发问,便将普什迦塞那所行之事,悉皆详尽宣说。

Verse 4

लोमश उवाच । आसीत्पुरा महारौद्रश्चडोनाम दुरात्मवान् । क्रूरसंगो निष्कृतिको भूतानां भयवाहकः

罗摩沙说道:久远以前,有一恶人名叫遮陀(Caḍa),性情凶暴残忍;常与恶党为伍,拒绝一切忏悔赎罪,遂成众生之恐惧之源。

Verse 5

जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं खलु । भल्लैर्मृगाञ्छापदांश्च कृष्णसारांश्च शल्लकान्

那心怀恶念之人,确实不停以网捕杀群鱼;又以箭矢射杀鹿类、野兽、黑羚(kṛṣṇasāra)以及豪猪。

Verse 6

खड्गांश्चैव च दुष्टात्मा दृष्ट्वा कांश्चिच्च पापवान् । पक्षिणोऽघातयत्क्रुद्धो ब्राह्मणांश्च विशेषतः

那作恶的罪人,见到某些犀牛(khaḍga)也照杀不误;又在嗔怒中击杀飞鸟——甚至尤其专门加害婆罗门。

Verse 7

लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः । भार्या तथाविधआ तस्य पुष्कसस्य महाभया

因为他本是猎人:大罪深重,品行败坏,喜与恶人相亲。他的妻子亦复如是——普什迦娑(Puṣkasa/Puṣkasena)之妇,令人极其恐惧。

Verse 8

एवं विहरतस्तस्य बहुकालोत्यवर्तत । गते बहुतिथेकाले पापौघनिरतस्य च

他如此度日,漫长岁月便流逝而去。及至许多日子过去,他仍全然沉溺于罪业的洪流之中。

Verse 9

निषंगे जलमादाय क्षुत्पिपासार्द्दितो भृशम् । एकदा निशि पापीयाच्छ्रीवृक्षोपरि संस्थितः । कोलं हंतुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि

他在箭囊中携水,饥渴逼迫至极;那罪人曾于夜间坐在圣树Śrīvṛkṣa之上。手执弓矢,目不瞬而守候,只为猎杀野猪。

Verse 10

माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः । मृगमार्गविलोकार्थी बिल्वपत्राण्यपातयत्

随后在摩伽月黑半月的第十四日,他向前窥察兽径之时,使毕罗瓦(bilva)叶纷纷坠落。

Verse 11

श्रीवृक्षपर्णानि बहूनि तत्र स च्छेदयामास रुषान्वितोपि । श्रीवृक्षमूले परिवर्तमाने लिंगं तस्योपरिदृष्टभावः

在那里,他虽怀嗔怒,仍砍落许多圣树Śrīvṛkṣa之叶。及至在树根附近挪动之时,他在身下望见一座林伽(liṅga)。

Verse 12

ववर्ष गंडूषजलं दुरात्मा यदृच्छया तानि शिवे पतंति । श्रीवृक्षपर्णानि च दैवयोगाज्जातं च सर्वं शिवपूजनं तत्

那恶人吐落口中含水(gaṇḍūṣa),偶然之间,这些供献竟落在湿婆身上。又因天命之转,Śrīvṛkṣa之叶亦尽皆化作对湿婆的礼拜供养。

Verse 13

गंडूषवारिणा तेन स्नपनं च कृतं महत् । बिल्वपत्रैरसंख्यातैरर्चनं महत्कृतम्

以口中所含之水,他成就了丰盛的灌沐(abhiṣeka);又以无量毕罗瓦叶,完成了宏大的供奉礼拜(arcana)。

Verse 14

अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना । माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये

诸位婆罗门啊,即便在无知之中——因那心性邪恶的普什迦塞那所致——此事发生在摩伽月的黑半月,第十四日月相之时,正当月轮升起。

Verse 15

पुष्कसोऽथ दुराचारो वॉक्षादवततार सः । आगत्य जलसंकाशं मत्स्यान्हंतुं प्रचक्रमे

随后,那行径恶劣的普什迦萨从树上爬下;来到如水般铺展的水域,他便开始屠杀群鱼。

Verse 16

लुब्ध कस्यापि भार्याभून्नाम्ना चैव घनोदरी । दुष्टा सा पापनिरता परद्रव्यापहारिणी

有一位猎人,其妻名为伽诺达丽;她心性败坏,沉溺罪业,并盗取他人财物。

Verse 17

गृहान्निर्गत्य सायाह्ने पुरद्वारबहिः स्थिता । वनमार्गं प्रपश्यंती पत्युरागमनेच्छया

