Adhyaya 11
Mahesvara KhandaKedara KhandaAdhyaya 11

Adhyaya 11

第十一章开篇,摩醯湿伐罗为甘那提婆(象头神伽内沙)制定有次第的礼拜仪轨,尤以守持“月四日”(caturthī)为要:先行沐浴净身(snāna),继而供奉香料(gandha)、花鬘(mālya)、圣米(akṣata),并依经所定次序修持观想(dhyāna)。随后经文详述观想与形相之法:伽内沙具五面、十臂、三目,各面有特定色相与所持法器;并分立三种观想——清净(sāttvika)、激发(rājasa)、昏沉(tāmasa)——各有不同的视觉设定。 本章又规定供品数量,尤著者为二十一茎杜尔瓦草(dūrvā)与二十一枚摩陀迦甜团(modaka),并列出礼拜时所称诵的赞名。继而叙事转入神话史诗体:诸天礼毕,前往乳海(Kṣīrārṇava)行“搅拌大海”(samudra-manthana)。搅海之际,月神(Candra)、如意母牛苏罗毗(Surabhī/Kāmadhenū)、如愿树、俱斯图婆宝珠(Kaustubha)、天马乌柴赫施罗瓦(Uccaiḥśravā)、天象艾罗婆多(Airāvata)及诸多珍宝相继涌现;终至大吉祥天女摩诃拉克什米(Mahālakṣmī)显现,其普照之目赐予万有兴盛,并在天界欢庆中拣选毗湿奴(Viṣṇu)为配。全章以仪轨(vidhi)、观想形相(dhyāna-lakṣaṇa)与宇宙神话交织,示明:敬信之秩序,扶持天地之秩序。

Shlokas

Verse 1

महेश्वर उवाच । प्रतिपक्षे चतुर्थ्यां तु पूजनीयो गणाधिपः । स्नात्वा शुक्लतिलैः शुद्धैः शुक्लपक्षे सदा नृभिः

大自在天说:在黑分月的第四日(Caturthī),当礼敬群主伽那提婆。沐浴净身后,人们亦应在白分月常以洁净白芝麻而供奉。

Verse 2

कृत्वा चावस्यकं सर्वं गणेशस्यार्चनक्रियाम् । प्रयत्नेनैव कुर्वीत गंधमाल्याक्षतादिभिः

既已圆满完成对伽内沙礼拜所需的一切行持,当以至诚精勤行供养(arcana),奉上香芬、花鬘、不碎米(akṣata)等诸供品。

Verse 3

ध्यानमादौ प्रकर्तव्यं गणेशस्य यथाविधि । आगमा बहवो जाता गणेशस्य यथा मम

首先应依仪则如法观想伽内沙。关于伽内沙的《阿伽摩》已生起甚多,正如关于我亦复如是。

Verse 4

बहुधोपासका यस्मात्तमः सत्त्वरजोन्विताः । गणभेदेन तान्येव नामानि बहुधाऽभवत्

由于礼拜者种类繁多,具足惰性(tamas)、清明(sattva)与激动(rajas),故同一神圣(形相)亦随其众类分门而得诸多名号。

Verse 5

पंचवक्त्रो गणाध्यक्षो दशबाहुस्त्रिलोचनः । कांतस्फटिकसंकाशो नीलकंठो गजाननः

祂具五面,为众伽那(Gaṇa)之主;十臂三目;光耀如净澈水晶,青喉,象首庄严。

Verse 6

मुखानि तस्य पंचैव कथयामि यतातथम्

我今将如实宣说祂的五面,分明不差。

Verse 7

मध्यमं तु मुखं गौरं चतुर्दन्तं त्रिलोचनम् । शुंडादंडमनोज्ञं च पुष्करे मोदकान्वितम्

