प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोक्षा॑मीन्द्रा॒ग्निभ्यां॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि वा॒यवे॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि॒ सर्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि । यो अर्व॑न्तं॒ जिघा॑ᳪसति॒ तम॒भ्य॒मीति॒ वरु॑णः| प॒रो मर्त॑: प॒रः श्वा
prajā́pataye tvā́ juṣṭáṃ prókṣāmi indrāgníbhyāṃ tvā́ juṣṭáṃ prókṣāmi vāyáve tvā́ juṣṭáṃ prókṣāmi víśvebhyás tvā devébhyo juṣṭáṃ prókṣāmi sárvebhyás tvā devébhyo juṣṭáṃ prókṣāmi | yo arvántaṃ jíghāṃsati tám abhy amī́ti váruṇaḥ | páro mártaḥ páraḥ śvā́
为般若波提(Prajāpati),我以你为所悦纳而洒净;为因陀罗与阿耆尼(Indra-Agni),我以你为所悦纳而洒净;为伐由(Vāyu),我以你为所悦纳而洒净;为一切诸神(Viśve Devāḥ),我以你为所悦纳而洒净;为诸神全体,我以你为所悦纳而洒净。凡欲杀此骏马者,伐楼那(Varuṇa)必前来袭击之;愿凡人远离,愿犬亦远离。
प्र॒जाप॑तये । त्वा॒ । जुष्ट॑म् । प्रोक्षा॑मि । इन्द्रा॒ग्निभ्याम् । त्वा॒ । जुष्ट॑म् । प्रोक्षा॑मि । वा॒यवे॑ । त्वा॒ । जुष्ट॑म् । प्रोक्षा॑मि । विश्वे॑भ्यः । त्वा॒ । दे॒वेभ्यः॑ । जुष्ट॑म् । प्रोक्षा॑मि । सर्वे॑भ्यः । त्वा॒ । दे॒वेभ्यः॑ । जुष्ट॑म् । प्रोक्षा॑मि । यः । अर्व॑न्तम् । जिघा॑ᳪसति । तम् । अ॒भि । अ॒मीति॑ । वरु॑णः । प॒रः । मर्त॑ः । प॒रः । श्वा