अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भुयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ॥
agné náya supáthā rā́ye asmā́n víśvāni deva vayúnāni vidvā́n | yuyó́dhy asmáj juhurā́ṇam éno bhúyiṣṭhāṃ te náma uktíṃ vidhéma ||
噢,阿耆尼(Agni),引领我们循善道而至财富;噢,天神,汝知一切法则与仪轨(vayunāni)。请为我们驱除那使人迷误的罪愆。愿我们以最丰盛的言辞之敬(namas-ukti)奉献于汝。
अग्ने । नय । सुपथा । रायॆ । अस्मान् । विश्वानि । देव । वयुनानि । विद्वान् । युयोधि । अस्मत् । जुहुराणम् । एनः । भूयिष्ठाम् । ते । नमः । उक्तिम् । विधेम ।