傍晚时分,她离家而出,立于城门之外,遥望通往森林的小径,渴盼丈夫归来。

Verse 18

चिराद्भर्तरी नायाते चिन्तयामास लुब्धकी । अद्य सायाह्नवेलायामागताः सर्वलुब्धकाः

丈夫久候不至,猎人之妻便忧思起来:“今日到了傍晚时分,诸猎人都已归来。”

Verse 19

तमः स्तोमेन संछन्नाश्चतस्रो विदिशो दिशः । रात्रौ यामद्वयं यातं किं मतंगः समागतः

四方皆为重重黑暗所覆。夜已过两更——莫非有大象前来撞上了他?

Verse 20

किं वा केसरलोभेन सिंहेनैव विदारितः । किं भुजंगफणारत्नहारी सर्पविषार्दितः

或是被贪恋鬃毛的狮子撕裂?或是为蛇毒所苦——那夺取蛇冠宝珠之人?

Verse 21

किं वा वराहदंष्ट्राग्रघातैः पंचत्वमागतः । मधुलोभेन वृक्षाग्रात्स वै प्रपतितो भुवि

或是被野猪獠牙尖端的撞击而丧命?或因贪蜜,自树梢坠落于地?

Verse 22

क्वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति । एवं विलप्य बहुधा निवृत्ता स्वं गृहं प्रति

“我当往何处寻?我当问何人?我当去向何方,又投奔谁?”——她如此多般哀诉,终转身回到自家。

Verse 23

नैवान्नं नो जलं किंचिन्न भुक्तं तद्दिने तया । चिंतयंती पतिं चापि लुब्धकी त्वयन्निशाम्

那一日,那女猎者全然未食——无粮亦无水。她唯念其夫,在忧惧的守候中度过长夜。

Verse 24

अथ प्रभाते विमले पुष्कसी वनमाययौ । अशनार्थं च तस्यान्नमादाय त्वरिता सती

在清净的黎明时分,那位女猎人走入森林。她携带为丈夫备下的食物,贤德的女子匆匆前行。

Verse 25

भ्रममाणावने तस्मिन्ददर्श महतीं नदीम् । तस्यास्तीरे समासीनं स्वपतिं प्रेक्ष्य हर्षिता

她在那片森林中徘徊时,看见一条大河。于河岸边,她望见自己的丈夫端坐其上,心中欢喜充满。

Verse 26

तदन्नं कूलनः स्थाप्य नदीं तर्तुं प्रचक्रमे । निरीक्ष्य चाथ मत्स्यान्स जालप्रोतान्समानयत्

他把那食物放在河岸上,便开始渡河。随后环顾四周,将牢牢缠在网中的鱼一一收拢。

Verse 27

तावत्तयोक्तश्चण्डोऽसावेहि शीघ्रं च भक्षय । अन्नं त्वदर्थमानीतमुपोष्य दिवसं मया

于是她对旃陀说道:“快来用食吧。我为你带来这份食物,我已整日斋戒。”

Verse 28

कृतं किमद्य रे मंद गतेऽहनि च किं कृतम् । नाऽशितं च त्वया मूढ लंघितेनाद्य पापिना

“你这迟钝之人,今日做了什么——日已将尽,你成就了什么?你竟全然未食,愚人啊;今日你已越矩,招致罪咎。”

Verse 29

नद्यां स्नातौ तथा तौ च दम्पती च शुचि व्रतौ । यावद्गतश्च भोक्तुं स तावच्छ्वा स्वयमागतः

于是夫妻二人在河中沐浴,皆守清净誓戒。正当他前去用食之时,一只狗竟自行来到那里。

Verse 30

तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि । चंडी प्रकुपिता चैव श्वानं हंतुमुपस्थिता

