
第20章以圣贤集会的提问开篇:既然梵天、毗湿奴与鲁陀罗都被描述为具相具德(saguṇa),那么伊湿(Īśa)如何既呈现为林伽之形,又是无相无德(nirguṇa)?由苏多传述、归于毗耶娑教诲的回答阐明:林伽乃无德之至我(Paramātman)的象征性形相;而显现世界为摩耶所制约,遍满三德(triguṇa),故究竟无常、终归坏灭。 随后叙事转入神话史:萨蒂(Dākṣāyaṇī)于祭火事件中离身之后,湿婆在喜马拉雅山中与众伽那及随从环绕,修行严峻苦行。其间阿修罗势力兴起;塔拉卡从梵天处得赐福,并带有明确限制——唯有孩童能击败他——遂成诸天大患。诸天求策,天启之声宣示:唯湿婆之子可诛塔拉卡。于是诸天前往希摩伐特(Himavat),与梅娜(Menā)商议后,希摩伐特允诺诞生一位堪为湿婆配偶之女。最终,吉利迦(Girijā)降生——至上圣力(Śakti)的再显——宇宙同庆,诸神与圣贤的信心亦得以复苏。
Verse 1
ऋषय ऊचुः । ब्रह्मा विष्णुश्च रुद्रश्च सगुणाः कीर्तितास्त्वया । लिंगरूपी तथैवेशो निर्गुणोऽसौ कथं वद
诸仙人说道:你称梵天、毗湿奴与鲁陀罗为具德者(有相、saguṇa)。然而同一位主宰,虽以林伽之形示现,却又被说为离德无相(nirguṇa)——请说明此理。
Verse 2
त्रिभिर्गुणैर्व्याप्तमिदं चराचरं जगन्महद्व्याप्यथ वाल्पकं वा । मायामयं सर्वमिदं विभाति लिंगं विना केन कुतोविभाति
此一切宇宙——动与不动、广大或微小——皆为三种古那所遍满。万有皆如摩耶之显现;若无林伽(主之标志与临在),又凭谁、以何方式而得显现?
Verse 3
यद्दृश्यमानं महदल्पकं च तन्नश्वरं कृतकत्वाच्च सूत
噢,苏多啊,凡所见之物——或大或小——皆为无常可坏,因为它是造作所生、为缘所系。
Verse 4
तस्माद्विमृश्य भोः सूत संशयं छेत्तुमर्हसि । व्यासप्रसादात्सकलं जानासि त्वं न चापरः
因此,噢苏多啊,当善加思惟,理应断除此疑。承毗耶娑之恩,你已圆满通达一切;除你之外,更无他人如你般堪能开示。
Verse 5
सुत उवाच । व्यासेन कथितं सर्वमस्मिन्नर्थे शुकं प्रति । शुक उवाच । लिंगरूपी कथं शंभुर्निर्गुणः कथते त्वया । एतन्मे संशयं तात च्छेत्तुमर्हस्यशेषतः
苏多曰:此义一切,毗耶娑皆已向舒迦详说。舒迦曰:商婆具林伽之形,你却称其为“离诸德相”(nirguṇa),此何以故?慈父啊,愿你彻底断除我此疑。
Verse 6
व्यास उवाच । श्रुणु वत्स ब्रवीम्येतत्पुरा प्रोक्तं च नंदिना । अगस्त्यं पृच्छमानं च येन सर्वं श्रुतं शुक
毗耶娑曰:爱子啊,且听我言——我将述说往昔难陀因陀所宣说之教,当时阿迦斯提耶发问。噢舒迦,由此教诲,一切皆得闻而了悟。
Verse 7
निर्गुणं परमात्मानं विद्धि लिंगस्वरूपिणम् । परा शक्तिस्तथा ज्ञेया निर्गुणा शाश्वती सती
当知至上我(Paramātman)超越三德(guṇa),其本体之相即为林伽(Liṅga)。同样,至上神力(Parā Śakti)亦应了知为无德(nirguṇa)——恒常不变,永真实在。
Verse 8
यया कृतिमिदं सर्वं गुणत्रयविभावितम् । एतच्चराचरं विश्वं नश्वरं परमार्थतः
由她(Śakti)之力,此一切显现的造化皆因三德(guṇa)而得以运转。然此动与不动的全宇宙,于最高真谛中终归无常、必坏。
Verse 9
एक एव परो ह्यात्मा लिंगरूपी निरंजनः । प्रकृत्या सह ते सर्वे त्रिगुणा विलयं गताः
至上我唯有一者——清净无垢,示现为林伽(Liṅga)之相。与自性(Prakṛti)同在时,彼三德(guṇa)皆归于消融(入于彼)。
Verse 10
यस्मिन्नेव ततो लिंगं लयनात्कथितं पुरा । तस्माल्लिंगे लयं प्राप्ता परा शक्तिः कुतोऽपरे
因此,先前称之为“林伽(Liṅga)”,正因万有皆归融于其中。既然至上神力(Parā Śakti)亦在彼林伽中归于消融,其他诸法又岂能不然?
Verse 11
लीना गुणाश्च रुद्रोक्त्या यैरिदं बद्धमेव च । चराचरं महाभाग तस्माल्लिंगं प्रपूजयेत्
三德(guṇa)——依鲁陀罗(Rudra)之宣说——已归于消融;然而正是它们使此动与不动之世间受缚。故而,贤善之人啊,当以至诚大敬礼拜林伽(Liṅga)。
Verse 12
लिंगं च निर्गुणं साक्षाज्जानीध्वं भो द्रिजोतमाः । लयाल्लिंगस्य माहात्म्यं गुणानां परिकीर्त्यते
诸位最胜的二次生者,当亲自了知:林伽(Liṅga)本为离三德(guṇa)之无德(nirguṇa)。正因万有归融于其中(laya),故宣说林伽之大威德,并兼明三德之理。
Verse 13
शंकरः सुखदाता हि उच्यमानो मनीषिभिः । सर्वो हि कथ्यते विप्राः सर्वेषामाश्रयो हि स
贤圣称祂为“商羯罗”(Śaṅkara),因为祂赐予安乐。诸婆罗门啊,祂又名“萨尔瓦”(Sarva),因为祂是一切众生的归依处。
Verse 14
शंभुर्हि कथ्यते विप्रा यस्माच्च शुभसंभवः
又,诸婆罗门啊,祂名“商布”(Śambhu),因为一切吉祥与善妙皆由祂而生。
Verse 15
एवं सर्वाणि नामानि सार्थकानि महात्मनः । तेनावृतं जगत्सर्वं शंभुना परमेष्ठिना
如是,此大灵(Mahātman)的一切圣名皆具圆满义趣。由彼商布——至上主宰——遍入并包覆此整个世界。
Verse 16
ऋषय ऊचुः । यदा दाक्षायणी चाग्नौ पतिता यज्ञकर्मणि । दक्षस्य च महाभागा तिरोधानगता सती
诸仙人说道:“当达克沙之女达克沙耶妮(萨蒂)在祭祀仪轨中坠入祭火之时,那位尊贵的萨蒂遂从众目之前隐没——”
Verse 17
प्रादुर्भूता कदा सूत कथ्यतां तत्त्वयाऽधुना । परा शक्तिर्महेशस्य मिलिता च कथं पुनः
苏塔啊,她何时再次显现?请据实以此告知我们。摩黑湿伐罗的无上力量又是如何再次与他结合的?
Verse 18
एतत्सर्वं महाभाग पूर्ववृत्तं च तत्त्वतः । कथनीयं च अस्माकं नान्यो वक्तास्ति कश्चन
大福泽者啊,请将这一切——以前发生过的事情——原原本本地告诉我们。对我们来说,没有其他人比你更适合讲述了。
Verse 19
सूत उवाच । जज्ञे दाक्षायणी ब्रह्मन्विदग्धावयवा यदा । विना शक्त्या महेशोऽपि तताप परमं तपः
苏塔说:“婆罗门啊,当达刹之女(Dākṣāyaṇī)——她的肢体被烧毁——死去时,即使是失去了萨克蒂(Śakti)的摩黑湿伐罗,也进行了最高的苦行。”
Verse 20
लीलागृहीतवपुषा पर्वते हिमवद्गिरौ । भृंगिणा सह विश्वेन नंदिना च तथैव च
他在喜马拉雅山(Himavat)上以神圣的游戏(Lila)化现身形,由婆灵祇(Bhṛṅgī)、毗湿婆(Viśva)以及南迪(Nandin)陪伴。
Verse 21
तथा चंडेन मुंडेन तथान्यैर्बहुभिर्वृतः । दशभिः कोटिगुणितैर्गणैश्च परिवारितः
他被强达(Caṇḍa)和蒙达(Muṇḍa)以及许多其他人簇拥着——被数以亿计的伽那(gaṇas)大军包围。
Verse 22
गणानां चैव कोट्या च तथा षष्टिसहस्रकैः । एवं तत्र गणैर्देव आवृतो वृषभध्वजः
有一俱胝的伽那,又加六万——于是彼处,牛幡之主弗ṛṣabhadhvaja(即湿婆,旗上有牛)为其伽那众围绕。
Verse 23
तपो जुषाणः सहसा महात्मा हिमालयस्याग्रगतस्तथैव । गणैर्वृतो वीरभद्रप्रधानैः स केवलो मूलविद्याविहीनः
那大魂者乐于苦行,迅疾来到喜马拉雅之前锋。虽为以毗罗跋陀罗为首的伽那众所围绕,他却仍似独处——仿佛失却本初之明(即离于圣力Śakti)。
Verse 24
एतस्मिन्नंतरे दैत्याः प्रादुर्भूता ह्यविद्यया । विष्णुना हि बलिर्बद्धस्तथा ते वै महाबलाः
其间,由无明而诸代提耶显现。诚然,婆利曾为毗湿奴所缚;而那些亦皆具大力。
Verse 25
जाता दैत्यास्ततो विप्रा इंद्रोपद्रवकारकाः । कालखंजा महारौद्राः कालकायास्तथापरे
随后,婆罗门啊,诞生了使因陀罗受扰的代提耶——有的名为迦罗坎阇,极其凶猛;另有名为迦罗迦耶者。
Verse 26
निवातकवचाः सर्वे रवरावकसंज्ञकाः । अन्ये च बहवो दैत्याः प्रजासंहारकारकाः
一切尼伐多迦伐遮众——亦名罗伐罗伐迦——并诸多其他檀那婆,皆成毁灭之使者,使众生遭逢覆灭。
Verse 27
तारको नमुचेः पुत्रस्तपसा परमेण हि । ब्रह्माणं तोषयामास ब्रह्मा तस्य तुतोष वै
那摩拘之子塔罗迦以至上的苦行取悦了梵天;梵天也确实对他心生满足。
Verse 28
वरान्ददौ यथेष्टांश्च तारकाय दुरात्मने । वरं वृणीष्व भद्रं ते सर्वान्कामान्ददामि ते
他便按那恶心的塔罗迦所愿赐下诸般恩赐,说:“择一恩赐吧——愿你得吉祥;你所求的一切愿望,我都赐与你。”
Verse 29
तच्छत्वा वचनं तस्य ब्रह्मणः परमेष्ठिनः । वरयामास च तदा वरं लोकभयावहम्
听闻梵天——至上安立者——的这番话后,他当即选择了一项恩赐:一项将令诸世界生怖的恩赐。
Verse 30
यदि मे त्वं प्रसन्नऽसि अजरामरतां प्रभो । देहि मे यद्विजानासि अजेयत्वं तथैव च
“若你确实悦纳于我,主宰啊,请赐我不老不死;并且也赐我不可战胜之身——凡你知可赐者,尽赐于我。”
Verse 31
एवमुक्तस्तदा तेन तारकेण दुरात्मना । उवाच प्रहसन्वाक्यममरत्वं कुतस्तव
被那恶心的塔罗迦如此请求,梵天含笑答道:“不死之身,岂能属于你?”
Verse 32
जातस्य हि ध्रुवो मृत्युरेतज्जानीहि तत्त्वतः । प्रहस्य तारकः प्राह अजेयत्वं च देहि मे
凡已出生者,死亡必定到来——当如实知此真理。于是塔罗迦含笑说道:“也请赐我不败、不可战胜之身。”
Verse 33
ब्रह्मोवाच तदा दैत्यजेयत्वं तवानघ । विनार्भकेण दत्तं वै ह्यर्भकस्त्वां विजेष्यते
梵天说道:“无垢的阿修罗啊,不败之恩赐予你——但有一例外:唯有一名孩童,必将战胜你。”
Verse 34
तदा स तारकः प्राह ब्रह्माणं प्रणतः प्रभो । कृतार्थोऽहं हि देवेश प्रसादात्तव संप्रति
于是塔罗迦向梵天俯首顶礼,说道:“主宰啊,诸天之主啊,承蒙您的恩泽,我今已得遂所愿。”
Verse 35
एवं लब्धवरो भूत्वा तारको हि महाबलः । देवान्युद्धार्थमाहूय युयुधे तैः सहासुरः
于是,得了恩赐的强大塔罗迦召集诸天赴战,那阿修罗便与他们交锋厮杀。
Verse 36
मुचुकुन्दं समाश्रित्य देवास्ते जयिनोऽभवन् । पुनः पुनर्विकुर्वाणा देवास्ते तारकेण हि
诸天依止牟珠昆陀王而得胜。然而一次又一次,那些天神仍被搅乱动荡——确实皆因塔罗迦之故。
Verse 37
मुचुकुन्दबलेनैव जयमापुःसुरास्तदा । किं कर्तव्यं हि चास्माकं युध्यमानैर्निरंतरम्
唯凭牟朱昆达之力,诸天当时得获胜利。然而我们仍不停息地征战,如今我们究竟当作何举?
