पीवो॑ अन्ना रयि॒वृध॑: सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः । ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नर॑: स्वप॒त्यानि॑ चक्रुः
pī́vo annā́ rayivṛ́dhaḥ sumedhā́ḥ śvetáḥ siṣakti niyútām abhiśrī́ḥ | té vāyáve sámanaso ví tasthur víśve ín nárāḥ svapatyā́ni cakruḥ
食物丰盈,增长财富,善于筹谋;白色的光辉依附于伐由(Vāyu)之车队与驾具。为伐由同心同意,他们各就其位;这些人确已为自己成就了善主之权与诸般资财。
पीवः । अन्नाः । रयिवृधः । सुमेधाः । श्वेतः । सिषक्ति । नियुताम् । अभिश्रीः । ते । वायवे । समनसः । वि । तस्थुः । विश्वे । इत् । नरः । स्वपत्यानि । चक्रुः ।