
本章铺陈天神与阿修罗之间规模宏大的“四军”(caturaṅga)大战,叙述节奏迅疾,战场景象惨烈:肢体断裂、勇士倒伏。曼陀诃多罗之子牟朱昆达迎战阿修罗首领塔罗迦,欲以决绝之力终结战局,甚至将冲突推至几近动用梵天神箭 Brahmāstra 的地步。 那罗陀仙人出面制止,并宣示法义的限制:塔罗迦不可由人类所杀;因此诛灭之责须转归于天命所定的鸠摩罗/库玛拉(湿婆之子)。战事愈烈,毗罗跋陀罗与湿婆的众伽那与塔罗迦展开凶猛对决;那罗陀屡次劝其克制,使武勇之情与宇宙法令之间的张力愈发明显。 随后叙事转折:毗湿奴明确指定唯有“克利提迦之子”鸠摩罗才是可行的诛杀者。鸠摩罗起初自称只是观战者,对敌友之别尚感踌躇;那罗陀便补述塔罗迦苦行得势与征服诸界的因缘。章末塔罗迦夸口挑衅,整军欲战鸠摩罗,为以正当的神圣器具终结阿陀摩铺设了舞台。
Verse 1
लोमश उवाच । उभे सेने तदा तेषां सुराणां चामरद्विषाम् । अनेकाश्चर्यसंवीते चतुरंगबलान्विते । विरेजतुस्तदान्योऽन्यं गर्जतो वांबुदागमे
洛马沙说道:那时,众神与其敌人的两支军队,布下了许多奇妙的阵势,配备了四种兵力,彼此对峙,光芒四射,宛如雨季来临时咆哮的雷云。
Verse 2
एतस्मिन्नन्तरे तत्र वल्गमानाः परस्परम् । देवासुरास्तदा सर्वे युयुधुश्च महाबलाः
与此同时,在那里,众神与阿修罗相互冲锋,皆具神力,展开了激烈的战斗。
Verse 3
युद्धं सुतुमुलं ह्यासीद्देवदैत्यसमाकुलम् । रुण्डमुण्डांकितं सर्वं क्षणेन समपद्यत
战斗极其混乱,挤满了众神与岱提耶;顷刻间,到处都是断躯与头颅。
Verse 4
भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः । केषांचिद्बाहविश्छिन्नाः खड्गपातैः सुदारुणैः
在那里,成百上千的人倒在地上;有些人的手臂被极其可怕的剑击斩断。
Verse 5
मुचुकुंदो हि बलवांस्त्रैलोक्येऽमितविक्रमः
穆楚昆达确是雄健无比,其威勇不可量度,名震三界。
Verse 6
तारको हि तदा तेन मुचुकुंदेन धीमता । खड्गेन चाहतास्तत्र सर्वप्राणेन वक्षसि । प्रसह्य तत्प्रहारं च प्रहसन्वाक्यमब्रवीत्
当时,塔罗迦被智者穆楚昆达以宝剑全力斩击胸膛;他竟强忍此击,继而大笑,说出如下言辞。
Verse 7
किं रे मूढ त्वया चाद्य कृतमस्ति बलादिदम् । न त्वया योद्धुमिच्छामि मानुषेणैव लज्जया
“喂,愚人!你今日凭这般逞强究竟成就了什么?我甚至不愿与你交战,只因与区区凡人相斗,实在可耻。”
Verse 8
तारकस्य वचः श्रुत्वा मुचुकुंदोऽभ्यभाषत । मया हतोऽसि दैत्येंद्र नान्यो भवितुमर्हसि
穆楚昆达听罢塔罗迦之言,答道:“噢,代底耶之主,你已为我所诛;断无他途。”
Verse 9
दृष्ट्वा मे खड्गसंपातं न त्वं तिष्ठसि चाग्रतः । त्वां हन्मि पश्य मे शौर्यं दैत्यराज स्थिरो भव
“见我剑势横扫,你仍不立于我前么?我将斩倒你——且观我之英勇,噢,达那婆之王!站稳!”