Verse 38
भवितव्यमिति स्मृत्वा गतास्ते ब्रह्मणः पदम् । ब्रह्मणश्चाग्रतो भूत्वा ह्यब्रुवंस्ते सवासवाः
忆念“必当如此”,他们前往梵天的居处。立于梵天之前,那些天神与因陀罗一同开口陈说。
Verse 39
देवा ऊचूः । बलिना सह पातालमास्तेऽसौ मधुसूदनः । विष्णुं विना हि ते सर्वे वृषाद्याः पतिताः परैः
诸天说道:“那位摩度苏达那(毗湿奴)与婆利同住于波多罗。没有毗湿奴,我们众神——自弗利沙等起——都被敌人击倒。”
Verse 40
दैत्येंद्रैश्च महाभाग त्रातुमर्हसि नः प्रभो । तदा नभोगता वाणी ह्युवाच परिसांत्व्य वै
“大福德之主啊,愿你救护我们脱离诸达那婆之王。”随即,空中传来一道声音,确实安慰了他们。
Verse 41
हे देवाः क्रियतामाशु मम वाक्यं हि तत्त्वतः । शिवात्मजो यदा देवा भविष्यति महाबलः
“诸天啊,当迅速而如实地奉行我的话:当湿婆之子降生之时——诸天啊——他将具足大威力。”
Verse 42
युद्धे पुनस्तारकं च वधिष्यति न संशयः । येनोपायेन भगवाञ्छंभुः सर्वगुहाशयः
在战场上,他必定诛灭塔罗迦(Tāraka),毫无疑虑。无论以何方便,去亲近并奉敬那位吉祥的商布(Śambhu)——他住在一切众生心中隐秘之处……
Verse 43
दारापरिग्रही देवास्तथा नीतिर्विधीयताम् । क्रियतां च परो यत्नो भवद्भिर्नान्यथा वचः
诸天啊,当使湿婆(Śiva)成为纳受配偶者;此乃应当筹定的正策。并且你们当竭尽至上的努力;我之言绝无他意。
Verse 44
यूयं देवा विजानीध्वमित्युवाचाशरीरवाक् । परं विस्मयमापन्ना ऊचुर्देवाः परस्परम्
“诸天当明了此意(并依之而行)。”无形之声如是说道。众神大为惊异,彼此相告而议。
Verse 45
श्रुत्वा नभोगतां वाणीमाजग्मुस्ते हिमालयम् । बृहस्पतिं पुरस्कृत्य सर्वे देवा वचोऽब्रुवन्
听闻那来自天际的声音,他们便前往喜马拉雅。以布里哈斯帕提(Bṛhaspati)为首,诸神一同陈述祈请之辞。
Verse 46
हिमालयं महाभागाः सर्वे कार्यार्थगौरवात् । हिमालय महाभाग श्रूयतां नोऽधुना वचः
因其神圣使命之重大,诸位有福者皆趋近喜马拉雅,说道:“吉祥的喜马拉雅啊,请今且聆听我等之言。”
Verse 47
तारकस्त्रासयत्यस्मान्साहाय्यं तद्वधे कुरु । त्वं शरण्यो भवास्माकं सर्वेषां च तपस्विनाम् । तस्मात्सर्वे वयं याता महेंद्रसहिता विभो
“塔罗迦使我们惊惧;愿赐助力以诛灭他。愿为我等及一切苦行仙之归依。故我等众神与摩诃因陀罗(因陀罗)同来,噢大威力者。”
Verse 48
लोमश उवाच । एवमभ्यर्थितो देवैर्हिमवान्गिरिसत्तमः । उवाच देवान्प्रहसन्वाक्यं वाक्यविदां वरः
罗摩沙说:诸天如此祈请之时,喜马梵——群山之最胜者——含笑对诸天开口,乃善言辞者中之翘楚。
Verse 49
महेन्द्र मुद्दिश्य तदा ह्युपहाससमन्वितः । अक्षमाश्च वयं सर्वे महेन्द्रेण कृताः सुराः
随后他望向摩诃因陀罗(因陀罗),带着温和的戏谑说道:“我等诸神尽皆成了无能之辈——皆由摩诃因陀罗所致。”
Verse 50
किं कुर्मः सुरकार्यं च तारकस्य वधं प्रति । पक्षयुक्ता वयं सर्वे यदि स्याम सुरोत्तमाः
“若我等众神皆无依无援、缺少同盟,纵被称为天中最胜,又如何能完成诸天之事——诛杀塔罗迦呢?”