那只狗果然独自把那食物全都吃尽。旃荼底(Caṇḍī)勃然大怒,上前欲杀此犬。

Verse 31

आवयोर्भक्षितं चान्नमनेनैव च पापिना । किं च भक्षयसे मूढ भविताद्य वुभुक्षितः

“这罪孽之徒竟吃了原本给我们二人的食物!你这愚人,如今你要吃什么?今日你必定挨饿。”

Verse 32

एवं तयोक्तश्चण्डोऽसौ बभाषे तां शिवप्रियः । यच्छुना भक्षितं चान्नं तेनाहं परितोषितः

被如此责问后,旃荼——为湿婆所钟爱者——对她说道:“那被狗吃下的食物,正因如此便使我心满意足。”

Verse 33

किमनेन शरीरेण नश्वरेण गतायुषा । शरीरं दुर्लभं लोके पूज्यते क्षणभंगुरम्

这具无常之身、寿命已在流逝,又有何用?纵然人身在世间难得,终究刹那脆弱,转瞬即坏。

Verse 34

ये पुष्णंति निजं देहं सर्वभावेन चाहताः । मूढास्ते पापिनो ज्ञेया लोकद्वयबहिष्कृताः

那些在诸般苦迫之中,仍以全然执著只滋养自身之躯者——当知彼等愚迷而有罪,被摒弃于两界(此世与来世)之外。

Verse 35

तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम् । स्वस्था भव विमर्शेन तत्त्वबुद्ध्या स्थिरा भव

因此,当舍弃傲慢与难以抑制的嗔怒。以审思观照而令内心安住;以洞见真理之慧,坚固而立。

Verse 36

बोधिता तेन चंडी सा पुष्कसेन तदा भृशम् । जागरादि च संप्राप्तः पुष्कसोऽपि चतुर्दशीम्

其时,旃提(Caṇḍī)被他——普什迦塞那(Puṣkasena)——强力唤醒。普什迦萨(Puṣkasa)亦于月之第十四日修持守夜等诸般戒行。

Verse 37

शिवरात्रिप्रसंगाच्च जायते यद्ध्यसंशयम् । तज्ज्ञानं परमं प्राप्तः शिवरात्रिप्रसंगतः

由亲近并奉行湿婆夜(Śivarātri)之法,毫无疑问,会生起真正能转化身心之觉知;正因那次湿婆夜的因缘,他证得了至上之智。

Verse 38

यामद्वयं च संजातममावास्यां तु तत्र वै । आगताश्च गणास्तत्र बहवः शिवनोदिताः

在那里,于无月之夜,当夜间两更已过,众多伽那(gaṇa)来到此处,乃湿婆所遣。

Verse 39

विमानानि बहून्यत्र आगतानि तदंतिकम् । दृष्टानि तेन तान्येव विमानानि गणास्तथा

彼处有无数天界飞车(vimāna)近前而来。他亲见那些vimāna,也见到诸多伽那(gaṇa)随众。

Verse 40

उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति । कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः

这时,Puṣkasa怀着至上的虔敬对他们说道:“你们诸位皆佩戴鲁陀罗叉念珠(rudrākṣa),为何一同来到此处?”

Verse 41

विमानस्थाश्च केचिच्च वृषारूढाश्च केचन । सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्द्धशेखराः

有的端坐于vimāna之中,有的骑乘神牛。众皆晶莹如水晶,众皆冠上饰以新月。

Verse 42

कपर्द्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः । श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतात्मनोचितम्

噢,结发披髻者,身披兽皮者,以盘蛇为项链与饰物者;光辉具足,勇力与鲁陀罗无二者——请如实道来,述说你们自身所当说之事。

Verse 43

पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्पदाः । रुद्रस्य देवदेवस्य संनम्राः कमलेक्षणाः

当Puṣkasa如此发问时,鲁陀罗的一切侍从——在诸神之神、莲华眼者前恭敬俯首——便开口作答。

Verse 44

गणा ऊचुः । प्रेषिताः स्मो वयं चंड शिवेन परमेष्ठिना । आगच्छ त्वरितो भुत्वा सस्त्रीको या नमारुह

众伽那说道:“嗟,凶猛者!我等奉至上主湿婆之命而来。速速前来——携汝妻同至——勿登乘骑;即刻来见。”

