Adhyaya 12
Mahesvara KhandaKedara KhandaAdhyaya 12

Adhyaya 12

罗摩沙讲述为求甘露而再度搅拌乳海:持甘露壶(amṛta-kalaśa)的医神檀梵多利(Dhanvantari)出现,却被阿修罗以强力夺走。诸天神惊惶失措,前往归依那罗延(Nārāyaṇa);主安慰他们,并化现为摩希尼(Mohinī),以夺回分配甘露的主导权。 阿修罗内部起争执;巴利(Bali)恭敬请求摩希尼来分甘露。摩希尼以合乎世俗礼法的劝导与巧言说服,并设下仪式性的拖延——斋戒、通宵守夜、清晨沐浴——随后令阿修罗整齐列坐。继而她巧妙安排斟酌,使甘露归于诸天神。 罗睺(Rāhu)与计都(Ketu)伪装混入天神之列;罗睺欲饮时,被日神与月神揭露,毗湿奴(Viṣṇu)遂斩其首,宇宙的扰动被归因于其断裂之身。故事又落于圣地地理:解释摩诃提婆(Mahādeva)的立姿,以及毗ḍ那(Pīḍana)、摩诃罗耶(Mahālaya)等地名由来;计都在归还甘露后隐没。章末明示教诲:所谓“戴瓦”(daiva,天命/神圣秩序)胜过单凭人力的作为,而阿修罗因此愤怒不已。

Shlokas

Verse 1

लोमश उवाच । प्रणम्य परमात्मानं रमायुक्तं जनार्द्दनम् । अमृतार्थं ममंथुस्ते सुरासुरगणाः पुनः

罗摩沙说道:众神与阿修罗向与罗摩(室利)相合的至上自性——阇那尔达那顶礼后,为求不死甘露阿姆利塔,再次搅动大海。

Verse 2

उदधेर्मथ्यमानाच्च निर्गतः सुमहायशाः । धन्वंतरिरिति ख्यातो युवा मृत्युञ्जयः परः

当大海被搅动之时,出现了一位声名赫赫者——名为檀梵多利——青春而尊胜,至上无比,能胜死神。

Verse 3

पाणिभ्यां पूर्णकलशं सुधायाः परिगृह्य वै । यावत्सर्वे सुराः सर्वे निरीक्षंते मनोहरम्

他双手捧持盛满苏陀(甘露)的宝瓶而立;诸天众神皆凝望那悦目殊胜的景象。

Verse 4

तदा दैत्याः समं गत्वा हर्तुकामा बलादिव । सुधया पूर्णकलशं धन्वंतरिकरे स्थितम्

这时,代底耶众齐齐逼近,欲以强力夺取,直指檀梵多利手中那盛满甘露的宝瓶。

Verse 5

यावत्तरंगमालाभिरावृतोऽभूद्भिषक्तमः । शनैः शनैः समायातो दृष्टोऽसौ वृषपर्वणा

当那至上的医王被层层浪花如花鬘般遮掩时,他缓缓向前而来;弗利沙帕尔梵看见了他。

Verse 6

करस्थः कलशस्तस्य हृतस्तेन बलादिव । असुराश्च ततः सर्वे जगर्जुरतिभीषणम्

他手中的宝瓶被那人以强力夺走;随即诸阿修罗齐声咆哮,凶怖震天。

Verse 7

कलशं सुधया पूर्णं गृहीत्वा ते समुत्सुकाः । दैत्याः पातालमाजग्मुस्तदा देवा भ्रमान्विताः

众代提耶兴奋不已,夺取盛满甘露的宝瓶,便下入帕塔拉;其时诸天神心神错乱,陷入迷惘。

Verse 8

अनुजग्मुः सुसंनद्धा योद्धुकामाश्च तैः सह । तदा देवान्समालोक्य बलिरेवमभाषत

他们全副武装,欲与之并肩作战,遂紧追不舍。此时婆利见到诸天神,便如此说道。

Verse 9

बलिरुवाच । वयं तु केवलं देवाः सुधया परितोषिताः । शीघ्रमेव प्रगंतव्यं भवद्भिश्च सुरोत्तमैः