其中中央之面色泽皎白,具四牙三目;象鼻如杖,端丽可喜;莲华之手执甘甜摩达迦(modaka)。

Verse 8

तथान्यत्पीतवर्णं च नीलं च शुभलक्षणम् । पिंगलं च तथा शुभ्रं गणेशस्य शुभाननम्

又有一面呈黄色;又有一面呈青蓝,具诸吉相;又有一面呈赤黄(piṅgala),又有一面洁白——此即象头神伽内沙(Gaṇeśa)之诸吉祥圣面。

Verse 9

तथा दशभुजेष्वेव ह्यायुधानि ब्रवीमि वः । पाशं पस्शुपद्मे च अंकुशं दंतमेव च

同样,我将为诸位宣说当观想于(伽内沙)十手之法器:羂索(pāśa)、莲华、象钩(aṅkuśa),以及其牙。

Verse 10

अक्षमालां लांगलं च मुसलं वरदं तथा । पूर्णं च मोदकैः पात्रं पाणिना च विचिंतयेत्

(应观想祂)手持念珠、犁、杵与施愿赐福之手;又以另一手执一钵,盛满摩达迦甜团。

Verse 11

लंबोदर विरूपाक्षं निवीतं मेखलान्वितम् । योगासने चोपविष्टं चंद्रलेखां कशेखरम्

(观想象头神伽内沙)腹大,目相殊胜,佩戴圣线与腰带,安坐于瑜伽坐姿,头上以新月之纹为庄严。

Verse 12

ध्यानं च सात्त्विकं ज्ञेयं राजसं हि नृणामिव । शुद्धचामीकराभासं गजाननमलौकिकम्

禅观当知有萨埵(sāttvika)与罗阇(rājasa)之别——罗阇者,如人间之性。于萨埵观中,应观象面之主超越尘世,辉耀如纯净真金。

Verse 13

चतुर्भुजं त्रिनयनमेकदंतं महोदरम् । पाशांकुशधरं देवं दंतमोदकपात्रकम्

(当观想)神圣者四臂三目、独牙大腹;执索(pāśa)与钩(aṅkuśa),并持其牙与盛摩达迦之钵。

Verse 14

नीलं च तामसं ध्यानमेवं त्रिविधमुच्यते । ततः पूजा प्रकर्तव्या भवद्भिः शीघ्रमेव च

而蓝色之相为惰性(tāmasa)之观想;故观想被说为三种。其后,汝等当行供奉礼拜,且务必迅速。

Verse 15

एकविंशतिदूर्वाभिर्द्वाभ्यां नाम्ना पृथक्पृथक् । सर्वनामभिरेकैव दीयते गणनायके

以二十一茎杜尔瓦草(dūrvā),应逐茎分别奉献,每茎诵念两种名号。待诸名号合诵之时,再另加一供,奉于“众主”伽那那耶迦(Gaṇeśa)。

Verse 16

तथैव नामभिर्देया एकविंशतिमोदकाः । दशनामान्यहं वक्ष्ये पूजनार्थं पृथक्पृथक्

同样地,应以名号诵念而奉献二十一枚摩达迦(modaka)。我将宣说十个名号,为礼拜之用,逐一分别诵持。

Verse 17

गणाधिप नमस्तेस्तु उमापुत्राघनाशन । विनायकेशपुत्रोति सर्वसिद्धिप्रदायक

噢,伽那之主(Gaṇādhipa),向你顶礼——噢,乌玛之子,灭罪者;噢,毗那夜迦,“自在天(Īśa)之子”;赐予一切成就(悉地)者。

Verse 18

एकदंतेभवक्त्रेति तथा मूषकवाहन । कुमारगुरवे तुभ्यं पूजनीयः प्रयत्नतः

(顶礼于你,称你为)“独牙者”(Ekadanta)、“威容可畏者”,以及“乘鼠者/鼠为旗者”。噢,库玛罗(Kumāra)之师,你当以至诚勤恳而受礼敬。

Verse 19

एवमुक्त्वा सुरान्सद्यः परिष्वज्य च सादरम् । विष्णुं गुहाशयं सद्यो ब्रह्माणं च सदाशिवः

言毕,萨达湿婆(Sadāśiva)立刻恭敬地拥抱诸天;并随即拥抱住居于洞窟中的毗湿奴(Viṣṇu),以及梵天(Brahmā)亦然。

Verse 20

तिरोधान गतः सद्यः शंभुः परमशोभनः । प्रणम्य शंभुं ते सर्वे गणाध्यक्षार्च्चने रताः

刹那之间,至极光辉的商婆(Śambhu,湿婆)从众目中隐没。众人礼敬商婆之后,皆专心致志供奉众伽那之主(象头神伽内沙)。

Verse 21

ततः संपूज्य विधिवद्गणाध्यक्षार्च्चने रताः । उपचारैरनेकैश्च दूर्वाभिश्च पृथक्पृथक्