Verse 45

लिंगार्च्चनं कृतं यच्च त्वया रात्रौ शिवस्य च । तेन कर्मविपाकेन प्राप्तोऽसि शिवसन्निधिम्

因汝夜间礼拜湿婆之林伽,凭此业之成熟,汝今已得至湿婆座前。

Verse 46

तथोक्तो वीरभद्रेण उवाच प्रहसन्निव । पुष्कसोऽपि स्वया बुद्ध्या प्रस्तावसदृशं वचः

维罗跋陀罗如此言毕,普什迦娑仿佛微微含笑,凭自身领悟,说出契合当时的言辞。

Verse 47

पुष्कस उवाच । किं मया कृतमद्यैव पापिना हिंसकेन च । मृगयारसिकेनैव पुष्कसेन दुरात्मना

普什迦娑说道:“今日我这罪人、暴行之徒、嗜猎成癖者、心性邪恶的普什迦娑,又能行得何等善业?”

Verse 48

पापाचारो ह्यहं नित्यं कथं स्वर्गं व्रजाम्यहम् । कथं लिंगार्चनमिदं कृतमस्ति तदुच्यताम्

“我行止恒常罪恶,怎能往生天界?而这林伽之礼拜,我又是如何做成的?请为我明示。”

Verse 49

परं कौतुकमापन्नः पृच्छामि त्वां यथातथम् । कथयस्व महाभाग सर्वं चैव यथाविधि

我心怀极大的惊异,便直言向你请问。噢有福者,请将一切如实道来,依其正当次第而说。

Verse 50

इत्येवं पृच्छतस्तस्य पुष्कसस्य यथाविधि । कथयामास तत्सर्वं शिवधर्म मुदान्वितः

于是,当普什迦萨依礼而问时,他欢喜地为其详说了全部的“湿婆法”(Śiva-dharma)教义。

Verse 51

वीरभद्र उवाच । देवदेवो महादेवो देवानां पतिरीश्वरः । परितुष्टोऽद्य हे चंड स महेश उमापतिः

毗罗跋陀罗说道:“诸神之神大天(Mahādeva),天众之主与统御者——摩醯湿(Maheśa),乌玛之夫——今日已然欢喜,噢凶猛者!”

Verse 52

प्रासंगिकतया माघे कृतं लिंगार्चनं त्वया । शिवतुष्टिकरं चाद्य पूतोऽसि त्वं न संशयः । शिवरात्र्यां प्रसंगेन कृतमर्चनमेव च

恰逢其时,在摩伽月你曾礼拜林伽。此举令湿婆欢喜;因此今日你已得清净,毫无疑虑。并且在湿婆夜(Śivarātri)之时,也因缘际会,确已行过供奉。

Verse 53

कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि । च्छेदितानि त्वया चंड पतितानि तदैव हि । लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो

噢旃陀!当你注视野猪之时,你割下的毕婆叶(bilva)立刻坠落在湿婆林伽之顶。因这一举动,噢主啊,你已成就福德之人。

Verse 54

ततश्च जागरो जातो महान्वृक्षोपरि ध्रुवम् । तेनैव जागरेणैव तुतोष जगदीश्वरः

随后,他确实在树上生起了盛大的守夜不眠;唯以此守夜,诸世界之主便心生欢喜。

Verse 55

छलेनैव महाभाग कोलसंदर्शनेन हि । शिवरात्रिदिने चात्र स्वप्नस्ते न च योषितः

噢,有福之人!只因一个缘由——确实因见到野猪——就在这湿婆夜之日,你既无睡眠,也无与女子相伴。

Verse 56

तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा । तव प्रसादाय महानुभावो ददाति सर्वान्वरदो महांश्च

因那斋戒与守夜,那位大魂、诸神中最胜者确实欢喜。为赐你恩泽,那威德宏大的施愿之主,赐与一切所求之福。

Verse 57

एवमुक्तस्तदा तेन वीरभद्रेण धीमता । पुष्कसोऽपि विमानाग्र्यमारुहोह च पश्यताम्

当时他被智者毗罗跋陀如此告知后,普什迦萨也在众目睽睽之下登上了最殊胜的天车。

Verse 58

गणानां देवतानां च सर्वेषां प्राणिनामपि । तदा दुंदुभयो नेदुर्भेर्यस्तूर्याण्यनेकशः