婆利说道:“唯有我们才是‘诸神’,因甘露而满足。你们亦然,哦,苏罗中最胜者,当即刻离去。”

Verse 10

त्रिविष्टपं मुदा युक्तैः किमस्माभिः प्रयोजनम् । पुरास्माभिः कृतं मैत्रं भवद्भिः स्वार्थतत्परैः । अधुना विदितं तत्तु नात्र कार्या विचारणा

“三十三天(Triviṣṭapa)纵使与欢喜相伴,于我们又有何用?往昔我们曾与你们结为盟友,而你们只顾自身之利。如今此事已明了,此处不必再作思量。”

Verse 11

एवं निर्भार्त्सितास्तेन बलिना सुरसत्तमाः । यथागतेन मार्गेण जग्मुर्नारायणं प्रभुम्

诸天中最殊胜者被巴厘如此呵斥后,便循着来时之路退去,前往至上主那罗延那。

Verse 12

तं दृष्ट्वा विष्णुना सर्वे सुरा भग्नमनोरथा । आश्वासिता वचोभिश्च नानानुनयको विदैः

众神见到毗湿奴时,因愿望破碎而心灰意冷者,皆被他善巧多方的安慰与劝谕之言所抚慰。

Verse 13

मा त्रासं कुरुतात्रार्थ आनयिष्यामि तां सुधाम् । एवमाभाष्य भगवान्मुकुन्दोऽनाथसंश्रयः

“此事勿惧;我必取来那苏陀——不死甘露。”如是宣言后,世尊穆昆达——无依者之依——便准备施行。

Verse 14

स्थापयित्वा सुरान्सर्वांस्तत्रैव मधुसूदनः । मोहनीरूपमास्थाय दैत्यनामग्रतोऽभवत्

安置诸天尽皆留在原处后,摩度苏达那化现为摩希尼之形,出现在达那婆(代提耶)众前。

Verse 15

तावद्दैत्याः सुसंरब्धाः परस्परमथाब्रुवन् । विवादः सर्वदैत्यानाममृतार्थे तदाऽभवत्

其时,代提耶众极为躁动,彼此争言;于是为那甘露(阿姆利多)之故,诸代提耶之间爆发了争斗。

Verse 16

एवं प्रवर्तमाने तु मोहिनीरूपमाश्रिताम् । दृष्ट्वा योषां तदा दैवात्सर्वभूतमनोरमाम्

当诸事如此进行之时,他们因缘所致,看见一位女子化现为摩希尼(Mohinī)之相,姿容惑人,令一切众生心悦神迷。

Verse 17

विस्मयेन समाविष्टा बभूवुस्तृषितेक्षणाः । तां संमान्य तदा दैत्यराजो बलिरुवाच ह

众人惊异所摄,目光渴慕,紧紧凝视于她。于是礼敬其身,代提耶之王婆利(Bali)开口说道。

Verse 18

बलिरुवाच । सुधा त्वया विभक्तव्या सर्वेषां गतिहेतवे । शीघ्रत्वेन महाभागे कुरुष्व वचनं मम

婆利说道:“此甘露当由汝来分配,以成就并利益一切众生之归趣。吉祥的女子啊,速速依我所言而行。”

Verse 19

एवमुक्ता ह्युवाचेदं स्मयमाना बलिं प्रति । स्त्रीणां नैव च विश्वासः कर्तव्यो हि विपश्चिता

她闻言便含笑对婆利答道:“智者实不应轻信女子。”

Verse 20

अनृतं साहसं माया मूर्खत्वमति लोभता । अशौचं निर्घृणत्वं च स्त्रीणां दोषाः स्वभावजाः

“虚妄、鲁莽之暴行、幻术欺诳、愚昧、过度贪欲、不净与无悲悯——这些被宣说为女子与生俱来的过失。”

Verse 21

निःस्नेहत्वं च विज्ञेयं धूर्तत्वं चैव तत्त्वतः । स्वस्त्रीणां चैव विज्ञेया दोषा नास्त्यत्र संशयः

应当如实了知:无情无爱与欺诳狡诈;即便在自家妇女之中,也应明白这是过失——对此毫无疑惑。

Verse 22

यथैव श्वापदानां च वृका हिंसापरायणाः । काका यतांडजानां च श्वापदानां च जंबुकाः । धूर्ता तथा मनुष्याणां स्त्रीज्ञेया सततं बुधैः

