Adhyaya 31
Mahesvara KhandaKedara KhandaAdhyaya 31

Adhyaya 31

本章分三段相续展开。其一,绍那迦询问:迦尔蒂凯亚(库玛罗)诛灭塔拉卡之后,后事如何。罗摩沙答以赞颂“库玛罗之理”,称其达尔善那(圣见、亲睹圣容)能立刻净化众生,乃至被世俗轻贱者亦得清净,由此显明功德不系于门第与名分。 其二,阎摩以法王之身,与梵天、毗湿奴同诣商羯罗,称颂其为“胜死者”(Mṛtyuñjaya)等,并陈一忧:迦尔蒂凯亚之达尔善那似乎广开天界之门,连罪人亦可入。湿婆以业力相续与内心倾向释之:骤然清净乃久积之萨姆斯卡拉(习气、印记)与前世修持所致;圣地(tīrtha)、祭祀(yajña)、布施(dāna)仍为净心之方便。继而宣说偏向不二(advaita)的深密教诲:真我超越三德(guṇa)与二元对待;摩耶乃误认,如贝壳当银、绳索当蛇;舍离“我所”(mamatā)与诸欲染,方得解脱。又略论言语(śabda)之限与可知之境,归结于闻、思、择慧之道。 其三,塔拉卡既亡,群山齐颂迦尔蒂凯亚;他赐愿令诸山化为林伽之形,成为未来湿婆之住处,并列举著名山系。难陀因问林伽供奉之法,迦尔蒂凯亚分别宝石与金属所成之林伽,推重若干圣处,并详说那尔摩达河(Reva)所出之婆那林伽(bāṇa-liṅga),嘱其慎重安置与礼拜。章末以偈相连:持诵五字真言(pañcākṣarī)、摄心内收、平等视一切众生与持戒自制,皆为修行之标志。

Shlokas

Verse 1

शोनक उवाच । हत्वा तं तारकं संख्ये कुमारेण महात्मना । किं कृतं सुमहद्विप्र तत्सर्वं वक्तुमर्हसि

圣者绍那迦说道:“当大心的俱摩罗在战阵中诛灭塔罗迦之后,婆罗门啊,随后发生了哪些重大之事?请将一切尽数宣说。”

Verse 2

कुमारो ह्यपरः शंभुर्येन सर्वमिदं ततम् । तपसा तोषितः शंभुर्ददाति परमं पदम्

因为俱摩罗确是商婆(湿婆)的另一形相;由他遍满此一宇宙。商婆因苦行而欢喜时,便赐予至上的境地。

Verse 3

कुमारो दर्शनात्सद्यः सफलो हि नृणां सदा । ये पापिनो ह्यधर्म्मिष्ठाः श्वपचा अपि लोमश । दर्शनाद्धूतपापास्ते भवंत्येव न संशयः

仅仅瞻见俱摩罗,人们便立刻恒常获得灵验之果。即便是罪人、乐于非法者——甚至煮狗肉者,罗摩沙啊——也会因这一次瞻礼而涤除罪垢;对此毫无疑惑。

Verse 4

शौनकस्य वचः श्रुत्वा उवाच चरितं तदा । व्यास शिष्यो महाप्रज्ञः कुमारस्य महात्मनः

听罢绍那迦之言,毗耶娑那位大智弟子便在当时开始叙述大心俱摩罗的神圣行迹。

Verse 5

लोमश उवाच । ह्ताव तं तारकं संख्ये देवानामजयं ततः । अवध्यं च द्विजश्रेष्ठाः कुमारो जयमाप्तवान्

罗摩沙说道:在战阵中诛杀塔罗迦之后——那位连诸天也不能征服、被视为不可杀者——俱摩罗(斯坎达)获得了胜利,噢,最胜的二生者啊。

Verse 6

महिमा हि कुमारस्य सर्वशास्त्रेषु कथ्यते । वेदैश्च स्वागमैश्चापि पुराणैश्च तथैव च

确实,库玛罗(Kumāra)的伟大在一切圣典(śāstra)中被宣说——在吠陀中、在湿婆派阿伽摩(Āgama)中,也同样在诸《往世书》(Purāṇa)中。

Verse 7

तथोपनिषदैश्चैव मीमांसाद्वितयेन तु । एवंभूतः कुमारोयमशक्यो वर्णितुं द्विजाः

同样地,在《奥义书》(Upaniṣad)以及两部弥曼萨(Mīmāṃsā)中也如此宣说——此库玛罗竟至于难以尽述,噢诸位二次生者。

Verse 8

यो हि दर्शनमात्रेण पुनाति सकलं जगत् । त्रातारं भुवनस्यास्य निशम्य पितृराट्स्वयम्

因为他只需一见,便能净化整个世界——当听闻他是此宇宙的救护者时,连祖王皮特利罗特(阎摩,Yama)自己也为之触动而有所行动。

Verse 9

ब्रह्माणं च पुरस्कृत्य विष्णुं चैव सवासवम् । स ययौ त्वरितेनैव शंकरं लोकशंकरम् । तृष्टाव प्रयतो भूत्वा दक्षिणाशापतिः स्वयम्