于是,为诸伽那、诸天神以及一切众生,战鼓轰鸣;各类鼓与号角也多番齐奏。

Verse 59

वीणावेणुमृदंगानि तस्य चाग्रे गतानि च । जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः

维那琴、笛与姆里当伽鼓在他前方开道;乾闼婆之首领歌唱,众天女阿普萨罗群起而舞。

Verse 60

विद्याधरगणाः सर्वे तुष्टुवुः सिद्धचारणाः । चामरैवर्वीज्यमानो हि च्छत्रैश्च विविधैरपि । महोत्सवेन महता आनीतो गंधमादनम्

一切持明众皆赞颂他,诸悉达与查罗那亦同声称扬;以拂尘轻扇相侍,又以种种华盖致敬,在盛大庆典中迎至甘达摩达那。

Verse 61

शिवसान्निध्यमागच्चंडोसौ तेन कर्मणा । शिवरात्र्युपवासेन परं स्थानं समागमत्

凭此善行,旃陀得至湿婆亲临之处;又以守持湿婆夜斋戒,证得至上之境。

Verse 62

पुष्कसोऽपि तथा प्राप्तः प्रसंगेन सदाशिवम् । किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने

即便是补湿迦娑,也仅因因缘相随而得至常住湿婆;更何况具足信心、归依湿婆——至上真我者,又将得何等果报!

Verse 63

पुष्पादिकं फलं गंधं तांबूलं भक्ष्यमृद्धिमत् । ये प्रयच्छंति लोकेऽस्मिन्रुद्रास्ते नात्र संशयः

在此世间,凡奉献花、果、香、槟榔叶(tāmbūla)与丰盛饮食者——当知其真为鲁陀罗;对此毫无疑惑。

Verse 64

चंडेन वै पुष्कसेन सफलं तस्य चाभवत् । प्रसंगेनापि तेनैव कृतं तच्चाल्पबुद्धिना

确实,由旃陀(亦名普什迦塞那)所作之事,对他而言竟成就其果。纵然那愚昧之人只是偶然为之,仍然结出果报。

Verse 65

ऋषय ऊचुः । किं फलं तस्य चोद्देशः केन चैव पुना कृतम् । कस्माद्व्रतमिदं जातं कृतं केन पुरा विभो

诸仙人说道:“此法之果报为何?其所指之旨意为何?又是谁再度奉行?此戒行(vrata)因何缘起,古昔之时又是谁所行,噢,尊者?”

Verse 66

लोमश उवाच । यदा सृष्टं जगत्सर्वं ब्रह्मणा परमेष्ठिना । कालचक्रं तदा जातं पुरा राशिमन्विताम्

罗摩沙说道:“当至上之梵天(Parameṣṭhin)创造一切宇宙之时,远古便生起了时间之轮,具足黄道诸分区。”

Verse 67

द्वादश राशयस्तत्र नक्षत्राणि तथैव च । सप्तविंशतिसंख्यानि मुख्यानि सिद्धये

其中有十二宫(黄道诸相),亦有宿曜——二十七宿——主要设立,以统摄时序中的成就与效验。

Verse 68

एभिः सर्वं प्रचंडं च राशिभिरुडुभिस्तथा । कालचक्रान्वितः कालः क्रीडयन्सृजते जगत्

凭借这些——诸黄道之相与诸宿曜——时间与时间之轮相合,宛如神圣的游戏,生出宇宙万象,雄浑而多姿。

Verse 69

आब्रह्मस्तंबपर्यंतं सृजत्य वति हंति च । निबद्धमस्ति तेनैव कालेनैकेन भो द्विजाः

自梵天(Brahmā)以至一茎微草,唯有时(Kāla)能生、能持、能灭。此一切皆为那唯一之时所系缚,噢诸位二生圣贤。

Verse 70

कालो हि बलवांल्लोके एक एव न चापरः । तस्मात्कालात्मकं सर्वमिदं नास्त्यत्र संशयः

世间唯有时(Kāla)具大威力,别无他者。故此此处万有皆具时之性相,于此毫无疑惑。

Verse 71

आदौ कालः कालनाच्च लोकनायकनायकः । ततो लोका हि संजाताः सृष्टिश्च तदनंतरम्

太初唯有时与计时之法;时成为世间诸王之王。其后诸世界方得出生,创造亦随即而起。

Verse 72

सृष्टेर्लवो हि संजातो लवाच्च क्षणमेव च । क्षणाच्च निमिषं जातं प्राणिनां हि निरंतरम्