Verse 10
एवमुक्त्वा तदा वीरो मुचुकुंदो महाबलः । यावज्जघान खड्गेन तावच्छक्त्या समाहतः । मांधातुस्तनयस्तत्र पपात रणमंडले
说罢,那大力英雄牟朱昆达挥剑斩击;就在同一刹那,他被“沙克提”(Śakti)神兵击中。曼陀多罗之子遂倒在战场之上。
Verse 11
पतितस्तत्क्षणादेव चोत्थितः परवीरहा
虽已倒下,他却在那一瞬间复起——斩灭敌方勇将者。
Verse 12
स सज्जमानोतिमहाबलो वै हंतुं तदा दैत्यपतिं च तारकम् । ब्रह्मास्त्रमुद्यम्य धनुर्गृहीत्वा मांधातृपुत्रो भुवनैकजेता
于是那位无比强大的曼陀多罗之子——征服诸界者——准备诛杀达那婆之主塔罗迦。执弓在手,他举起梵天神兵“梵天箭”(Brahmāstra)。
Verse 13
स तारकं योद्धकामस्तरस्वी रुषान्वितोत्फुल्लविलोचनो महान् । स नारदो ब्रह्मसुतो बभाषे तदा नृवीरं मुचुकुंदमेवम्
当他渴望与塔罗迦交战,勇猛冲前——伟岸非常,怒目圆睁——此时梵天之子那罗陀便对人间英雄牟朱昆达如此说道。
Verse 14
न तारको हन्यते मानुषेण तस्मादेतन्मा विमोचीर्महास्त्रम्
“塔罗迦非人类所能诛灭;因此,切莫放出这大神兵。”
Verse 15
निशम्य वचनं तस्य देवर्षेर्नारदस्य च । मुचुकुंद उवाचेदं भविता कोऽस्य मारकः
听闻天仙圣者那罗陀之言,穆楚昆达说道:“那么,谁将诛灭他呢?”
Verse 16
तदोवाच महातेजा नारदो दिव्यदर्शनः । एनं हंता कुमारश्च कुमारोऽयं शिवात्मजः
随后,光辉具天眼的那罗陀说道:“将诛杀他者是鸠摩罗;此鸠摩罗乃湿婆之子。”
Verse 17
तस्माद्भवद्भिः स्थातव्यमैकपद्येन युध्यताम् । तिष्ठ त्वं चायतो भूत्वा मुचुकुंद महामते
“因此,你们众人当坚守阵地,同心如一而战。你啊,志坚的穆楚昆达——当整肃其心,安然备战。”
Verse 18
निशम्य वाक्यं च मनोहरं शुभं ह्युदीरितं तेन महाप्रभेण । सर्वे सुराः शांतिपरा बभूवुस्तेनैव साकं नृवरेणयत्नात्
听闻那位大光明圣者所宣说的吉祥悦耳之语,诸天皆倾向于和宁,并以殷勤之力与那位人中最胜者同心相合。
Verse 19
ततो दुंदुभयो नेदुः शंखाश्च कृतनिश्चयाः । ताडिता विविधैर्वाद्यैः सुरासुरसमन्वितैः
于是战鼓咚咚作响,法螺亦以坚决之心吹鸣;在天神与阿修罗齐集之处,诸般乐器纷然击奏。
Verse 20
जगर्जुरसुरास्तत्र देवान्प्रति कृतोद्यमाः । शिवकोपोद्भवो वीरो वीरभद्रो रुषान्वितः
彼处阿修罗咆哮震天,整装欲攻诸天;而毗罗跋陀罗——由湿婆忿怒所生的英勇者——满怀怒焰而立。
Verse 21
गणैर्बहुभिरासाद्य तारकं च महाबलम् । मुचुकुंदं पृष्ठतः कृत्वा तथैव च सुरानपि
众多伽那围逼大力的塔罗迦,又令牟朱昆达居于后阵,并使诸天同列其后,遂逼近以迎战。
Verse 22
तदा ते प्रमथाः सर्वे पुरस्कृत्य कुमारकम् । युयुधुः संयुगे तत्र वीरभद्रादयो गणाः