他以梵天(Brahmā)为先导,又携毗湿奴(Viṣṇu)与婆娑婆(Vāsava,因陀罗)同行,迅疾前往商羯罗(Śaṅkara)——诸世的赐安者;随后南方之主达克希那沙帕提(阎摩,Yama)亲自肃然恭敬,赞颂了他。

Verse 10

नमो भर्गाय देवाय देवानां पतये नमः । मृत्युंजयाय रुद्राय ईशानाय कपर्द्दिने

礼敬婆伽(Bharga),光辉的主宰;礼敬诸天之主。礼敬胜死者弥利底优姆阇耶(Mṛtyuṃjaya);礼敬鲁陀罗(Rudra)、礼敬伊沙那(Īśāna)、礼敬结发之尊(Kapardin)。

Verse 11

नीलकंठाय शर्वाय व्योमावयवरूपिणे । कालाय कालनाथाय कालरूपाय वै नमः

礼敬尼罗迦ṇṭha(青颈者),礼敬舍尔瓦(Śarva),礼敬其形体由虚空广大本身所成者。礼敬迦罗(时间),礼敬时间之主,礼敬其自性即为时间者。

Verse 12

यमेन स्तूयमानो हि उवाच प्रभुरीश्वरः । किमर्थमागतोऽसि त्वं तत्सर्वं कथयस्व नः

当阎摩赞颂之后,主宰自在天(Īśvara)开口说道:“你为何而来?把一切都告诉我。”

Verse 13

यम उवाच । श्रूयतां देवदेवेश वाक्य वाक्यविशारद । तपसा परमेणैव तुष्टिं प्राप्तोसि शंकर

阎摩说道:“请垂听,诸天之天主,善巧言辞之尊。以至上苦行,你已得圆满喜悦,噢,商羯罗(Śaṅkara)。”

Verse 14

कर्मणा परमेणैव ब्रह्मा लोकपितामहः । तुष्टिमेति न संदेहो वराणां हि सदा प्रभुः

以至上之业行——如法履行本分——梵天(Brahmā),诸世界之祖父,必得满足;毫无疑虑,因为主恒为赐福与赐愿者。

Verse 15

तथा विष्णुर्हि भगवान्वेदवेद्यः सनातनः । यज्ञैरनेकैः संतुष्ट उपवासव्रतैस्तथा

同样,世尊毗湿奴(Viṣṇu)——永恒者,唯由吠陀可知——因种种祭祀而欢喜,也因斋戒与誓愿之行而欢喜。

Verse 16

ददाति केवलं भावं येन कैवल्यमाप्नुयुः । नराः सर्वे मम मतं नान्यता हि वचो मम

他只赐予那一念专一的内在“bhāva(心境)”,由此众人得证 Kaivalya(独存解脱)。一切人当受持我的见解——我的话语别无他义。

Verse 17

ददाति तुष्टो वै भोगं तथा स्वर्गादिसंपदः । सूर्यो नमस्ययाऽरोग्यं ददातीह न चान्यथा

当他欢喜时,便赐予享乐与福富,从天界等诸般资粮开始。太阳神被礼拜时,赐此世健康——确乎别无他途。

Verse 18

गणेशो हि महादेव अर्घ्यपाद्यादिचंदनैः । मंत्रावृत्त्या तथा शंभो निर्विघ्नं च करिष्यति

噢,大天(Mahādeva)!象头神伽内沙若以阿尔伽供水、洗足供水及檀香等供品恭敬供养,并以持诵真言——噢,商布(Śambhu)——亦能令所行之事无有障碍。

Verse 19

तथान्ये लोकपाः सर्वे यथाशक्त्या फलप्रदाः । यज्ञाध्ययनदानाद्यैः परितुष्टाश्च शंकर

同样,其他一切护世者(Lokapāla)也各随其力而施与果报。噢,商羯罗(Śaṅkara),他们因祭祀、研习吠陀、布施等而欢喜。

Verse 20

महदाश्चर्य संभूतं सर्वेषां प्राणिनामिह । कृतं च तव पुत्रेण स्वर्गद्वारमपावृताम्

此处为一切众生出现了大奇迹:因你的儿子,天界之门已被开启。

Verse 21

दर्शनाच्च कुमारस्य सर्वे स्वर्गैकसो नराः । पापिनोऽपि महादेव जाता नास्त्यत्र संशयः