由创造生出名为“拉瓦”(lava)之时分;由拉瓦生“刹那”(kṣaṇa);由刹那生“尼米沙”(nimiṣa,一瞬眨眼)——对众生而言,绵延不绝。

Verse 73

निमिषाणां च षष्ट्या वै फल इत्यभिधीयते । पंचदश्या अहोरात्रैः पक्षैत्यभिधीयते

六十个尼米沙(眨眼)称为“法拉”(phala)这一时量;十五个昼夜(ahorātra)称为“帕克沙”(pakṣa),即半月。

Verse 74

पक्षाभ्यां मास एव स्यान्मासा द्वादश वत्सरः । तं कालं ज्ञातुकामेन कार्यं ज्ञानं विचक्षणैः

两半月(两旬)合成一月,十二月合成一年。故欲明了时序者,当以明辨之智修习此知。

Verse 75

प्रतिपद्दिनमारभ्य पौर्णमास्यंतमेव च । पक्षं पूर्णो हि यस्माच्च पूर्णिमेत्यभिधीयते

自初一(Pratipad)起,直至满月日(Paurṇamāsī)。因这一半月渐成“圆满”(pūrṇa),故称为“Pūrṇimā”,即满月。

Verse 76

पूर्णचंद्रमसी या तु सा पूर्णा देवताप्रिया । नष्टस्तु चंद्रो यस्यां वा अमा सा कथिता बुधैः

月轮圆满之夜,名为“Pūrṇā”,为诸天所喜;月隐不见之夜,智者称为“Amā”(Amāvāsyā,新月夜)。

Verse 77

अग्निष्वात्तादिपितॄणां प्रियातीव बभूव ह । त्रिंशद्दिनानि ह्येतानि पुण्यकालयुतानि च । तेषां मध्ये विशेषो यस्तं श्रृणुध्वं द्विजोत्तमाः

这些日子极为诸祖灵(Pitṛ),如阿耆尼湿伐多(Agniṣvātta)等所喜。此三十日亦具吉祥功德之时(puṇya-kāla)。其中另有一项特别差别——诸位最胜二生者啊,请听我说。

Verse 78

योगानां वा व्यतीपात ऊडूनां श्रवणस्तथा । अमावास्या तिथीनां च पूर्णिमा वै तथैव च

诸瑜伽之中,以“Vyatīpāta(交食相冲)”为尤胜;诸宿(nakṣatra)之中,“Śravaṇa(闻宿)”亦然。诸月日(tithi)之中,Amāvāsyā(新月)与 Pūrṇimā(满月)同为圣日。

Verse 79

संक्रांतयस्तथाज्ञेयाः पवित्रा दानकर्मणि । तथाष्टमी प्रिया शंभोर्गणेशस्य चतुर्थिका

诸次 Saṅkrānti(太阳入宫之时)亦当知为行布施之业的净化时日。Aṣṭamī(月八日)为 Śambhu(湿婆)所喜,Caturthī(月四日)为 Gaṇeśa(象头神)所喜。

Verse 80

पञ्चमी नागराजस्य कुमारस्य च षष्ठिका । भानोश्च सप्तमी ज्ञेया नवमी चण्डिकाप्रिया

Pañcamī(初五)属那伽之王;Ṣaṣṭhī(初六)属童子神 Kumāra(斯坎达)。Saptamī(初七)当知属 Bhānu(太阳神),而 Navamī(初九)为 Caṇḍikā 所喜。

Verse 81

ब्रह्मणो दशमी ज्ञेया रुद्रस्यैकादशी तथा । विष्णुप्रिया द्वादशी च अंतकस्य त्रयोदशी

Daśamī(初十)当知属梵天 Brahmā;Ekādaśī(十一日)亦属鲁陀罗 Rudra。Dvādaśī(十二日)为毗湿奴 Viṣṇu 所喜,而 Trayodaśī(十三日)属 Antaka(死神)。