其时一切普罗摩他奉神圣的鸠摩罗为前锋;在那战阵之中,毗罗跋陀罗等诸伽那奋然交战。
Verse 23
त्रिशूलैरृष्टिभिः पाशैः खड्गैः परशुपाट्टिशैः । निजघ्नुः समरेन्योन्यं सुरासुरविमर्द्दने
以三叉戟、长矛、绳索、宝剑、斧与战斧,他们在战斗中彼此击斫——于诸天与阿修罗碾压般的冲突之中。
Verse 24
तारको वीरभद्रेण त्रिशूलेन हतो भृशम् । पपात सहसा तत्र क्षण मूर्छापरिप्लुतः
塔罗迦被毗罗跋陀罗以三叉戟猛然重创,顿时倒落其地,片刻间为昏厥与迷惘所淹没。
Verse 25
उत्थाय च मुहूर्त्ताच्च तारको दैत्यपुंगवः । लब्धसंज्ञो बलाविष्टो वीरभद्रं जघान च
片刻之后,陀罗迦——诸代底耶中最卓越者——再度起身,复得神识;力势充盈,遂回击维罗跋陀罗。
Verse 26
स शक्तिं च महातेजा वीरभद्रो हि तारकम् । त्रिशूलेन च घोरेण शिवस्यानुचरो बली
那威猛光耀的维罗跋陀罗——湿婆的强力侍从——以“沙克提”长枪之器,又以可怖的三叉戟,猛攻陀罗迦。
Verse 27
एवं संयुध्यमानौ तौ जघ्नतुश्चेतरेतरम् । द्वंद्वयुद्धं सुतुमुलं तयोर्जातं महात्मनोः
如是二者鏖战不息,彼此反复击打;在这两位大力者之间,遂生起一场狂烈喧腾的单挑决斗。
Verse 28
सुरास्तत्रैव समरे प्रेक्षकाह्यभवंस्तदा । तयोर्भेरीमृदंगाश्च पटहानकगोमुखाः
就在那场战斗中,诸天当时竟成了旁观者;而为那二人,战鼓与姆利檀伽齐鸣,又有帕塔哈、阿那迦与瞿牟迦之声相和。
Verse 29
तथा डमरूनादेन व्याप्तमासीज्जगत्त्रयम् । तेन घोषेण महता युद्यमानौ महाबलौ
继而,达摩卢鼓的轰鸣遍满三界;在那宏大的震响之中,两位力大无穷的战士仍继续厮杀。
Verse 30
शुशुभातेऽतिसंरब्धौ प्रहारैर्जरीकृतौ । अन्योन्यमभिसंरब्धौ तौ बुधांगारकाविव
二者虽怒焰炽盛、为重击所困而疲惫,却仍在交战中熠熠生辉——彼此紧逼相缠,如水星与火星近距相会。
Verse 31
नारदेन तदा ख्यातो वीरभद्रस्य तद्वधः । न रोचते च तद्वाक्यं वीरभद्रस्य वै तदा
当时圣者那罗陀道出那般结局——说到毗罗跋陀罗之死;然而那番言辞在彼时并不为毗罗跋陀罗所悦。
Verse 32
नारदेन यदुक्तं हि तारकस्य वधं प्रति । यथा रुद्रस्तथा सोऽपि वीरभद्रो महाबलः
因为那罗陀所言关于诛灭塔罗迦之事:毗罗跋陀罗亦具大神力,正如鲁陀罗一般。
Verse 33
एवं प्रयुध्यमानौ तौ जघ्नतुश्चेतरेतरम् । अन्योन्यं स्वर्द्धमानौ तौ गर्जंतौ सिंहयोरिव
于是二人如此鏖战,彼此连连相击;相互激昂对峙,咆哮如两头雄狮。
Verse 34
एवं तदा तौ भुवि युध्यमानौ महात्मना ज्ञानवतां वरेण । स वीरभद्रो हि तदा निवारितो वाक्यैरनेकैरथ नारदेन
当二人在大地上如此争战之时,大心的那罗陀——智者之最——以多番劝诫之语制止毗罗跋陀罗,令其收敛。
Verse 35
तथा निशम्य तद्वाक्यं नारदस्य मुखोद्गतम् । वीरभद्रो रुषाविष्टो नारदं प्रत्युवाच ह
听闻那罗陀口中所出之言,毗罗跋陀被忿怒所摄,遂答复那罗陀。
Verse 36
तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम् । आनयंति च ये वीराः स्वामिनं रणसंसदि । ते पापिनो ह्यधर्मिष्ठा विमृशंतिरणं गताः
“我亦将诛灭塔罗迦——且看我今日之威勇!至于那些把其主带入战阵会集的武士,实为罪人,最违背正法;既入战争,反而开始踌躇计议。”
Verse 37
भीरवस्ते तु विज्ञेया न वाच्यास्ते कदाचन । त्वं न जानासि देवर्षे योधानां च प्रतिक्रियाम्
“此辈当知实为懦夫,永不应被称道。噢天界圣仙,你不明白战士应对与行止之道。”
Verse 38
मृत्युं च पृष्ठतः कृत्वा रणभूमौ गतव्यथाः । शस्त्राशस्त्रैर्भिन्नगात्राः प्रशस्ता नात्र संशयः
“以死亡置于身后,他们无悲无惧地走上战场;纵使肢体为刀兵与飞矢所裂,亦受称赞——此无疑也。”
Verse 39
इत्युक्त्वा चावदद्देवान्वीरभद्रो महाबलः । श्रुण्वंतु मम वाक्यानि देवा इन्द्रपुरोगमाः
言毕,大力的毗罗跋陀对诸天说道:“愿以因陀罗为首的诸天,聆听我之言。”
Verse 40
अतारकां महीं चाद्य करिष्ये नात्र संशयः
“今日我必使大地脱离塔罗迦(Tāraka)之害——此事毫无疑虑。”
Verse 41
अथ त्रिशूलमादाय तारकेण युयोध सः । वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः
于是他执起三叉戟,与塔罗迦交战;并有众多持三叉戟、骑乘公牛的勇士随行。
Verse 42
कपर्द्दिनो वृषांकाश्च गणास्तेतिप्रहारिणः । वीरभद्रं पुरस्कृत्य वीरभद्रपराक्रमाः
那些伽那众——披结发髻、佩牛之徽记——以三叉戟猛击;奉毗罗跋陀罗(Vīrabhadra)为前锋,凭其同等的英勇而推进。
Verse 43
त्रिशूलधारिणः सर्वे सर्वे सर्पागभूषणाः । सचंद्रशेखराः सर्वे जटाजूटविभूषिताः
众人皆执三叉戟;众人皆以蛇为饰;众人皆以月为冠;众人皆以层叠结发为庄严。
Verse 44
निलकण्ठा दशभुजाः पञ्चकत्त्रास्त्रिलोचनाः । छत्रचामरसंवीताः सर्वे तेऽत्युग्रबाहवः
其喉如青(尼罗迦ṇṭha),十臂、五面、三目——侍从以宝伞与拂尘环绕——众皆具极其威猛凶烈之臂力。
Verse 45
वीरभद्रं पुरस्कृत्य सर्वे हरपराक्रमाः । युयुधुस्ते तदा दैत्यास्ताकासुरजीविनः
以毗罗跋陀罗为先锋,诸位具哈罗般威勇者当时与受塔罗迦阿修罗势力支配而生的代提耶众交战。
Verse 46
पुनः पुनस्तैश्च तदा बभूवुर्गणैर्जितास्ते ह्यसुराः पराङ्मुखाः । बभूव तेषां च तदातिसंगरो महाभयो दैत्यवरैस्तदानीम्
他们一次又一次被众伽那击败,那些阿修罗转身退却。其时,在诸位最强的代提耶之间,爆发了可怖而惊心的激战。
Verse 47
अमृष्यमाणाः परमास्त्रकोविदैस्ततो गणास्ते जयिनो बभूवुः । गणैर्जितास्ते ह्यसुराः पराभवं तं तारकं ते व्यथिताः शशंसुः
他们再也无法忍受,那些精通至上兵器的伽那遂成胜者。被伽那击败的阿修罗心神不安,便将此败讯禀告塔罗迦。
Verse 48