仅以瞻礼库玛罗(Kumāra)之圣容,众人即刻同登天界;即便罪人,噢摩诃提婆(Mahādeva),亦得如是——于此毫无疑惑。

Verse 22

मया किं क्रियतां देव कार्याकार्यव्यवस्थितौ । ये सत्यशीलाः शांताश्च वदान्या निरवग्रहाः

噢天神(Deva),在抉择何者当行、何者不当行之时,我当如何作为?因为世间亦有守真、寂静、慷慨,且不阻碍、不争竞之人。

Verse 23

जितेंद्रिया अलुब्धाश्च कामरागविवर्जिताः । याज्ञिका धर्मनिष्ठाश्च वेदवेदांगपारगाः

他们制御诸根,离贪无欲,远离情欲与执著;为行祭祀(yajña)之人,安住于法(dharma),通达吠陀与吠陀支(Vedāṅga)。

Verse 24

यां गतिं यांति वै शंभो सर्वे सुकृतिनोपि हि । तां गतिं दर्शनात्सर्वे श्वपचा अधमा अपि

噢商布(Śambhu),连一切有功德者所证得之境地——仅凭瞻礼(darśana),众人皆得同至;即便烹犬者与卑下之人亦复如是。

Verse 25

कुमारस्य च देवेश महदाश्चर्यकर्मणः । कार्त्तिक्यां कृत्तिकायोगसहितायां शिवस्य च

噢诸天之主,库玛罗(Kumāra)之行迹至为奇妙;尤在迦尔蒂迦月(Kārttika),当与奎提迦星宿(Kṛttikā)成就神圣相合之时;并且在一切关乎湿婆(Śiva)之事上亦复如是。

Verse 26

शिवस्य तनयं दृष्ट्वा ते यांति स्वकुलैः सह । कोटिभिर्बहुभिश्चैव मत्स्थानं परिमुच्य वै

他们一见湿婆之子,便与各自家族同去——多至无数俱胝——彻底离开我的国土(阎摩之界)。

Verse 27

कुमारदर्शनात्सर्वे श्वपचा अपि यांति वै । सद्गतिं त्वरितेनैव किं क्रियेत मयाधुना

仅凭瞻见鸠摩罗,众人——乃至最卑下的食犬者(śvapaca)——也迅速得至善趣。我如今又能如何?

Verse 28

यमस्य वचनं श्रुत्वा शंकरो वाक्यमब्रवीत्

听闻阎摩之言后,商羯罗(湿婆)开口作答。

Verse 29

शंकर उवाच । येषां त्वंतगतं पापं जनानां पुण्यकर्मणाम् । विशुद्धभावो भो धर्म्म तेषां मनसि वर्त्तते

商羯罗说道:“噢,达摩(阎摩)啊,那些行善积德之人,其罪业既已穷尽,清净之心性便安住于其意中。”

Verse 30

सत्तीर्थगमनायैव दर्शनार्थं सतामिह । वांछा च महती तेषां जायते पूर्वकारिता

在这样的人心中,会生起强烈的渴望——由往昔所作之业而生——欲往真实圣地(sat-tīrtha),并在此得见贤圣之神圣瞻礼(darśana)。

Verse 31

बहूनां जन्मनामंते मयि भावोऽनुवर्त्तते । प्राणिनां सर्वभावेन जन्माभ्यासेनभो यम

噢阎摩啊,在无数次生死之后,众生对我的虔敬仍不断生起——由于反复投生的力量,以及内在性情深厚的习惯所致。

Verse 32

तस्मात्सुकृतिनः सर्वे येषां भावोऽनुवर्त्ते । जन्मजन्मानुवृत्तानां विस्मयं नैव कारयेत्

因此,一切具善业与功德之人——其虔敬之心相续不绝者——不应被视为奇异;因为这种相续是从一生带到一生的。

Verse 33

स्त्रीबालशूद्राः श्वपचाधमाश्च प्राग्जन्मसंस्कारवशाद्धि धर्म्म । योनिं पापिषु वर्त्तमानास्तथापि शुद्धा मनुजा भवंति

噢法(Dharma)啊,妇女、孩童、首陀罗,乃至被视为最卑下的食犬者(śvapaca)——由于前生熏习(saṃskāra)的力量——纵然今生处于被称为“罪恶”的境遇或胎生之中,仍能成为得以净化的人。

Verse 34

तथा सितेन मनसा च भवंति सर्वे सर्वेषु चैव विषयेषु भवंति तज्ज्ञाः । दैवेन पूर्वचरितेन भवंति सर्वे सुराश्चेंद्रादयो लोकपालाः प्राक्तनेन