Verse 82

चतुर्द्दशी तथा शंभोः प्रिया नास्त्यत्र संशयः । निशीथसंयुता या तु कृष्णपक्षे चतुर्द्दशी । उपोष्या सा तिथिः श्रेष्ठा शिवसायुज्यकारिणी

同样,Caturdaśī(十四日)为 Śambhu(湿婆)所爱,此中毫无疑惑。然于黑半月(Kṛṣṇa-pakṣa)之 Caturdaśī,若与午夜相应,当守斋戒(upavāsa);此日最为殊胜,能赐与湿婆合一(sāyujya)。

Verse 83

शिवरात्रितिथिः ख्याता सर्वपापप्रणाशिनी । अत्रैवोदाहरंतीममितिहासं पुरातनम्

Śivarātri 之月日(tithi)素称能灭除一切罪业。就在此处,我将引述一则古老的圣传(itihāsa)以为明证。

Verse 84

ब्राह्मणी विधवा काचित्पुरा ह्यासीच्च चंचला । श्वपचाभिरता सा च कामुकी कामहेतुतः

往昔有一位婆罗门女子,寡居而行止轻浮。为欲火所驱,她迷恋并依附于一名“湿婆帕迦”(śvapaca,贱民、煮狗肉者),只为情欲而沉溺。

Verse 85

तस्यां तस्य सुतो जातः श्वपचस्य दुरात्मनः । दुः सहो दुष्टनामात्मा सर्वधर्मबहिष्कृतः

由她生下一个儿子,是那恶心的湿婆帕迦之子。他令人难以忍受,性情与名声皆恶,被排除在一切正法善行之外。

Verse 86

महापापप्रयोगाच्च पापमारभते सदा । कितवश्च सुरापायी स्तेयी च गुरुतल्पगः

因沉溺于大罪,他常常发动恶行:嗜赌、饮酒、偷盗,甚至玷污师长之床——极重的罪过。

Verse 87

मृगयुश्च दुरात्मासौ कर्मचण्डाल एव सः । अधर्मिष्ठो ह्यसद्वृत्तः कदाचिच्च शिवालयम् । शिवरात्र्यां च संप्राप्तो ह्युषितः शिवसन्निधौ

那心怀恶念之人亦是猎者;以其所作,实为“旃陀罗”(caṇḍāla)。他最为不义、行止卑劣;然而有一次他来到湿婆神庙,并在湿婆夜(Śivarātri)之夜到达,停宿于湿婆近前。

Verse 88

श्रवणं शैवशास्त्रस्य यदृच्छाजातमंतिके । शिवस्य लिंगरूपस्य स्वयंभुवो यदा तदा

在那里,近旁之处,他纯属偶然地听闻了湿婆派经典的教诲;而就在那时,他也靠近湿婆自现(svayambhū)的林伽之相。

Verse 89

स एकत्रोषितो दुष्टः शिवरात्र्यां तु जागरात् । तेन कर्मविपाकेन पुण्यां योनिमवाप्तवान्

虽为恶人,他仍在彼处安住不移,于湿婆夜(Śivarātri)守夜不眠。以此业果成熟,得生于清净善趣。

Verse 90

भुक्त्वा पुण्यतामांल्लोकानुषित्वा शाश्वतीः समाः । चित्रांगदस्य पुत्रोभूद्भूपालेश्वरलक्षणः

享受至福功德之诸界,并在彼处住经无量岁月之后,他转生为质多罗昂伽陀(Citrāṅgada)之子,具足王者之相。

Verse 91

नाम्ना विचित्रवीर्योऽसौ सुभगः संदुरी प्रियः । राज्यं महत्तरं प्राप्य निःस्तंभो हि महानभूत्

他名为毗奇特罗毗梨耶(Vicitravīrya),福相具足,众人爱敬。得广大国土之后,他真正成就伟大,心无傲慢。

Verse 92

शिवे भक्तिं प्रकुर्वाणः शिवकर्मपरोऽभवत् । शैवशास्त्रं पुरस्कृत्य शिवपूजनतत्परः । रात्रौ जागरणं यत्नात्करोति शिवसन्निधौ

