यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च । अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽय॒क्ष्यव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि
yád ā́po aghnyā́ íti váruṇéti śápāmahe táto varuṇa no muñca | avábhṛtha nicúmpuṇa nicérur asi nicúmpuṇaḥ | áva deváir deva-kