विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् । अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृडी॒को भ॑वतु जा॒तवे॑दाः
víśveṣām áditir yajñíyānām víśveṣām átithir mānúṣāṇām | agnír devā́nām áva āvṛṇānáḥ sumṛḍī́ko bhavatu jātávedāḥ
阿底提(Aditi)为一切可祭之力(yajñiya)之母,为一切人类之宾。愿阿耆尼(Agni)——拣取诸天之恩宠者、知生者(Jātavedas)——对我等至为慈惠、赐以安宁。
विश्वे॑षाम् । अदि॑तिः । य॒ज्ञिया॑नाम् । विश्वे॑षाम् । अति॑थिः । मानु॑षाणाम् । अ॒ग्निः । दे॒वाना॑म् । अवः । आ॒वृणा॒नः । सु॑-मृडी॒कः । भ॑वतु । जा॒त-वे॑दाः