इन्द्र॑: सु॒त्रामा॒ स्ववाँ॒२ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम
índraḥ sutrā́mā svávāṃ̐ avóbhis sumṛḍī́ko bhavatu viśvávedāḥ | bā́dhatāṃ dvéṣo abháyaṃ kṛṇotu suvī́ryasya pátayaḥ syāma ||
愿因陀罗——善护者,自具威力,凭其诸助力——成为慈惠者、遍知者。愿他驱逐憎怨,成就无畏;愿我们成为善勇之力的主宰。
इन्द्रः । सुत्रामा । स्ववान् । अवोभिः । सुमृडीकः । भवतु । विश्ववेदाः । बाधताम् । द्वेषः । अभयम् । कृणोतु । सुवीर्यस्य । पतयः । स्याम ।