正如群兽之中狼恒趋于残害;又如卵生之类以乌鸦为著;群兽之中以豺为狡黠所知——同样,在人类之中,智者常以女子为恒常欺诳者。

Verse 23

मया सह भवद्भिश्च कथं सख्यं प्रवर्तते । सर्वथात्र न विज्ञेयाः के यूयं चैव क ह्यहम्

“我与你们诸位之间,怎能真正生起友谊?因为在此处,无论如何都不可得知——你们是谁,而我又是谁。”

Verse 24

तस्माद्भवद्भिः संचिंत्यकार्याकार्यविचक्षणैः । कर्तव्यं परया बुद्ध्या प्रयातासुरसत्तमाः

因此,阿修罗中之最胜者啊,你们善于辨别当作与不当作;当深思熟虑,然后以至上智慧而行,遂依此出发。

Verse 28

बलिरुवाच । अद्यामृतं च सर्वेषां विभजस्व यथातथम् । त्वया दत्तं च गृह्णीमः सत्यंसत्यं वदामि ते

婆利说道:“今日当将甘露分与众人,随其分量,合乎其宜。凡由你所赐,我们皆受——此乃真实;我确实如是告汝。”

Verse 29

एवमुक्ता तदा देवी मोहिनी सर्वमंगला । उवाचाथासुरान्सर्वान्रोचयंल्लौकिकीं स्थितिम्

如是被启请后,常具吉祥的女神摩希尼便对一切阿修罗开示,称许并劝导他们遵循世间之行持。

Verse 30

भगवानुवाच । यूयं सर्वे कृतार्थाश्च जाता दैवेन केनचित् । अद्योपावाससंयुक्ता अमृतस्याधिवासनम्

世尊曰:“汝等皆已真实成就所求,此乃某种天意之安排。今日汝等与持斋(upavāsa)相应,已堪受灌顶之净化,并得领受如不死之甘露——阿蜜利多(amṛta)。”

Verse 31

क्रियतामसुराः श्रेष्ठाः शुभेच्छा किंचिदस्ति वः । श्वेभूते पारणं कुर्याद्व्रतार्चनरतिश्च वः

“当如是行,噫,阿修罗中之上首——若汝等心中尚有些许吉祥善愿。待明日来临,当以pāraṇa之仪如法圆满解斋,并以随誓戒而行的礼拜供养为乐。”

Verse 32

न्यायोपार्जितवित्तेन दशमांशेन धीमता । कर्तव्यो विनियोगश्च ईशप्रीत्यर्थहेतवे

以正当之道所获之财,智者当分出十分之一,依法善加施用,以取悦主宰伊沙(Īśa);此即布施之目的与因由。

Verse 33

तथेति मत्वा ते सर्वे यथोक्तं देवमायया । चक्रुस्तथैव दैतेया मोहिता नातिकोविदाः

他们心想“就如此吧”,于是那些提底耶众——被神圣的摩耶之力所迷惑,且不甚明辨——便完全照所吩咐的去做了。

Verse 34

मयासुरेण च तदा भवनानि कृतानि वै । मनोज्ञानि महार्हाणि सुप्रभाणि महांति च

当时,阿修罗摩耶确实建造了辉煌的宫殿——悦心可意,极其珍贵,光辉灿然,广大宏阔。

Verse 35

तेषुपविष्टास्ते सर्वे सुस्नाताः समलंकृताः । स्थापयित्वा सुसंरब्धाः पूर्णं कलशमग्रतः