同样,一切众生都能具足明净之心,并于诸事皆能辨明。由往昔行为所塑成的命运,使这一切成就——正如诸天之中因陀罗及诸护世者,皆凭前业而得其位。

Verse 35

जाता ह्यमी भूतगणाश्च सर्वे ह्यमी ऋषयो ह्यमी देवताश्च

诚然,这一切众生之群皆有出生;这些圣仙(ṛṣi)亦然;这些神祇亦然。

Verse 36

विस्मयो नैव कर्त्तव्यस्त्वया वापि कुमारके । कुमारदर्शने चैव धर्मराज निबोध मे

不要惊异——既不要因这孩子,也不要因见到他而惊异。噢,法王(Dharmarāja),当明白我所说。

Verse 37

वचनं कर्मसंयुक्तं सर्वेषां फलदायकम् । सर्वतीर्थानि यज्ञाश्च दानानि विविधानि च । कार्याणि मनःशुद्ध्यर्थं नात्र कार्या विचारणा

言语若与正行相应,便能为众生结成果报。一切圣地(tīrtha)、祭祀(yajña)与种种布施,皆当为净化其心而行——对此不必疑虑。

Verse 38

मनसा भावितो ह्यात्मा आत्मनात्मानमेव च । आत्मा अहं च सर्वेषआं प्राणिनां हि व्यवस्थितः

真我由心意所熏成,而自我亦自塑其身。我——即Ātman——安住于一切众生之内。

Verse 39

अहं सदा भावयुक्त आत्मसंस्थो निरंतरः । जंगमाजंगमानां च सत्यं प्रति वदामि ते

我恒与清净之有相应,绵绵不断安住于真我之中。我向你宣说关于动与不动的一切真实。

Verse 40

द्वंद्वातीतो निर्विकल्पो हि साक्षात्स्वस्थो नित्यो नित्ययुक्तो निरीहः । कूटस्थो वै कल्पभेदप्रवादैर्बहिष्कृतो बोधबोध्यो ह्यनन्तः

超越一切对待,离诸分别构想,直住自性——常恒、恒相应、无所欲求——祂不变而立。超出关于诸劫与周期差别的争论,祂即无量:纯净觉知,唯由觉醒而可证知。

Verse 41

विस्मृत्य चैनं स्वात्मानं केवलं बोधलक्षणम् । संसारिणो हि दृश्यंते समस्ता जीवराशयः

一旦遗忘自身真我——其标志唯是清净觉知——便见一切众生皆成轮回(saṃsāra)中的漂泊者。

Verse 42

अहं ब्रह्मा च विष्णुश्च त्रयोऽमी गुणकारिणः । सृष्टिपालनसंहारकारका नान्यथा भवेत्

我、梵天(Brahmā)与毗湿奴(Viṣṇu)——此三者皆依诸“德性”(guṇa)而运作;我们是创造、护持与毁融之行者,决无他途。

Verse 43

अहंकारवृतेनैव कर्मणा कारितावयम् । यूयं च सर्वे विबुधा मनुष्याश्च खगादयः

唯因被我执(ahaṃkāra)遮蔽之业(karma),我们才被驱使而行;你们众生亦复如是——诸天、人类、飞鸟等一切。

Verse 44

पश्वादयः पृथग्भूतास्तथान्ये बहवो ह्यमी । पृथक्पृथक्समीचीना गुणवतश्च संसृतौ

禽兽等众类各自分殊而住,此外尚有无数。于轮回(saṃsāra)中,众生各随其所具诸德性(guṇa),安于各自不同的境分。

Verse 45

पतिता मृगतृष्णायां मायया च वशीकृताः । वयं सर्वे च विबुधाः प्राज्ञाः पंडितमानिनः

堕入幻景(mṛgatṛṣṇā,如鹿渴之蜃影)而为摩耶(Māyā)所制,我们众人——纵然聪慧博学——也不过自以为是真正的学者。

Verse 46

परस्परं दूषयंतो मिथ्यावादरताः खलाः

他们彼此诋毁,乐于虚妄之言——心性卑劣之人。

Verse 47

त्रैगुणा भवसंपन्ना अतत्तवज्ञाश्च रागिणः । कामक्रोधभयद्वेषमदमात्सर्यसंयुताः

他们被三种古那所缚,只具世间成有之资,不知真实;情欲炽盛,充满欲望、嗔怒、恐惧、憎恨、傲慢与嫉妒。

Verse 48

परस्परं दूषयंतो ह्यतत्त्वज्ञा बहिर्मुखाः । तस्मादेवं विदित्वाथ असत्यं गुणभेदतः

确实,由于不知真理而向外驰求,他们彼此责难。因此,如是了知:依古那差别而显现为“真”的,并非至上真理。

Verse 49

गुणातीते च वस्त्वर्थे परमार्थैकदर्शनम्

在超越诸古那的实相中,唯有一种见地:唯见至上真谛。

Verse 50

यस्मिन्भेदो ह्यभेदं च यस्मिन्रागो विरागताम् । क्रोधो ह्यक्रोधतां याति तद्वाम परमं श्रृणु