विनाम्य चापं हि तथा च तारकः स योद्धुकामः प्रविवेश सेनाम् । यथा झषो वै प्रविवेश सागरं तथा ह्यसौ दैत्यवरो महात्मा
于是塔罗迦弯弓在手,战意炽盛,闯入军阵——如巨鱼入海一般;那位代提耶之首、伟力之士亦复如是。
Verse 49
गणैः समेतो युयुधे तदानीं स वीरभद्रो हि महाबलश्च । सर्वान्सुरांश्चेंद्रमुखान्महाबलस्तथा गणान्यक्षपिशाचगुह्यकान् । स दैत्यवर्योऽतिरुषं प्रविष्टः संमर्दयामास महाबलो हि
当时,毗罗跋陀罗力大无穷,与众伽那并肩而战。那位强者碾压了以因陀罗为首的诸天,又摧破夜叉、毗舍遮与古希耶迦等众。那代提耶之首怒焰冲天,在战阵中将他们踏碎——因其确具大威力。
Verse 50
ततः समभवद्युद्धं देवदानवसंकुलम् । देवदानवयक्षाणां सन्निपातकरं महत्
随后爆发了一场大战,天神与达那婆充塞其间——一场宏大的冲突,使天神、达那婆与夜叉同聚一处,陷入同一片喧腾的交战。
Verse 51
तथा वृषा गर्जमाना अश्वाञ्जघ्नुश्च सादिभिः । रथिभिश्च रथाञ्जघ्नुः कुंजरान्सादिभिः सह
同样地,公牛怒吼震天,连同骑者一并击倒群马;而战车上的勇士又击碎战车,连大象也一同摧折——并将其乘者一并打落。
Verse 52
वृषारूढौः सरथैस्ते च सर्वे निष्पाटिता ह्यसुराः पोथिताश्च
那些阿修罗——或骑公牛,或乘战车——尽被驱逐击退,并在交锋中遭重击而粉碎、折断。
Verse 53
क्षयं प्रणीता बहवस्तदानीं पेतुः पृथिव्यां निहताश्च केचित् । केचित्प्रविष्टा हि रसातलं च पलायमाना बहवस्तथैव
当时许多众生被送入毁灭;有的被杀,倒伏大地。也有的坠入罗娑多罗(Rasātala),而更多的人则惊惧逃散。
Verse 54
केचिच्च शरणं प्राप्ता रुद्रानुचरकिंकरान् । एवं नष्टं तदा सैन्यं विलोक्यासुरपालकः । तारको हि रुषाविष्टो हंतुं देवगणान्ययौ
有些人投奔于随侍鲁陀罗的侍从眷属。见己军如此覆灭,阿修罗的护主塔罗迦(Tāraka)怒火炽盛,遂上前欲诛灭诸天神众。
Verse 55
भुजानामयुतं कृत्वा दैत्यराजो हि तारकः । आरुह्य सिंहं सहसा घातयामास तान्रणे
阿修罗王塔罗迦聚集无数战士,骤然骑上狮子,在战场上猛然出击,将他们击倒斩杀。
Verse 56
दंशितेन च सिंहेन वृषाः केचिद्विदारिताः । तथैव तारकेणैव घातिता बहवो गणाः
被那咬噬凶猛的狮子,有些公牛被撕裂;同样,塔罗迦亲手也杀戮了许多伽那众。
Verse 57
एवं कृतं तदा तेन तारकेण महात्मना । सर्वेषामेव देवानामशक्यस्तारको महान्
当时,大心的塔罗迦便如此行事;对一切诸天而言,强大的塔罗迦确实不可战胜。
Verse 58
जातस्तदा महाबाहुस्त्रैलोक्यक्षयकारकः । तारकस्यानुगा दैत्या अजेया बलवत्तराः
那时兴起一位臂力无双者,成为三界毁灭之因。追随塔罗迦的阿修罗众不可征服,且比从前更为强盛。
Verse 59
महारूढा दंशिताश्च करालास्ते प्रहारिणः । तै राहृता गणाः सर्वे सिंहैश्च वृषभा हताः