Verse 51
तदा वयं घातयामस्तारकं सह बांधवैः । अचलोहं विपक्षश्च किं कार्यं करवाणि व
“若真得所需援助,我等必将塔罗迦连同其族类一并击灭。然我乃山岳——不可移动——且在此事上仿佛立于对立一方;我究竟能作何作为?”
Verse 52
तस्य तद्वचनं श्रुत्वा सर्वे देवास्तमब्रुवन् । सर्वे यूयं वयं चैव असमर्था वधं प्रति । तारकस्य महाभाग एतत्कार्यं विचंत्यताम्
众天神听了他的话,便对他说:“就现状而言,你与我们都无力诛灭塔罗迦。大德者啊,愿此事深思熟虑——当以何法成办。”
Verse 53
येन साध्यो भवेच्छत्रुस्तारको हि महाबलः । तदोवाच महातेजा हिमवान्स सुरान्प्रति
“当以何种方法,方能降伏那强力无比的敌人塔罗迦?”于是光辉炽盛的喜马梵对诸天神说道。
Verse 54
केनोपायेन भो देवास्तारकं हंतुमिच्छथ । कथयंतुत्वरेणैव कार्यं वेत्तुं ममैव हि
“诸天神啊,你们欲以何计诛杀塔罗迦?速速告我,因为我须立刻明了此事。”
Verse 55
तदा सुरैः कथितं सर्वमेतद्वाण्या चोक्तं यत्पुरा कार्यहेतोः । श्रुतं तदा गिरिणा वाक्यमेत हिमवान्पर्वतो हि
于是诸天神将一切尽皆陈说,并复述了先前为成就天界大业而由瓦妮(语神/萨拉斯瓦蒂)所宣示之言。喜马梵这座大山遂听闻其语。
Verse 56
शिवस्य पुत्रेण च धीमता यदा वध्यो दैत्यस्तारको वै महात्मा । तदा सर्वं सुरगकार्यं शुभंस्याद्वाण्या चोक्तं सत्यमेतद्भवेच्च
“当那大魔塔罗迦被具慧的湿婆之子所诛灭之时,诸天神的一切事业皆将吉祥圆满。此乃瓦妮之神谕所宣说,必将真实应验。”
Verse 57
तस्मात्तदेनत्क्रियतां भवद्भिर्यथा महेशः कुरुते परिग्रहम् । कन्या यथा तस्य शिवस्य योग्या निरीक्ष्यतामाशु सुरैरिदानीम्
因此,你们当如此行:安排使摩诃伊沙(大天)接受新娘。愿诸天即刻、就在此时,寻觅一位堪配那位湿婆的贞洁少女。
Verse 58
तस्य तद्वचनं श्रुत्वा प्रहस्योचुः सुरास्तदा । जनितव्या त्वया कन्या शिवार्थं कार्यसिद्धये
诸天听了他的话,含笑说道:“为着湿婆、为使所图之事得以成就,你当生出一位女儿。”
Verse 59
सुराणां च गिरे वाक्यं कुरु शीघ्रं महामते । आधारस्त्वं तु देवानां भविष्यसि न संशयः
大心之山啊,速速奉行诸天之言。你必成为诸天的依止与支柱,此无疑也。
Verse 60
इत्युक्तो गिरिराजोऽथ देवैः स्वगृहमामाविशत् । पत्नीं मेनां च पप्रच्छ सुकार्यं समागतम्
诸天如此告诫之后,山王便进入自己的宫居,询问妻子梅那:那已临至手中的吉祥之事当如何成办。
Verse 61
जनितव्या सुकन्यैका सुरकार्यार्थसिद्धये । देवानां च ऋषीणां च तथैव च तपस्विनाम्
当有一位贤善之女降生,以成就诸天之所愿;亦为诸天、诸仙圣(ṛṣi)与诸苦行者之利益。
Verse 62
प्रियं न भवति स्त्रीणां कन्याजननसेव च । तथापि जनितव्या च कन्यैका च वरानने
对女子而言,生养女儿常被视为不甚可喜之事。然而即便如此,噢容颜姣美者,仍当必定诞生一位女儿。
