म॒हो अर्ण॒: सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ । धियो॒ विश्वा॒ वि रा॑जति
mahó árṇaḥ sárasvatī prá cetayati ketúnā | dhíyo víśvā ví rājati ||
萨拉斯瓦蒂(Sarasvatī),浩大洪流者,以其标识使人明觉;一切灵感之思(dhī)皆由她照耀辉煌。
महो । अर्णः । सरस्वती । प्र । चेतयति । केतुना । धियः । विश्वाः । वि । राजति