दि॒वि पृ॒ष्टो अ॑रोचता॒ग्निर्वै॑श्वान॒रो बृ॒हन् । क्ष्मया॑ वृधा॒न ओज॑सा॒ चनो॑हितो॒ ज्योति॑षा बाधते॒ तम॑:
diví pṛṣṭó arocatā́gnír vaiśvānaráḥ bṛhán | kṣmáyā vṛdhāná ójasā cánōhito jyótiṣā bādhate támaḥ
在天穹之上,阿耆尼·毗湿瓦那罗(Agni Vaiśvānara)——伟大者——已显耀光辉。凭大地而增长,以威力而昌盛;为我等安置为恩惠者,以其光明驱散黑暗。
दि॒वि । पृ॒ष्टः । अ॒रो॒च॒त॒ । अ॒ग्निः । वै॑श्वान॒रः । बृ॒हन् । क्ष्मया॑ । वृ॒धा॒नः । ओज॑सा । चनः॑-हितः । ज्योति॑षा । बा॒ध॒ते॒ । तमः॑ ।