于其中,连差别亦知为无差别;于其中,执著转为离贪;于其中,嗔怒化为无嗔——卿所爱者啊,谛听那至上之境/至上之教。

Verse 51

न तद्भासयते शब्दः कृतकत्वाद्यथा घटः । शब्दो हि जायते धर्म्मः प्रवृत्तिपरमो यतः

言辞(仅是口头表述)不能照明彼至上实相,因为它是造作之物,如同陶罐。音声/言语在法(Dharma)中生起,作为趋向世间行作的原则。

Verse 52

प्रवृत्तिश्च निवृत्तिश्च तथा द्वंद्वानि सर्वशः । विलयं यांति यत्रैव तत्स्थानं शाश्वतं मतम्

在何处,活动与退隐,以及一切诸对待的二元,皆完全消融——彼处之所住,被认为是永恒的。

Verse 53

निरंतरं निर्गुणं ज्ञप्तिमात्रं निरंजनं निर्विकाशं निरीहम् । सत्तामात्रं ज्ञानगम्यं स्वसिद्धं स्वयंप्रभं सुप्रभं बोधगम्यम्

绵延不绝,超越诸德(guṇa);唯是纯粹觉知;无垢、无扩展无变异、无所作为。唯有存在,可由智慧证得;自成、自明,自照而大明,亦可由觉醒而达。

Verse 54

एतज्ज्ञानं ज्ञानविदो वदंति सर्वात्मभावेन निरीक्षयंति । सर्वातीतं ज्ञानगम्यं विदित्वा येन स्वस्थाः समबुद्ध्या चरंति

此即真知,知者如是说:他们以“彼为一切之我(Ātman)”之心观照实相。既知那超越万有、由智慧可达者,他们内住安稳,以平等心行于世间。

Verse 55

अतीत्य संसारमनादिमूलं मायामयं मायया दुर्विचार्यम् । मायां त्यक्त्वा निर्ममा वीतरागा गच्छंति ते प्रेतराणिनर्विकल्पम्

超越轮回(saṃsāra)——其根无始,其性为幻力(Māyā),连幻力自身亦难测度——那些舍离幻力、无占有无贪著者,越过亡者之途,证得不变、离分别念的无分别(nirvikalpa)境。

Verse 56

संसृतिः कल्पनामूलं कल्पना ह्यमृतोपमा । यैः कल्पना परित्यक्ता ते यांति परमां गतिम्

轮回以心之妄造为根;想象实如甘露,甜美而诱人。然能舍离此妄造者,必至无上归趣。

Verse 57

शुक्त्यां रजतबुद्धिश्च रज्जुबुद्धिर्यर्थोरणे । मरीचौ जलबुद्धिश्च मिथ्या मिथ्यैव नान्यथा

于贝母起银想,于绳起蛇想,于阳焰起水想——皆为虚妄;唯虚妄而已,别无他物。

Verse 58

सिद्धिः स्वच्छंदवर्त्तित्वं पारतंत्र्यं हि वै मृषा । बद्धो हि परतंत्राख्यो मुक्तः स्वातंत्र्यभावनः

真实的成就(悉地)在于安住自性自由;依他实为迷妄。被缚者名为“依赖”,解脱者则安立于内在自主之觉。

Verse 59

एको ह्यात्मा विदित्वाथ निर्ममो निरवग्रहः । कुतस्तेषां बंधनं च यथाखे पुष्पमेव च

了知我(Ātman)唯是一者,便离“我所”而无执取。如此之人何来系缚?譬如空中之花。

Verse 60

शशविषाणमेवैतज्त्रानं संसार एव च । किं कार्यं बहुनोक्तेन वचसा निष्फलेन हि

此等“知见”如兔角一般——而轮回亦然(若执为究竟实有)。既然言辞终究无果,又何必多说?

Verse 61

ममतां च निराकृत्य प्राप्तुकामाः परं पदम् । ज्ञानिनस्ते हि विद्वांसो वीतरागा जितेंद्रियाः

摒弃占有之心,愿达至上境界——彼等乃真知者:贤智无染,离贪著,能制诸根。

Verse 62

यैस्त्यक्तो ममताभावो लोभकोपौ निराकृतौ । ते यांति परमं स्थानं कामक्रोधविवर्जिताः

凡舍离占有之念,摒除贪与嗔者——必至最高处所,远离欲与怒。

Verse 63

यावत्कामश्च लोभश्च रागद्वेषौ व्यवस्थितौ । नाप्नुवंति च तां सिद्धिं शब्दमात्रैकबोधकाः

只要欲与贪、爱著与憎恶仍然安住,那些仅以言辞为知的人,便不能证得那圆满成就。

Verse 64

यम उवाच । शब्दाच्छब्दः प्रवर्त्तेत निःशब्दं ज्ञानमेव च । अनित्यत्वं हि शब्दस्य कथं प्रोक्तं त्वया प्रभो

阎摩说道:“由言生言,言复相续;而真知本自无言。既然声音与言语皆无常,主啊,你又如何以言说来宣示此理?”