随后,他们专注礼敬众伽那之主,依仪轨如法供养,以种种供品,并将一束束的杜尔瓦草(dūrvā)分别奉献。

Verse 22

संतुष्टो हि गणाध्यक्षो देवानां वरदोऽभवत् । प्रदक्षिणं नमस्कृत्य तैः सर्वैरभितोषितः

众伽那之主既已欢喜,便成为诸天的赐福者。因众人皆令其满足,他受纳他们的右绕礼(pradakṣiṇā)与顶礼。

Verse 23

तमोगुणान्विताः सर्वे ह्यसुरा नाभ्यपूजयन् । उपहासपरास्ते वै देवान्प्रत्यसुरोत्तमाः

然而一切阿修罗为昏暗之性(tamas)所缠,竟不作供养;那些阿修罗中的强者反而讥笑诸天。

Verse 24

पूजयित्वा शांकरिं ते पुनः क्षीरार्णवं ययुः । ब्रह्मा विष्णुश्च ऋषयो देवदैत्याः सुरोत्तमाः

礼敬了商迦梨(Śāṃkarī)之后,他们又返回乳海——梵天、毗湿奴、诸仙圣,以及天神与代底耶中最卓越者。

Verse 25

मंथानं मंदरं कृत्वा रज्जुं कृत्वाथ वासुकिम् । ममंथुश्च तदा देवा विष्णुं कृत्वाथ सन्निधौ

诸天以曼陀罗山为搅拌之杵,以婆苏吉为绳索,于是搅动大海,并令毗湿奴在旁临在,以助其事。

Verse 26

मथ्यमाने तदाब्धौ च निर्गतश्चंद्र अग्रतः । पीयूषपूर्णः सर्वेषां देवानां कार्यसिद्धये

当那大海被搅动之时,月神最先出现,充满甘露,使诸天之事业得以成就。

Verse 27

शौनक उवाच । अर्णवे किं पुरा चंद्रो निक्षिप्तः केन सुव्रत । गजादिकानि रत्नानि कथितानि त्वया पुरा

商那迦说道:“噢,持善誓者,往昔月神为何被置入大海?又是谁所为?你先前已叙述过象等诸宝。”

Verse 28

एतत्सर्वं समासेन आदौ कथय मे प्रभो । ज्ञात्वा सर्वे वयं सूत पश्चादावर्णयामहे

“请主尊自始至终略述此事。待我们尽皆明了之后,噢,苏多啊,我们将再作详述。”

Verse 29

तेषां तद्वचनं श्रुत्वा सूतो वाक्यमुपाददे

苏多听罢他们的话语,便开口作答。

Verse 30

चंद्र आपोमयो विप्रा अत्रिपुत्रो गुणान्वितः । उत्पन्नो ह्यनसूयायां ब्रह्मणोंऽशात्समुद्भवः । रुद्रस्यांशाद्धि दुर्वासा विष्णोरंशात्तु दत्तकः

诸婆罗门啊,月神旃陀罗——由水性所成——是阿特里具德之子,生于阿那苏雅,为梵天一分所流出之化现。由鲁陀罗一分而生者为杜尔瓦萨,由毗湿奴一分而生者为达塔迦(达塔特雷耶)。

Verse 31

क्षीराब्धिं मथ्यमानं तु दृष्ट्वा चंद्रो मुदान्वितः । क्षीराब्धिरपि चंद्रं च दृष्ट्वा सोऽप्युत्सुकोऽभवत्

见乳海正被搅拌之时,旃陀罗心生大欢喜;乳海亦见旃陀罗,亦同样生起渴望与急切。

Verse 32

प्रविष्टश्चोभयप्रीत्या श्रृण्वतां भो द्विजोत्तमाः । चंद्रो ह्यमृत पूर्णोभूदग्रतो देवसन्निधौ

诸最胜二生者,请听:以彼此欢爱之情而入,旃陀罗在诸天之前而立,于神众面前充盈甘露。

Verse 33

दृष्ट्वा च कांतिं त्वरितोऽथ चंद्रो नीराजितो देवगणैस्तदानीम् । वादित्रगोषैस्तुमुलैरनेकैर्मृदंगशंखैः पटहैरनेकैः

