स॒वि॒ता प्र॑थ॒मेऽह॑न्न॒ग्निर्द्वि॒तीये॑ वा॒युस्तृ॒तीय॑ आदि॒त्यश्च॑तु॒र्थे च॒न्द्रमा॑: पञ्च॒म ऋ॒तुः ष॒ष्ठे म॒रुत॑: सप्त॒मे बृह॒स्पति॑रष्ट॒मे । मि॒त्रो न॑व॒मे वरु॑णो दश॒म इन्द्र॑ एकाद॒शे विश्वे॑ दे॒वा द्वा॑द॒शे
savitā́ prathamé' hánn agnír dvitī́ye vāyús tṛtī́ya ādityáś caturthé candrámāḥ pañcamá ṛtúḥ ṣaṣṭhé marútaḥ saptamé bृहáspátir aṣṭamé | mitró navamé váruṇo daśamá índra ekādaśé víśve devā dvādaśé
第一日为萨维特尔(Savitar);第二日为阿耆尼(Agni);第三日为伐由(Vāyu);第四日为阿底提耶(Āditya);第五日为月神(Candra);第六日为时令(Ṛtu);第七日为马鲁特群神(Maruts);第八日为布里哈斯帕提(Bṛhaspati);第九日为密特拉(Mitra);第十日为伐楼那(Varuṇa);第十一日为因陀罗(Indra);第十二日为诸神(Viśve Devāḥ)。
स॒वि॒ता । प्र॒थ॒मे । अह॑न् । अ॒ग्निः । द्वि॒तीये॑ । वा॒युः । तृ॒तीय॑ । आ॒दि॒त्यः । च॒तु॒र्थे । च॒न्द्रमा॑ः । पञ्च॒मे । ऋ॒तुः । ष॒ष्ठे । म॒रुतः॑ । स॒प्त॒मे । बृह॒स्पतिः॑ । अ॒ष्ट॒मे । मि॒त्रः । न॒व॒मे । वरु॑णः । द॒श॒मे । इन्द्रः॑ । ए॒का॒द॒शे । विश्वे॑ । दे॒वाः । द्वा॑द॒शे