ऊर्ग॑स्याङ्गिर॒स्यूर्ण॑म्म्रदा॒ ऊर्जं॒ मयि॑ धेहि । सोम॑स्य नी॒विर॑सि॒ विष्णो॒: शर्मा॑सि॒ शर्म॒ यज॑मानस्येन्द्र॑स्य॒ योनि॑रसि सु॑स॒स्याः कृ॒षीस्कृ॑धि । उच्छ्र॑यस्व वनस्पत ऊ॒र्ध्वो मा॑ पा॒ह्यᳪह॑स॒ आस्य य॒ज्ञस्यो॒द्रच॑:
ūŕgasya āṅgirasya ūrṇám-mradā ūŕjaṃ máyi dhehi | sómasya nīvír asi víṣṇoḥ śármāsi śárma yájamānasya índrasya yónir asi susasyā́ḥ kṛṣī́ḥ kṛdhi | ucchrā́yasma vanaspate ūrdhvó mā pāhy áṃhasa āsyá yajñásyodrácaḥ
噢,安吉罗萨(Āṅgirasa)滋养力之柔软羊毛啊,将滋养置于我内。你是苏摩(Soma)之束带;你是毗湿奴(Viṣṇu)之庇护:赐庇护于祭主。你是因陀罗(Indra)之胎藏:使我们的耕作成就丰美善稼。林木之主啊,升起吧;直立而住,护我免于罪咎,免于此祭祀之有害失误。
ऊर्गस्य । आङ्गिरस्य । ऊर्णम्-म्रदाः । ऊर्जम् । मयि । धेहि । सोमस्य । नीविः । असि । विष्णोः । शर्म । असि । शर्म । यजमानस्य । इन्द्रस्य । योनिः । असि । सुसस्याः । कृषीः । कृधि । उच्छ्रयस्व । वनस्पते । ऊर्ध्वः । मा । पाहि । अंहसः । आस्य । यज्ञस्य । उद्रचः ।