众人坐定其处,皆已沐浴洁净、庄严装饰;遂以殷切之心,将盛满之水罐(kalaśa)置于面前。

Verse 36

रात्रौ जागरणं सर्वैः कृतं परमया मुदा । अथोषसि प्रवृत्ते च प्रातःस्नानयुता भवन्

夜间众人皆以大欢喜守夜警醒(jāgaraṇa);及至黎明初现,便行清晨沐浴之仪。

Verse 37

असुरा बलिमुख्याश्च पंक्तिभूता यताक्रमम् । सर्वमावश्यकं कृत्वा तदा पानरता भवन्

诸阿修罗以婆利为首,依次列坐成行;既已办毕一切应行之仪,便专意于饮。

Verse 38

बलिश्च वृषपर्वा च नमुचिः शंख एव च । सुदंष्ट्रश्चैव संह्लादी कालनेमिर्विभीषणः

在座者有:婆利与弗利沙帕尔梵,纳牟支与商迦;又有苏丹什特罗、桑赫拉达、迦罗内弥与毗毗沙那——皆悉在场。

Verse 39

वातापिरिल्वलः कुम्भो निकुम्भः प्रच्छदस्तथा । तथा सुन्दोपसुन्दौ च निशुम्भः शुम्भ एव च

瓦塔毗与伊尔瓦拉,库姆婆与尼库姆婆,并有普拉恰达;又有孙达与乌帕孙达,尼舒姆婆与舒姆婆——皆在场。

Verse 40

महिषो महिषाक्षश्च बिडालाक्षः प्रतापवान् । चिक्षुराख्यो महाबाहुर्जृभणोऽथ वृषासुरः

摩希沙与摩希沙克沙,勇猛的比达拉克沙;名为奇克苏拉者,臂力雄伟;又有吉尔婆那,继而弗里沙苏罗——皆在场。

Verse 41

विबाहुर्बाहुको घोरस्तथा वै घोरदर्शनः । एते चान्ये च बहवो दैत्यदानवराक्षसाः । यथाक्रमं चोपविष्टा राहुः केतुस्तथैव च

毗婆呼、婆呼迦、可怖者与“可怖相”者;这些以及许多其他的底提耶、达那婆与罗刹,皆依次就座——罗睺与计都亦在其中。

Verse 42

तेषां तु कोटिसंख्यानां दैत्यानां पंक्तिरास्थिता

确然,那些以亿计的底提耶,列列成行,排布就位。

Verse 43

ततस्तया तदा देव्या अमृतार्थं हि वै द्विजाः । यज्जातं तच्छृणौध्वं हि तया देव्या कृतं महत्

随后,诸位二生者啊,为求甘露(amṛta),女神当时成就了一桩伟大之举。请听她所作所引发的一切经过。

Verse 44

सर्वे विज्ञापिताः सद्यो गृहीतकलशा तदा । शोभया परया युक्ता साक्षात्सा विष्णुमोहिनी

众人立刻得知消息,她随即执起水罐。以无上妙丽庄严,她分明显现为摩希尼——毗湿奴那摄心迷人的化身。

Verse 45

करस्थेन तदा देवी कलशेन विराजिता । शुशुभे परया कांत्या जगन्मंगलमंगला

于是女神手执水罐而光辉焕发;以至上光耀灿然照临——她乃世间一切吉祥之吉祥。

Verse 46

परिवेषधराः सर्वे सुरास्ते ह्यसुरांतिकम् । आगतास्तत्क्षणादेव यत्र ते ह्यसुरोत्तमाः

诸天众神皆化作侍者,作供食与饮之状,顷刻来到阿修罗近旁——那群最强的魔众所聚集之处。

Verse 47

तान्दृष्ट्वा मोहिनी सद्य उवाच प्रमदोत्तमा

摩希尼一见他们,便立刻开口——她乃迷人女子之最胜者。

Verse 48

मोहिन्युवाच । एते ह्यतिथयो ज्ञेया धर्म्मसर्वस्वसाधनाः । एभ्यो देयं यताशक्त्या यदि सत्यं वचो मम । प्रमाणं भवतां चाद्य कुरुध्वं मा विलंबथ

摩希尼说道:“这些人当知为宾客;供养侍奉他们,正是达摩之全体精髓与成就。若我所言真实,你们当随力施与。今日便以此为定则,莫再迟延。”

Verse 49

परेषामुपकारं च ये कुर्वंति स्वशक्तितः । धन्यास्ते चैव विज्ञेयाः पवित्राः लोकपालकाः

凡依自身之力而济助他人者,当知为真正有福之人——其性净化,亦如护持世界之守护者。

Verse 50

केवलात्मोदरार्थाय उद्योगं ये प्रकुर्वते । ते क्लेशभागिनो ज्ञेया नात्र कार्या विचारणा