见其光辉灿然,旃陀罗便疾步而出;当时诸天众以仪礼致敬迎奉,众多乐器轰然齐鸣——鼓、螺号与无数大鼓之声。

Verse 34

नमश्चक्रुश्च ते सर्वे ससुरासुरदानवाः । तदा गर्गं पृच्छमाना बलं चंद्रस्य तत्त्वतः

众人——诸天、阿修罗与达那婆——皆行礼致敬;随后他们询问伽尔伽,月神旃陀罗之力究竟有多大。

Verse 35

गर्गेणोक्तास्तदा सर्वेषां बलमद्य वै । केंद्रस्थानगताः सर्वे भवतामुत्तमा ग्रहाः

于是伽尔伽宣告道:“诚然,今日力量归于你们众;你们一切殊胜之星曜皆安住于肯陀罗(四正宫位)。”

Verse 36

चंद्रं मुरुः समायातो बुधश्चैव समागतः । आदित्यश्च तथा शुक्रः शनिरंगारको महान्

随月神旃陀罗而来者有牟鲁;布陀亦至;同样,阿底提耶、输迦、沙尼,以及威猛的安伽罗迦(曼伽罗)也都到来。

Verse 37

तस्माच्चंद्रबलं श्रेष्ठं भवतां कार्यसिद्धये । गोमंतसंज्ञकोनाम मुहूर्तोऽयं जयप्रदः

因此,为成就你们的事业,旃陀罗之力最为殊胜。此一牟呼尔多名为“瞿曼多”(Gomanta),能赐予胜利。

Verse 38

एवमाश्वासिता देवा गर्गेणैव महात्मना । ममंथुरब्धिं त्वरिता गर्जमाना महाबलाः

诸天既为大心者伽尔伽所安慰,便以雄力疾速搅动大海,威声如雷而吼。

Verse 39

द्विगुणं बलमापन्ना महात्मानो दृढव्रताः । महेशं स्मरमाणास्ते गणेशं च पुनः पुनः

那些大心者坚守誓愿,力量倍增——不息忆念大自在天摩醯湿伐罗(湿婆),又一次次祈呼伽内沙。

Verse 40

निर्मथ्यमानादुदधेर्गर्जमानाच्च सर्वशः । निर्गता सुरभिः साक्षाद्देवानां कार्यसिद्धये

从被搅动、四方轰鸣的大海中,苏罗婆希亲自显现而出,为成就诸天之所愿。

Verse 41

तुष्टा कपिलवर्णां सा ऊधोभारेण भूयसा । तरंगोपरि गच्छंती शनकैः शनकैस्ततः

她欢喜而呈卡毗罗般的黄褐色,因乳房沉重,便在浪尖之上缓缓、缓缓而行。

Verse 42

कामधेनुं समायांतीं दृष्ट्वा सर्वे सुरासुराः । पुष्पवर्षेण महता ववर्षुरमितप्रभाम्

见到迦摩提奴走近,诸天与阿修罗众便向那光辉无量者降下盛大的花雨。

Verse 43

तदा तूर्याण्यनेकानि नेदुर्वाद्यान्यनेकशः । आनीता जलमध्याच्च संवृता गोशतैरपि

当时诸多号角齐鸣,各类乐器亦纷然回响。她自水中被迎出,显现时又被数百头母牛环绕。

Verse 44

तासु नीलाश्च कृष्णश्च कपिलाश्च कपिंजलाः । बभ्रवः श्यामका रक्ता जंबूवर्णाश्च पिंगलाः । आभिर्युक्ता तदा गोभिः सुरभिः प्रत्यदृश्यत

其中有青色、黑色、黄褐色与迦毗阇罗色的母牛;又有褐色、深色、红色、阎浮色以及金褐色的。由这些母牛随侍环绕,苏罗婆希当时显现于众目。

Verse 45

असुरासुरसंवीतां कामधेनुं ययाचिरे । ऋषयो हर्षसंयुक्ता देवान्दैत्यांश्च तत्क्षणात्

诸圣仙满怀欢喜,立刻向诸天与代提耶请求那被天众与阿修罗众环绕的如意神牛迦摩提奴。

Verse 46

सर्वेभ्यश्चैव विप्रेभ्यो नानागोत्रेभ्य एव च । सुरभीसहिता गावो दातव्या नात्र संशयः