Verse 65

अक्षरं ब्रह्मपरमं शब्दो वै ह्यरात्मकः । तस्माच्छब्दस्त्वया प्रोक्तो निरीक्षक इति श्रुतम्

不坏者(Akṣara)乃至上梵;而声(śabda)确是同一自性。故闻你宣说“声”为“审察者”——能显发并检验真实。

Verse 66

प्रतिपाद्यं हि यत्किंचिच्छब्देनैव विना कथम् । तत्सर्वं कथ्यतां शंभो कार्याकार्यव्यवस्थितौ

凡需阐明之事,若离言辞,何以传达?故愿圣者商婆(Śambhu)尽为开示:当作与不当作之正辨。

Verse 67

शंकर उवाच । श्रृणुष्वावहितो भूत्वा परमार्धयुतं वचः । यस्य श्रवणमात्रेण ज्ञातव्यं नावशिष्यते

商羯罗曰:当专心谛听此充满至上旨趣之言;但凭闻受,凡应知者无复遗昧。

Verse 68

ज्ञानप्रवादिनः सर्व ऋषयो वीतकल्मषाः । ज्ञानाभ्यासेन वर्त्तंते ज्ञानं ज्ञानविदो विदुः

一切宣说智慧、远离垢染的诸仙,皆以修习智知而住;而知智者,了知何为真实之智。

Verse 69

ज्ञानं ज्ञेयं ज्ञानगम्यं ज्ञात्वा च परिगीयते । कथं केन च ज्ञातव्यं किं तद्वक्तुं विवक्षितम्

智、所知与由智而达之境,皆在证得之后而受赞颂。然而当以何法、凭何途而知?对此究竟欲宣示何义?

Verse 70

एतत्सर्वं समासेन कथयामि निबोध मे । एको ह्यनेकधा चैव दृश्यते भेदभावनः

此一切我将略说,汝当领会我言。唯有一者,却因分别之妄想而现为多。

Verse 71

यथा भ्रमरिकादृष्टा भ्रम्यते च मही यम । तथात्मा भेदबुद्ध्या च प्रतिभाति ह्यनेकधा

正如眼目昏乱(如眩晕)时,大地似乎旋转;同样,由于分别之智,真我(Ātman)便显现为种种多相。

Verse 72

तस्माद्विमृश्य तेनैव ज्ञातव्यः श्रवणेन च । मंतव्यः सुप्रयोगेण मननेन विशेषतः

因此,当细加省察之后,唯有“彼”应当被了知——凭由闻受(śravaṇa);并应以正当修持而坚定观照,尤以深思与反观(manana)为要。

Verse 73

निर्द्धार्य चात्मनात्मानं सुखं बंधात्प्रमुच्यते । मायाजालमिदं सर्वं जगदेतच्चाराचरम्

以真我自证真我,便能安乐地解脱诸缚。此一切世界,动与不动,皆是摩耶(Māyā)之网。

Verse 74

मायामयोऽयं संसारो ममतालक्षणो महान् । ममतां च बहिः कृत्वा सुखं बंधात्प्रमुच्यते

这广大轮回(saṃsāra)由摩耶所成,其标记便是“我所”的执取。将“我所”之念弃置于外,便能安乐地解脱诸缚。

Verse 75

कोऽहं कस्त्वं कुतश्चान्ये महामायावलंबिनः । अजागलस्तनस्येव प्रपंचोऽयं निरर्थकः

“我是谁?你是谁?其余诸人又从何而来——皆依附于大幻(Mahāmāyā)?”此世间之铺陈毫无意义,犹如从母山羊乳头求乳一般。

Verse 76

निष्फलोऽयं निराभासो निःसारो धूमडंबरः । तस्मात्सर्वप्रयत्नेन आत्मानं स्मर वै यम

此皆无果,无真光辉,空洞不实——不过是烟雾般的虚饰。故当竭尽全力,噫阎摩啊,忆念真我(Ātman)。

Verse 77

लोमश उवाच । एवं प्रचोदितस्तेन शंभुना प्रेतराट्स्वयम् । बुद्धो भूत्वा यमः साक्षादात्मभूतोऽभवत्तदा

罗摩沙说道:“如是为商布所劝,阎摩自身——亡者之王——豁然觉醒;其时他确然安住于真我(Ātman)。”

Verse 78

कर्म्मणां हि च सर्वेषां शास्ता कर्मानुसारतः । बभूव डंबरो नॄणां भूतानां च समाहितः

于一切业行之中,他依业报而为真实的裁制者;成为人类与诸有情安定、沉着的调御者。

Verse 79

ऋषय ऊचुः । हत्वा तु तारकं युद्धे कुमारेण महात्मना । अत ऊर्ध्वं कथ्यतां भोः किं कृतं महदद्भुतम्

诸仙人说道:“大心之鸠摩罗在战场诛灭塔罗迦之后,请告知我等,尊者——其后发生了何等伟大的奇迹?”