他培植对湿婆的虔敬,专注于一切以湿婆为本的行持。尊奉湿婆派经典,专心礼拜湿婆,并在主前勤修夜间守 vigil。

Verse 93

शिवस्य गाथा गायंस्तु आनंदाश्रुकणान्मुहुः । प्रमुंचंश्चैव नेत्राभ्यां रोमांचपुलकावृतः

他歌唱湿婆的赞颂之辞,屡屡洒下喜悦之泪;双目泪流不止,周身因法喜而毛发竖立、战栗充满。

Verse 94

आयुष्यं च गतं तस्य शिवध्यानपरस्य च । शिवो हि सुलभो लोके पशूनां ज्ञाननिनामपि

纵然他的寿命渐渐消逝,他仍全心安住于对湿婆(Śiva)的禅观;因为在此世间,湿婆确实易于证得——即便是被系缚的众生,乃至智慧浅薄者亦然。

Verse 95

संसेवितुं सुखप्राप्त्यै ह्येक एव सदाशिवः । शिवरात्र्युपवासेन प्राप्तो ज्ञानमनुत्तमम्

为求真实安乐,当奉事的唯有独一的常住吉祥者——萨达湿婆(Sadāśiva)。他以守持湿婆夜(Śivarātri)斋戒,而得无上灵知。

Verse 96

ज्ञानात्सर्वमनुप्राप्तं भूतसाम्यं निरंतरम् । सर्वभूतात्मकं ज्ञात्वा केवलं च सदा शिवम् । विना शिवेन यत्किंचिन्नास्ति वस्त्वत्र न क्वचित्

由此智慧,他通达一切——对一切众生生起不断的平等心。了知万有之我即是独一、常恒的湿婆,他明白:离开湿婆,在此境界中无论何处都绝无任何事物可得。

Verse 97

एवं पूर्णं निष्प्रपंचं ज्ञानं प्राप्नोति दुर्लभम् । प्राप्तज्ञानस्तदा राजा जातो हि शिववल्लभः

于是他证得了稀有而圆满、超越世间缠缚的智慧。得此智慧之后,那位国王确实成为湿婆所钟爱之人。

Verse 98

मुक्तिं सायुज्यतां प्राप्तः शिवरात्रेरुपोषणात् । तेन लब्धं शिवाज्जन्म पुरा यत्कथितं मया

因守持湿婆夜(Śivarātri)斋戒,他获得解脱(mukti),以“萨尤吉亚”(sāyujya)之相与湿婆合一。由此他得到了湿婆所赐之生,如我先前所叙述。

Verse 99

दाक्षायणीवीयो गाच्च जटाजूटेन विस्तरात् । य उत्पन्नो मस्तकाच्च शिवस्य परमात्मनः । वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः

从至上自性之主湿婆那广阔的结发(jaṭā-jūṭa)中,为达克沙耶妮而涌现出一位大勇士。此者生自湿婆之首,名闻为“毗罗跋陀罗”(Vīrabhadra),乃摧毁达克沙祭祀者。

Verse 100

शिवरात्रिव्रतेनैव तारिता बहवः पुरा । प्राप्ताः सिद्धिं पुरा विप्रा भरताद्याश्च देहिनः

唯凭守持“湿婆夜”(Śivarātri)之誓戒,古时许多人得以渡越轮回(saṃsāra)。往昔,婆罗门以及如婆罗多(Bharata)等具身众生,皆证得悉地(siddhi)之成就。

Verse 101

मांधाता धुन्धुमारिश्च हरिश्चन्द्रादयो नृपाः । प्राप्ताः सिद्धिमनेनेव व्रतेन परमेण हि

曼陀陀(Māndhātā)、敦敦摩利(Dhundhumāri)、诃利施旃陀罗(Hariścandra)等诸王,皆由此至上誓戒而得悉地成就。

Verse 102

ततो गिरीशो गिरिजासमेतः क्रीडान्वितोऽसौ गिरिराजमस्तके । द्यूतं तथैवाक्षयुतं परेशो युक्तो भवान्या स भृशं चकार

其后,山主吉利沙(湿婆)与山女吉利迦(帕尔瓦蒂)同在,于群山之王的峰顶欢然嬉戏。至上主与婆伐尼相伴,执骰子方块,兴致炽盛地掷骰而戏。