当向一切婆罗门——确实来自诸多族系者——布施诸牛,并连同苏罗毗一并施与;对此毫无疑虑。

Verse 47

तैर्याचितास्तेऽत्र सुरासुराश्च ददुश्च ता गाः शिवतोषणाय । तैः स्वीकृतास्ता ऋषिभिः सुमंगलैर्महात्मभिः पुण्यतमैः सुरभ्यः

他们在此祈求后,诸天与阿修罗为取悦湿婆而赐下那些母牛。那些苏罗毗神牛被诸圣仙所领受——至为吉祥,心量广大,功德最胜。

Verse 48

पुण्याहं मुनिभिः सर्वैः कारितास्ते तदा सुराः । देवानां कार्यसिद्ध्यर्थमसुराणां क्षयाय च

于是诸圣仙令诸天举行吉祥的“普尼亚哈(Puṇyāha)”仪式,使天众之事得以成就,并令阿修罗走向覆灭。

Verse 49

पुनः सर्वे सुसंरब्धा ममंथुः क्षीरसागरम् । मथ्यमानात्तदा तस्मादुदधेश्च तथाऽभवत्

随后众人意志坚定,再次搅拌乳海;当那大海被搅动之时,又有种种奇妙的显现自其深处涌现。

Verse 50

कल्पवृक्षः पारिजातश्चूतः संतानकस्तथा । तान्द्रुमानेकतः कृत्वा गन्धर्वनगरोपमान् । ममंथुरुग्रं त्वरिताः पुनः क्षीरार्णवं बुधा

如意的劫波树、天界的波利阇多树、芒果树以及善多那迦树——智者们将诸树汇聚,宛如乾闼婆之城,遂迅疾而猛烈地再度搅动乳海。

Verse 51

निर्मथ्यमानादुदधेरभवत्सूर्यवर्चसम् । रत्नानामुत्तमं रत्नं कौस्तुभाख्यं महाप्रभम्

当大海被搅动之时,涌现出如太阳般的辉耀——诸宝之最胜、光威宏大的宝珠,名为“拘苏图婆”(Kaustubha)。

Verse 52

स्वकीयेन प्रकाशेन भासयंतं जगत्त्रयम् । चिंतामणिं पुरस्कृत्य कौस्तुभं ददृशुर्हि ते

它以自身光明照耀三界;以“如意宝珠”(Cintāmaṇi)为先导,他们确实得见了拘苏图婆宝。

Verse 53

सर्वे सुरा ददुस्तं वै कौस्तुभं विष्णवे तदा । चिंतामणि ततः कृत्वा मध्ये चैव सुरासुराः । ममंथुः पुनरेवाब्धिं गर्जंतस्ते बलोत्कटाः

于是诸天将那拘苏图婆宝献与毗湿奴。继而以如意宝珠(Cintāmaṇi)为中央之奖品,天神与阿修罗—凭恃强力而咆哮—又一次搅动大海。

Verse 54

मथ्यमानात्ततस्तस्मादुच्चैःश्रवाः समद्भुतम् । बभूव अश्वो रत्नानां पुनश्चैरावतो गजः

搅动继续之时,从那海中涌出奇妙的“优钵罗婆”(Uccaiḥśravā)——诸马之最胜的宝马;随后又出现宝象“爱罗婆多”(Airāvata)。

Verse 55

तथैव गजरत्नं च चतुःषष्ट्या समन्वितम् । गजानां पांडुराणां च चतुर्द्दन्तं मदान्वितम्

同样地,象之宝亦显现,随从六十四众——象群中一位淡白的主宰,具四牙,充满发情之力与雄健之威。

Verse 56

तान्सर्वान्मध्यतः कृत्वा पुनश्चैव ममंथिरे । निर्मथ्यमानादुदधेर्निर्गतानि बहून्यथ

他们把一切宝物置于中央,又再度搅拌。大海被彻底搅动之时,更多诸物便从其中涌现而出。

Verse 57

मदिरा विजया भृंगी तथा लशुनगृंजनाः । अतीव उन्मादकरो धत्तूरः पुष्करस्तथा

从中涌出玛迪拉(醉酒之酿)、毗阇耶、婆陵祇,以及大蒜与洋葱;又有能致极度狂乱的达图罗,并且莲池草(Puṣkara)亦现。

Verse 58

स्थापिता नैकपद्येन तीरे नदनदीपतेः । पुनश्च ते तत्र महासुरेन्द्रा ममंथुरब्धिं सुरसत्तमैः सह