Verse 63
प्रहस्य मेना प्रोवाच स्वपतिं च हिमालयम् । यदुक्तं भवता वाक्यं श्रूयतां मे त्वयाऽधुना
梅那含笑对其夫喜马拉雅说道:“如今请听我说,关于你先前所言之语。”
Verse 64
कन्या सदा दुःखकरी नृणां पते स्त्रीणां तथा शोककरी महामते । तस्माद्विमृश्य सुचिरं स्वयमेव बुद्ध्या यथा हितं शैलपते तदुच्यताम्
“女儿啊,”噢人中之主,“常为劳苦之因;对女子亦然,她亦成忧愁之由,噢大心者。故此,噢山岳之主,当以自家慧辨久加思量,然后说出真正有益之言。”
Verse 65
हिमवांस्तदुपश्रुत्या प्रियाया वचनं तदा । उवाच वाक्यं मेधावी परोपकरणान्वितम्
喜摩梵听罢爱妻之言,当即开口——智者也,怀济人利世之意。
Verse 66
येनयेन प्रकारेण परेषामुपजीवनम् । भविष्यति च तत्कार्यं धीमता पुरुषेण हि
凡能以何种方式确保他人之生计与依靠者,智者当即应行其事。
Verse 67
स्त्रियापि चैव तत्कार्यं परोपकरणान्वितम् । एवं प्रवर्तिता तेन गिरिणा महिषी तदा । दधार जठरे कन्यां मेना भाग्यवती तदा
助益他人的本分,即使女子亦当奉行。于是,在雪山王希摩梵的教诲与引导下,其王后福德具足的梅那,便于腹中怀孕一位女儿。
Verse 68
महाविद्या महामाया महामेधास्वरूपिणी । रुद्रकाली च अंबा च सती दाक्षायणी परा
她是大明智(Mahāvidyā)、大幻力(Mahāmāyā),乃至上智慧之化身;她是鲁陀罗迦梨(Rudrakālī),亦是母神安芭(Ambā)——萨蒂(Satī),超越的达叉之女(Dākṣāyaṇī)。
Verse 69
तां विभूतिं विशालाक्षी जठरे परमां सती । बभार सा महाभागा मेना चारुविलोचना
梅那福德深厚,眼眸广大而秀美;她在腹中怀抱那至上光辉——最胜的萨蒂。
Verse 70
स्तुतिं चक्रुस्तदा देवा ऋषयो यक्षकिन्नराः । मेनाया भूरिभाग्यायास्तथा हिमवतो गिरेः
于是诸天、诸仙圣(ṛṣi),以及夜叉与紧那罗齐声赞颂,庆贺梅那与雪山希摩梵所具的丰厚福运。
Verse 71
एतस्मिन्नंतरे जाता गिरिजा नाम नामतः । प्रादुर्भूता यदा देवी सर्वेषां च सुखप्रदा
其间,她诞生于世,名号称为“吉丽迦”(Girijā)。当女神如是显现之时,便成为赐予众生安乐者。
Verse 72
देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः । जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः
天鼓轰然作响;众阿普萨罗(天女)起舞。乾闼婆之主歌唱吟诵,天女复又翩然而舞。
Verse 73
पुष्पवर्षेण महता ववृषुर्विबुधास्तथा । तदा प्रसन्नमभवत्सर्वं त्रैलोक्यमेव च
诸天降下盛大的花雨。于是三界尽皆安宁欢悦。
Verse 74
यदावतीर्णा गिरिजा महासती तदैव दैत्या भयमाविशंस्ते । प्राप्ता मुदं देवगणा महर्षयः सचारणाः सिद्धगणास्तथैव
当吉丽迦(Girijā)这位大萨蒂降临之时,刹那之间,代底耶众被恐惧攫住;而诸天众与大圣仙——连同恰罗那与悉达诸众——皆充满欢喜。