वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ऽऽदि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा । भूर्भुव॒: स्वर्ला॒जी३ञ्छा॒ची३न्यव्ये॒ गव्य॑ ए॒तदन्न॑मत्त देवा ए॒तदन्न॑मद्धि प्रजापते
vásavas tvāñjantu gāyatréṇa chándasā rudrā́s tvāñjantu trā́iṣṭubhena chándasā ādityā́s tvāñjantu jā́gatena chándasā | bhū́r bhuváḥ svàr lā́jīḥ chā́cīnīr avyé gávyé etád ánnam atta devā́ etád ánnam addhi prajāpate
愿诸婆苏以伽耶特丽(Gāyatrī)韵律为汝行灌涂;愿诸鲁陀罗以特里什图布(Triṣṭubh)韵律为汝行灌涂;愿诸阿底提耶以阇伽蒂(Jagatī)韵律为汝行灌涂。地、空、天——炒谷(lājā),丰饶,供羊与牛:诸神啊,食此食;生主(Prajāpati)啊,食此食。
वसवः॑ । त्वा॒ । अ॒ञ्ज॒न्तु॒ । गा॒य॒त्रेण॑ । छन्द॑सा । रु॒द्राः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । त्रैष्टु॑भेन । छन्द॑सा । आ॒दि॒त्याः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । जाग॑तेन । छन्द॑सा । भूः । भुवः॑ । स्वः॑ । ला॒जीः । छा॒ची॒नीः । अ॒व्ये॒ । गव्ये॑ । ए॒तत् । अन्न॑म् । अ॒त्त॒ । दे॒वाः॑ । ए॒तत् । अन्न॑म् । अ॒द्धि॒ । प्र॒जा॒प॒ते॒