这些被奈迦帕底耶安置在诸河之主的岸边。随后在彼处,诸大阿修罗之王又与最胜诸天一同再度搅拌大海。

Verse 59

निर्मथ्यमानादुदधेस्तदासीत्सा दिव्य लक्ष्मीर्भुवनैकनाथा । आन्वीक्षिकीं ब्रह्मविदो वदंति तथआ चान्ये मूलविद्यां गृणंति

当大海正被搅拌之时,光辉的吉祥天女拉克什弥显现——她是神圣的女主,诸界唯一的至尊。通达梵者称她为“安维克希姬”(真实探求之力);亦有人赞颂她为一切根本之智。

Verse 60

ब्रह्मविद्यां केचिदाहुः समर्थाः केचित्सिद्धिमृद्धिमाज्ञा मथाशाम् । यां वैष्णवीं योगिनः केचिदाहुस्तथा च मायां मायिनो नित्ययुक्ताः

有些具足才能者称她为梵智(Brahmavidyā),即通达梵我之圣知;有些称她为悉地与丰饶(siddhi、ṛddhi),能赐予对所愿目标的自在主宰。亦有瑜伽行者说她是毗湿奴之力(Vaiṣṇavī śakti),而恒常精通秘术者则称她即是幻力——摩耶(Māyā)本身。

Verse 61

वदंति सर्वे केनसिद्धांतयुक्तां यां योगमायां ज्ञानशक्त्यान्विता ये

众人皆宣说:她由决断之理与真实定论所确立——人们称她为瑜伽摩耶(Yogamāyā),具足智慧之力。

Verse 62

ददृशुस्तां महालक्ष्मीमायांती शनकैस्तदा । गौरां च युवतीं स्निग्धां पद्मकिंजल्कभूषणाम्

于是他们看见大吉祥天女摩诃拉克什米(Mahālakṣmī)缓缓而来——肤色皎洁,青春妙龄,光辉柔和,丽质温润;以莲华金丝之蕊为饰。

Verse 63

सुस्मितां सुद्विजां श्यामां नवयौवनभूषणाम् । विचित्रवस्त्राभरणरत्नानेकोद्यतप्रभाम्

她含柔和微笑,光彩灿然;幽黛之色更添妙韵,以新鲜青春为庄严。她的辉耀由无数宝石、璎珞与奇妙多姿的衣裳共同映发。

Verse 64

बिंबोष्ठीं सुनसां तन्वीं सुग्रीवां चारुलोचनाम् । सुमध्यां चारुजघनां बृहत्कटितटां तथा

她的唇如熟透的频婆果(bimba);鼻梁秀雅;身姿纤柔;颈项端美;双眸妩媚。腰肢细致,胯部秀丽,臀胯之势宽广而庄严。

Verse 65

नानारत्नप्रदीपैश्च नीराजितमुखांबुजाम् । चारुप्रसन्नवदनां हारनूपूरशोभिताम्

她莲华般的面容,受无数宝灯所摇曳的供灯礼敬;神情安宁悦人,项链与脚镯映照之下更显光辉。

Verse 66

मूर्द्धनि ध्रियमाणेन च्छत्रेणापि विराजिताम् । चामरैर्वीज्यमानां तां गंगाकल्लोललोहितैः

她头顶又有王者华盖高擎,更显庄严;并以拂尘(cāmara)为她扇拂,其色殷红,如恒河翻涌的波涛。

Verse 67

पांडुरं गजमारूढां स्तूयमानां महर्षिभिः । सुरद्रुमपुष्पमालां बिभ्रतीं मल्लिकायुताम्

她光辉灿然,乘坐淡白之象,为诸大圣仙所赞颂;她佩戴天树之花的花鬘,其中杂以茉莉(mallikā)。

Verse 68

कराग्रे ध्रियमाणां तां दृष्ट्वा देवाः समुत्सुकाः । आलोकनपरा यावत्तावत्तान्ददृशे ह्यसौ

诸天见她被引至最前,皆心生欣悦,专注瞻仰;而在他们凝望之时,她亦确然回眸注视他们。

Verse 69

देवांश्च दानवांश्चैव सिद्धचारणपन्नगान् । यथा माता स्वपुत्रांश्च महालक्ष्मीस्तथा सती

