स्वाहा॑ रु॒द्राय॑ रु॒द्रहू॑तये॒ स्वाहा॒ सं ज्योति॑षा॒ ज्योति॑: । अह॑: के॒तुना॑ जुषताᳪ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ । रात्रि॑: के॒तुना॑ जुषताᳪ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ । मधु॑ हु॒तमिन्द्र॑तमे अ॒ग्नाव॒श्याम॑ ते देव॒ घर्म॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः
svā́hā rudrā́ya rudrahū́taye svā́hā sáṃ jyótiṣā jyótiḥ | áhaḥ ketúnā juṣatāṃ sujyótir jyótiṣā svā́hā | rā́triḥ ketúnā juṣatāṃ sujyótir jyótiṣā svā́hā | mádhu hutám índratame agnā́v aśyāṃ te deva ghárma námas te astu mā́ mā́ hiṃsīḥ
娑嚩訶!奉於魯陀羅(Rudra),奉於被呼請為魯陀羅者(rudra-hūta)!娑嚩訶!——以光合光。 願白晝,憑其標誌(ketu),欣然受納:善光與光——娑嚩訶! 願黑夜,憑其標誌(ketu),欣然受納:善光與光——娑嚩訶! 蜜甜之供已獻。噫,最卓越者(Indratama),願我於阿耆尼(Agni)中得達於汝;噫,神聖的伽爾摩(Gharma),敬禮於汝;願汝之敬禮成就。勿傷害我,勿傷害我。
स्वाहा । रुद्राय । रुद्रहूतये । स्वाहा । सम् । ज्योतिषा । ज्योतिः । अहः । केतुना । जुषताम् । सु-ज्योतिः । ज्योतिषा । स्वाहा । रात्रिः । केतुना । जुषताम् । सु-ज्योतिः । ज्योतिषा । स्वाहा । मधु । हुतम् । इन्द्रतमे । अग्नौ । अश्याम । ते । देव । घर्म । नमः । ते । अस्तु । मा । मा । हिंसीः