他们高踞坐骑,狰狞可怖——具獠牙、面目凶厉——以强猛之击发动进攻。众伽那尽被他们擒拿拖走,而公牛则被群狮所杀。
Verse 60
एवं निहन्यमाना वै गणास्ते रणमण्डले । प्रहस्य विष्णुः प्रोवाच कुमारं शिववल्लभम्
当那些伽那众在战场上被击倒之时,毗湿奴含笑对湿婆所钟爱的童子神库玛罗说道。
Verse 61
विष्णुरुवाच । नान्यो हंतास्य पापस्य त्वद्विना कृत्तिकासुत । तस्मात्त्वया हि कर्त्तव्यं वचनं च महाभुज
毗湿奴说道:“除你之外,无人能诛此罪人,噢,克利提迦诸母之子。故此,噢,臂力无双者,当依此言而行。”
Verse 62
तारकस्य वधार्थाय उत्पन्नोऽसि शिवात्मज । तस्मात्त्वयैव कर्त्तव्य निधनं तारकस्य च
“为诛灭塔罗迦,你而降生,噢,湿婆之子。故此,塔罗迦之毁灭必当由你一人完成。”
Verse 63
तच्छ्रुत्वा भगवान्क्रुद्धः पार्वतीनन्दनो महान् । उवाच प्रहसन्वाक्यं विष्णुं प्रति यथोचितम्
闻此言,大主——帕尔瓦蒂之子——心生忿怒;然仍含笑,向毗湿奴以相称之语作答。
Verse 64
मया निरीक्ष्यते सम्यक्चित्रयुद्धं महात्मनाम् । अनिभिज्ञोऽस्म्यहं विष्णो कार्याकार्यविचारणे
“我已细察诸大灵者这场奇妙之战;然而,噢,毗湿奴,我尚不善于分辨何者当为、何者不当为。”
Verse 65
केऽस्मदीयाः परे चैव न जानामि कथंचन । किमर्थं युध्यमाना वै परस्परवधे स्थिताः
“谁是我方,谁是他方——我全然不知。他们为何争战,竟站在那里一心要互相杀害?”
Verse 66
कुमारस्य वचः श्रुत्वा नारदो वाक्यमब्रवीत्
听闻库玛罗的言语后,那罗陀便开口答复。
Verse 67
नारद उवाच । कुमारोऽसि महाबाहो शंकरस्यांशसंभवः । त्वं त्राता जगतां स्वामी देवानां च परा गतिः
那罗陀说道:“噢,大臂勇者,你是库玛罗,由商羯罗的一分而生。你是诸世界的护持者与主宰,也是诸天的至上归依。”
Verse 68
तारकेण पुरा वीर तपस्तप्तं सुदारुणम् । येनैव विजिता देवा येन स्वर्गस्तथा जितः
“往昔啊,勇士,塔罗迦曾修行极其严酷的苦行;凭此他征服了诸天,甚至使天界也落入其权势之下。”
Verse 69
तपसा तेन चोग्रेण अजेयत्वमवाप्तवान् । अनेनापि जितश्चेंद्रो लोकपालास्तथैव च
凭那严酷的苦行,他获得了不可战胜之身;并且连因陀罗也被他征服,诸方护世者亦复如是。
Verse 70
त्रैलोक्यं च जितं सर्वं ह्यनेनैव रदुरात्मना । तस्मात्त्वया निहंतव्यस्तारकः पापपूरुषः
确实,三界皆被此心性邪恶者所征服;因此,须由你诛杀塔罗迦——这罪恶之徒。
Verse 71
सर्वेषां शं विधातव्यं त्वया नाथेन चाद्य वै । नारदस्य वचः श्रुत्वा कुमारः प्रहसन्महान् । विमाना दवतीर्याथ पदातिः परमोऽभवत्
“今日,噢主宰,你当为一切众生成就安乐。”听闻那罗陀之言,伟大的库玛罗微笑;随即自天车下降,立为至上的步战勇士,备战而出。
Verse 72