然唯为自腹而勤作之人,当知为分受苦恼者;于此无须再作思量。

Verse 51

तस्माद्विभजनं कार्यं मयैतस्य शुभव्रताः । देवेभ्यश्च प्रयच्छध्वं यद्धि चात्मप्रियाप्रियम्

是故,持善誓者啊,此分配当由我来施行。汝等亦当献一分于诸天(deva)——无论于己是可喜或不可喜。

Verse 52

इत्युक्ते वचने देव्या तथा चक्रुरतं द्रिताः । आह्वयामासुरसुराः सर्वान्देवान्सवासवान्

女神如是言已,众人便依言而行,毫不怠慢。其后,阿修罗召集一切诸神,并与因陀罗(Vāsava)同来。

Verse 53

उपविष्टाश्च ते सर्वे अमृतार्थं च भो द्विजाः । तेषूपविश्यमानेषु ह्युवाच परमं वचः । मोहिनी सर्वधर्म्मज्ञा असुराणां स्मयन्निव

诸婆罗门啊,他们皆为求甘露(amṛta)——不死之浆——而就座。正当众人落座之时,通晓一切法则的摩希尼(Mohinī)发出至上之言,仿佛对阿修罗含笑而说。

Verse 54

मोहिन्युवाच । आदौ ह्यभ्यागताः पूज्या इति वै वैदिकी श्रुतिः

摩希尼说道:“确实,吠陀圣启宣示:凡来访之宾,应先受礼敬。”

Verse 55

तस्माद्यूयं वेदपराः सर्वे देवपरायणाः । ब्रुवंतु त्वरितेनैव आदौ केषां ददाम्यहम् । अमृतं हि महाभागा बलिमुख्या वदंतु भोः

“因此,你们既皆奉持吠陀、归依诸天,便速速言明:我当先将甘露赐与谁?诸位有福者——请以婆利为首的领袖宣告吧!”

Verse 56

बलिनोक्ता तदा देवी यत्ते मनसि रोचते । स्वामिनी त्वं न संदेहो ह्यस्माकं सुंदरानने

于是婆利对女神说道:“凡你心中所悦,便依之而行。毫无疑问,你是我们的主母,啊,美颜者。”

Verse 57

एवं संमानिता तेन बलिना भावितात्मना । परिवेषणकार्यार्थं कलशं गृह्य सत्वरा

于是,得婆利这位心志坚定者礼敬之后,她迅速执起水罐(迦罗沙),为行奉侍与分施之事。

Verse 58

तस्मान्नरेन्द्रकरभोरुलसद्दृकूला श्रोणीतटालसगतिर्मविह्वलांगी । सा कूजती कनकनूपुरसिंजितेन कुंभस्तनी कलशपाणिरथाविवेश

随后,那位妖娆而不失从容的丽人——眼角光辉流转,步态因腰胯轻摇而婀娜——走入其间;她行时金制脚铃清响相和,胸脯丰盈,手执水罐而来。

Verse 59

तदा तु देवी परिवेषयंती सा मोहिनी देवगणाय साक्षात् । ववर्ष देवेषु सुधारसं पुनः पुनः सुधाहाररसामृतं यथा

当时,女神摩希尼亲自侍奉诸天众,反复将甘露的精髓倾洒于诸天——宛如不死的琼浆妙食之味。

Verse 60

पुनश्च ते देवगणाः सुधारसं दत्तं तया परया विश्वमूर्त्या । बलिमुख्याः सह लोकपाला गंधर्वयक्षाप्सरसां गणाश्च

又一次,诸天众领受了她——具宇宙之形的至上者——所赐的甘露精髓;而婆利及其诸首领,连同护世者,以及乾闼婆、夜叉与阿普萨罗的众群,都在旁观望。

Verse 61

सर्वे दैत्या आसनस्था पुनश्च ते देवगणाः सुधारसं दत्तं पीडिताश्च । तूष्णींभूता बलिमुख्या द्विजेंद्रा मनस्विनो ध्यानपरा बभूवुः