Verse 80

सूत उवाच । हते तु तारके दैत्ये हिमवन्प्रमुखाद्रयः । कार्त्तिकेयं समागत्य गीर्भी रम्याभिरैडयन्

苏多说道:“当魔王塔罗迦被诛之后,群山以喜马梵为首,前来拜见迦尔蒂凯耶,并以悦耳妙语赞颂他。”

Verse 81

गिरय ऊचुः । नमः कल्याणरूपाय नमस्ते विश्वमंगल । विश्वबंधो नमस्तेऽस्तु नमस्ते विश्वभावन

群山说道:“礼敬于你,形体本为吉祥者;礼敬于你,宇宙之福祐。噢,世间之友,愿我等向你致敬;礼敬于你,护持并滋养万有的主。”

Verse 82

वरीष्ठाः श्वपचा येन कृता वै दर्शनात्त्वया । त्वां नमामो जगद्बंधुं त्वां वयं शरणागताः

“只因得见你一眼,连被称作‘煮狗者’的卑微之人也被你提升为最上。我们礼敬你,噢世间的至亲;我们已投奔你,求你庇护。”

Verse 83

नमस्ते पार्वतीपुत्र शंकरात्मज ते नमः । नमस्ते कृत्तिकासूनो अग्निभूत नमोस्तु ते

“礼敬于你,帕尔瓦蒂之子;礼敬于你,商羯罗之胤。礼敬于你,克利提迦诸母之子;噢由阿耆尼之火而生者,礼敬于你。”

Verse 84

नमोस्तु ते देववरैः सुपूज्य नमोऽस्तु ते ज्ञानविदां वरिष्ठ । नमोऽस्तु ते देववर प्रसीद शरण्य सर्वार्तिविनाशदक्ष

“礼敬于你,连最尊胜的诸天也至诚供奉者;礼敬于你,诸智者中最上者。礼敬于你,天中之最胜——愿你垂慈。噢一切众生的归依处,善能摧灭诸般苦恼者。”

Verse 85

एवं स्तुतो गिरिभिः कार्त्तिकेयो ह्युमासुतः । तान्गिरीन्सुप्रसन्नात्मा वरं दातुं समुत्सुकः

群山如此赞颂之后,优摩之子迦尔蒂凯亚心中大悦;他渴望赐下恩愿,便转向那些群山。

Verse 86

कार्त्तिकेय उवाच । भोभो गिरिवरा यूयं श्रृणुध्वं मद्वचोऽधुना । कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ

迦尔蒂凯亚说道:“噢,诸位最胜之山!今当听我之言。你们将成为圣地,既为行祭仪之人所敬奉,也为证知真理之智者所趋向礼拜。”

Verse 87

भवत्स्वेव हि वर्त्तते दृषदो यत्नसेविताः । पुनंतु विश्चं वचनान्मम ता नात्र संशयः

“诚然,在你们之中自有那些圣石,勤加护持而受敬奉;凭我之言,它们必能净化世间——对此毫无疑惑。”

Verse 88

पर्वतीयानि तीर्थानि भविष्यंति न चान्यथा । शिवालयानि दिव्यानि दिव्यान्यायतनानि च

“山中诸圣渡处(tīrtha)必将出现——确然无他;并将建立天妙的湿婆圣殿,以及其他辉煌的圣所。”

Verse 89

अयनानि विचित्राणि शोभनानि महांति च । भविष्यंति न संदेहः पर्वता वचनान्मम

“奇妙的圣所将兴起——庄严而宏大。噢,群山啊,毫无疑虑:依我之敕令,必当如是。”

Verse 90

योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः । तपस्विनां महाभागः फलदो हि भविष्यति

“此喜马梵(Himavān)——诸山之最胜者——今日为我外祖,必将成为大吉祥之施主,赐予修苦行者以殊胜的灵性果报。”

