इन्द्र॒स्यौज॑ स्थ म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
índrasya ójaḥ stha makhásya vo ’dyá śíro rādhiyāsaṃ devayájane pṛthivyā́ḥ | makhā́ya tvā makhásya śī́rṣṇe | makhā́ya tvā makhásya tvā śī́rṣṇe | makhā́ya tvā makhásya tvā śī́rṣṇe
你们是因陀罗(Indra)之威力;愿我今日在大地上、于诸神祭场(devayajana)中,吉祥而成就地安置你们为摩诃(Makha)之首。为摩诃而安置你;为摩诃之首而安置你。为摩诃而安置你;为摩诃之首而安置你。为摩诃而安置你;为摩诃之首而安置你。
इन्द्रस्य । ओजः । स्थ । मखस्य । वः । अद्य । शिरः । राध्यासम् । देव-यजने । पृथिव्याः । मखाय । त्वा । मखस्य । शीर्ष्णे । मखाय । त्वा । मखस्य । त्वा । शीर्ष्णे । मखाय । त्वा । मखस्य । त्वा । शीर्ष्णे