一切代底耶仍坐在原处;而诸天众又一次得到了甘露精髓,代底耶因此心中苦恼。以婆利为首的诸酋长默然无语,噢最胜婆罗门,那些意志坚强者沉入深深的思惟观照之中。

Verse 62

ततस्तथाविधान्दृष्ट्वा दैत्यांस्तान्मोहमाश्रितान् । तदा राहुश्च केतुश्च द्वावेतौ दैत्यपुंगवौ

随后,见那些代底耶陷入如此迷妄之中,罗睺与计都——两位代底耶中的魁首——便随即现身。

Verse 63

देवानां रूपमास्थाय अमृतार्थं त्वरान्वितौ । उपविष्टौ तदा पङ्क्त्यां देवानाममृतार्थिनौ

二者为求不死甘露而急切,遂化作诸天之形;那渴求甘露的二人便坐入诸天的行列之中。

Verse 64

यदामृतं पातुकामो राहुः परमदुर्जयः । चन्द्रार्काभ्यां प्रकथितो विष्णोरमिततेजसः

当极难降伏的罗睺想要饮用甘露时,月亮和太阳向拥有无量光辉的毗湿奴禀报了此事。

Verse 65

तदा तस्य शिरश्छिन्नं राहोर्दुर्विग्रहस्य च । शिवरो गगनमापेदे कबंधं च महीतले । भ्रममाणं तदा ह्यद्रींश्चूर्णयामास वै तदा

随后,那畸形的罗睺之头被斩断;头颅升入天空,躯干则坠落大地。那躯体旋转着,将群山碾成了碎片。

Verse 66

साद्रिश्च सर्वभूलोकश्चूर्णितश्च तदाऽभवत् । तया तेन च देहेन चूर्णितं सचराचरम्

于是,整个大地连同群山都被粉碎;那躯体压碎了世间一切会动与不动的万物。

Verse 67

दृष्ट्वा तदा महादेवस्तस्योपरि तु संस्थितः । निवासः सर्वदेवानां तस्याः पादतलेऽभवत्

摩诃提婆(湿婆)见状,便立于其上;在他的足下,化现出了众神的居所。

Verse 68

पीडनं तत्समीपेथ निवास इति नाम वै

就在那被压碎之处附近,该地确实以“尼瓦萨”(Nivāsa)之名而闻名。

Verse 69

महतामालयं यस्माद्यस्यास्तच्चरणांबुजम् । महालयेति विख्याता जगत्त्रयविमोहिनी

因她的莲足为大德之所依止,故名闻为“摩诃罗耶”(Mahālayā)——迷醉三界的摄心者。

Verse 70

केतुश्च धूमरूपोऽसावाकाशे विलयं गतः । सुधां समर्प्य चंद्राय तिरोधानगतोऽभवत्

又有计都化作烟霭之形,融入虚空;将甘露奉与月神之后,便隐没无踪。

Verse 71

वासुदेवो जगद्योनिर्जगतां कारणं परम् । विष्णोः प्रसादात्तज्जातं सुराणां कार्यसिद्धिदम्

婆苏提婆为世界之胎藏,为一切生起之至上因。由毗湿奴之恩德,此事得以成就,使诸天圆满其所当成之业。

Verse 72

असुराणां विनाशाय जातं दैवविपर्ययात् । विना दैवेन जानीध्वमुद्यमो हि निरर्थकः

此事因天命之转而生,为灭尽阿修罗。须当明知:若无天命(神圣法令),人之奋力实为徒然。

Verse 73

यौगपद्येन तैः सर्वैः क्षीराब्धेर्मंथनं कृतम् । सिद्धिर्जाता हि देवानामसिद्धिरसुरान्प्रति

于是众者齐心同力,共同搅动乳海;成功确归诸天,而阿修罗一方唯得败落。

Verse 74

ततश्च ते देववरान्प्रकोपिता दैत्याश्च मायाप्रवि मोहिताः पुनः । अनेकशस्त्रास्त्रयुतास्तदाऽभवन्विष्णौ गते गर्जमानास्तदानीम्

于是那些阿修罗(Daitya)——对诸天中最尊者愤怒,又再度被幻力(māyā)迷惑、心神为幻所夺——便备起无数兵器与神兵(astra);当毗湿奴离去之时,他们就在那一刻放声咆哮。