पद्म्यां तदासौ परिधावमानः शिवात्मजोयं च कुमाररूपी । करे समादाय महाप्रभावां शक्तिं महोल्कामिव दीप्तियुक्ताम्
随后他在遍布莲花的地面上疾驰——乃是湿婆之子,以库玛罗之形显现——手执大威力的神枪(Śakti),光焰炽盛,如巨大的流星。
Verse 73
दृष्ट्वा तमायांतमतीव चंडमव्यक्तरूपं बलिनां वरिष्ठम् । दैत्यो बभाषे सुरसत्तमानमसौ कुमारो द्विषतां निहंता
见他逼近,凶烈无比,形相幽玄而令人敬畏,为强者之最,那魔族便对诸天之上者说道:“此库玛罗,乃是灭敌之者。”
Verse 74
अनेन सार्द्धं ह्यहमेव वीरो योत्स्यामि सर्वानहमेव वीरान् । गणांश्च सर्वानपि घातयामि महेश्वरांल्लोकपालांश्च सद्यः
“与他交战者,唯我一人——我这英雄——足矣;是的,唯我一人将迎战诸般勇士。我也要击杀一切伽那,甚至诸大主与护世者——立刻!”
Verse 75
इत्येवमुक्त्वा सततं महाबलः कुमारमुद्दिश्य ययौ च योद्धम् । जग्राह शक्तिं परमाद्भुतां च स तारको वाक्यमिदं बभाषे
说完这话,那位拥有无穷力量者便冲向鸠摩罗准备战斗。他握起一支极其神奇的长矛,塔拉卡随即说了这番话。
Verse 76
तारक उवाच । कुमारो मेग्रतश्चाद्य भवद्भिश्च कथं कृतः । यूयं गतत्रपा देवा येषां राजा पुरंदरः
塔拉卡说:“你们今天怎么让这鸠摩罗站在我面前?你们这些众神真是无耻——你们的国王是普兰达拉(因陀罗)!”
Verse 77
पुरा येन कृतं कर्म विदितं सर्वमेव तत् । प्रसुप्ताश्चार्द्दिता गर्भे जठरस्था निपातिताः
“他过去所做的一切恶行都已众所周知——那些熟睡者是如何被折磨的,那些在母胎中的生命是如何被击杀的。”
Verse 78
कश्यपस्यात्मजेनैव बहुरूपो हतोऽसुरः । नमुचिश्च हतो वीरो वृत्रश्चैव तथा हतः
“唯独迦叶波之子杀死了那个千变万化的阿修罗;英雄那穆契被杀,同样弗栗多也被杀害。”
Verse 79
कुमारं हंतुमोसौ देवेंद्रो बलघातकः । कुमारोऽयं मया देवा घातितोद्य न संशयः
“那个依靠武力杀敌的因陀罗,意图借刀杀人除掉鸠摩罗。但今天,众神啊,这鸠摩罗必将死于我手——这一点毫无疑问。”
Verse 80
पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः । तत्कर्मणः फलं चाद्य वीरभद्र महामते । दर्शयिष्यामि ते वीर रणे रणविशारद
从前在达克沙的祭祀中,你曾杀害许多婆罗门。如今,噢大智的毗罗跋陀罗——精于战阵的勇士——我将在战场上向你显现那业行的果报。
Verse 81
इत्येवमुक्त्वा स तदा महात्मा दैत्याधिपो वीरवरः स एकः । जग्राह शक्तिं परमाद्भुतां च स तारको युद्धविदां वरिष्ठः
说罢,那位大魂的代底耶之主、无双勇士——塔罗迦,诸战艺之最——便执起一柄极其奇妙的“沙克提”神枪。
Verse 82
इति परमरुषभिभूतो दितितनयः परीवृतोऽसुरेंद्रैः । युधि मतिमकरोत्तदा निहंतुं समरविजयी स तारको बलीयान्
于是,狄蒂之子被狂烈之怒所压倒,周围簇拥着诸阿修罗之王;强盛而常胜于战的塔罗迦,遂在交锋中决意诛杀其敌。