अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे॑भिर्वी॒र्यं बल॑म् । ह॒विषेन्द्र॒ᳪ सर॑स्वती॒ यज॑मानमवर्धयन्
aśvínā góbhir indríyam áśvebhir vīryáṃ bálam | havíṣéndraṃ sárasvatī yájamānam avardhayan
阿湿毗那双神以群牛增益主宰之威力;以骏马增益英雄之勇武与力量。以祭供之供物,他们使因陀罗昌盛;萨拉斯瓦蒂使祭主增长兴盛。
अ॒श्विना॑ । गोभिः॑ । इ॒न्द्रि॒यम् । अश्वे॑भिः । वी॒र्यम् । बल॑म् । ह॒विषा॑ । इन्द्रम् । सर॑स्वती । यज॑मानम् । अ॒व॒र्ध॒य॒न् ।