पा॒तं नो॑ अश्विना॒ दिवा॑ पा॒हि नक्त॑ᳪ सरस्वति । दैव्या॑ होतारा भिषजा पा॒तमिन्द्र॒ᳪ सचा॑ सु॒ते
pātáṃ no aśvinā divā́ pā́hi náktaṃ sarasvati | daivyā́ hotārā bhiṣájā pātám índraṃ sácā suté ||
白昼护佑我们,噢阿湿毗尼二神;夜间护佑(我们),噢萨拉斯瓦蒂。诸天之Hotṛ祭司、诸医者啊:与所榨之苏摩同在,护佑因陀罗。
पातम् । नः । अश्विना । दिवा । पाहि । नक्तम् । सरस्वति । दैव्या । होतारा । भिषजा । पातम् । इन्द्रम् । सचा । सुते