吉祥的摩诃拉克什弥——萨蒂——凝视诸天与达那婆、悉地与查罗那,以及诸龙蛇族,如同慈母看顾自己的儿女。

Verse 70

आलोकितास्तथा देवास्तया लक्ष्म्या श्रियान्विताः । सञ्जातास्तत्क्षणादेव राज्य लक्षणलक्षिताः । दैत्यास्ते निःश्रिका जाता ये श्रियाऽनवलोकिताः

凡得吉祥天女拉克什米(Śrī)垂顾之诸天,刹那间便具足福泽,显现王权之相;而未蒙Śrī一瞥之阿修罗族(Daitya),则顿失光辉与福运。

Verse 71

निरीक्ष्यमाणा च तदा मुकुन्दं तमालनीलं सुकपोलनासम् । विभ्राजमानं वपुषा परेण श्रीवत्सलक्ष्मं सदयावलोकम्

于是她凝望穆昆达(Mukunda)——色如檀摩罗树般深青,颊与鼻端秀美——见其以超越之光辉灿然,胸具Śrīvatsa圣印,目含慈悲。

Verse 72

दृष्ट्वा तदैव सहसा वनमालयान्विता लक्ष्मीर्गजादवततार सुविस्मयंती । कंठे ससर्ज पुरुषस्य परस्य विष्णोर्मालां श्रिया विरचितां भ्रमरैरुपेताम्

见到他时,吉祥天女拉克什米佩戴林野花鬘,惊叹不已,立刻自象背疾降;并将由圣美所编、群蜂随绕的花鬘,安置于至上人格毗湿奴(Viṣṇu)之颈。

Verse 73

वामांगमाश्रित्य तदा महात्मनः सोपाविशत्तत्र समीक्ष्य ता उभौ । सुराः सदैत्या मुदमापुरद्भुतां सिद्धाप्सरः किंनरचारणाश्च

随后她依止那位大圣者之左侧而坐。见二者并坐相依,诸天与阿修罗(Daitya),以及悉达、天女(Apsaras)、紧那罗与查罗那等,皆得不可思议的欢喜。

Verse 74

सर्वेषामेव लोकानामैकपद्येन सर्वशः । हर्षो महानभूत्तत्र लक्ष्मीनारायणागमे

于一切世界之中,四方同时,因拉克什米与那罗延(Nārāyaṇa)相会而生起广大欢喜。

Verse 75

लक्ष्म्या वृतो महाविष्णुर्लक्ष्मीस्तेनैव संवृता । एवं परस्परं प्रीत्या ह्यवलोकनतत्परौ

大毗湿奴为吉祥天女拉克什米所环绕,而拉克什米亦为他所拥抱。于是二者以相互爱慕之情,专注凝望彼此。

Verse 76

शंखाश्च पटहाश्चैव मृदंगानकगोमुखाः । भेर्यश्च झर्झरीणां च स शब्दस्तुमुलोऽभवत्

海螺与大鼓、mṛdaṅga、ānaka、gomukha,又有bherī与jharjharī齐鸣——顿时声浪轰然,喧腾如雷。

Verse 77

बभूव गायकानां च गायनं सुमहत्तदा । ततानि विततान्येन घानानि सुषिराणि च

其时歌者的吟唱极其宏伟;又有诸般乐器齐奏——弦乐、张皮之鼓、击乐,以及管吹之音。

Verse 78

एवं वाद्यप्रभेदैश्च विष्णुं सर्वात्मना हरिम् । अतोषयन्सुगीतज्ञा गंधर्वाप्सरसां गणाः

于是,凭借种种乐器之别,善于妙歌的乾闼婆与阿普萨罗众,以全心全意令毗湿奴——哈利——欢喜满足。

Verse 79

तथा जगुर्नारदतुंबुरादयो गंधर्वयक्षाः सुरसिद्ध संघाः । संसेवमानाः परमात्मरूपं नारायणं देवमगाधबोधम्

同样,纳罗陀、图姆布鲁等,以及乾闼婆、夜叉诸众,并诸天与悉地之群,皆以歌声赞颂,恭敬侍奉那罗延——其形即至上真我,智慧深不可测的天主。