Verse 91

मेरुश्च गिरिराजोऽयमाश्रयो हि भविष्यति । लोकालोको गिरिवर उदयाद्रिर्महायशः

此须弥山为群山之王,必将成为伟大的归依之所;同样,洛迦洛迦山——噫,诸山之最胜——以及名闻遐迩的乌陀耶陀利山亦复如是。

Verse 92

लिंगरूपो हि भगवान्भविष्यति न चान्यथा । श्रीशैलो हि महेंद्रश्च तथा सह्याचलोगिरिः

吉祥的主宰必将以林伽之相示现——确然如此,别无他途——于室利舍罗山、摩诃因陀罗山,并亦在萨诃耶山脉。

Verse 93

माल्यवान्मलयो विन्ध्यस्तथासौ गंधमादनः । श्वेतकूटस्त्रिकूटो हि तथा दर्दुरपर्वतः

同样还有摩利耶梵山、摩罗耶山、温陀耶山,以及那甘陀摩陀那山;又有白峰(Śvetakūṭa)、三峰(Trikūṭa),并且达尔杜罗山。

Verse 94

एते चान्ये च बहवः पर्वता लिंगरूपिणः । मम वाक्याद्भविष्यंति पापक्षयकरा ह्यमी

这些以及许多其他群山,将依我之言而成林伽之形;诚然,它们将成为灭除罪垢者。

Verse 95

एवं वरं ददौ तेभ्यः पर्वतेभ्यश्च शांकरिः । ततो नंदीह्युवाचाथ सर्वागमपुरस्कृतम्

如是,商羯罗将此恩赐授予他们,也授予诸山。其后,难提开口宣说,阐明一则以一切阿伽摩权威为依归的教诲。

Verse 96

नंद्युवाच । त्वया कृता हि गिरयो लिंगरूपिण एव ते । शिवालयाः कथं नाथ पूज्याः स्युःसर्वदैवतैः

难提说道:“既然这些群山确由您造成,皆具林伽之形,那么,主啊,这些湿婆的圣所又怎会不为一切诸天所礼敬供奉呢?”

Verse 97

कुमार उवाच । लिंगं शिवालयं ज्ञेयं देवदेवस्य शूलिनः । सर्वैर्नृभिर्दैवतैश्च ब्रह्मादिभिरतांद्रितैः

鸠摩罗说道:“当知林伽即是湿婆之圣居——诸神之神、执三叉戟者。应为一切人类与诸天所供奉;梵天等诸神亦当不懈怠而礼拜。”

Verse 98

नीलं मुक्ता प्रवालं च वैडूर्यं चंद्रमेव च । गोमेदं पद्मरागं च मारतं कांचनं तथा

蓝宝石、珍珠、珊瑚、猫眼石与月光石;以及黄榴石(hessonite)、红宝石、祖母绿与黄金——

Verse 99

राजतं ताम्रमारं च तथा नागमयं परम् । रत्नधातुमयान्येव लिंगानि कथितानि ते

——白银、铜、铁,以及上等的铅。如此,已为你宣说了由宝石与金属所制的诸种林伽。

Verse 100

पवित्राण्येव पूज्यानि सर्वकामप्रदानि च । एतेषामपि सर्वेषां काश्मीरं हि विशिष्यते

它们确皆清净可敬,堪受供养,并能成就一切所愿;然而在这一切之中,迦湿弥罗之石尤为卓绝。

Verse 101

ऐहिकामुष्मिकं सर्वं पूजाकर्तुः प्रयच्छति

它赐予礼拜者一切——现世的昌盛与来世的善福。

Verse 102

नंद्युवाच । लिंगानामपि पूज्यं स्याद्बाणलिंगं त्वया कथम् । कथितं चोत्तमत्वेन तत्सर्वं वदसुव्रत

难提说道:“即便在诸林伽之中,你为何宣说‘婆那林伽’值得礼拜,且称其为最上?请你尽说其详,噢,持殊胜誓愿者。”

Verse 103

कुमार उवाच । रेवायां तोयमध्ये च दृश्यंते दृषदो हि याः । शिवप्रसादात्तास्तु स्युर्लिंगरूपा न चान्यथा

鸠摩罗说道:“在瑞瓦河水中所见之石,承湿婆之恩,确然成就林伽之形,别无他状。”

Verse 104

श्लक्ष्णमूलाश्च कर्तव्याः पिंडिकोपरि संस्थिताः । पूजनीयाः प्रयत्नेन शिवदीक्षायुतेन हि

应使其底部光滑,安置于品底迦(yoni基座)之上。确当由已受湿婆灌顶(dīkṣā)者,殷勤恭敬而礼拜。

Verse 105

पिंडीयुक्तं च शास्त्रेण विधिना च यजेच्छिवम् । वरदो हि जगन्नाथः पूजकस्य न चान्यथा

当依经典所示之法与仪轨,连同品底(林伽之圣座)而礼拜湿婆。因为宇宙之主唯以赐福于礼拜者为性,决无他途。

Verse 106

पंचाक्षरी यस्य मुखे स्थिता सदा चेतोनिवृत्तिः शिवचिंतने च । भूतेषुः साम्यं परिवादमूकता षंढत्वमेव परयोषितासु

若有人口中恒常安住五字真言「南无湿婆耶」,其心收摄退息,专注观念湿婆——则对一切众生生起平等,于诽谤毁谤默然无言,并对他人之妻全然无动于心。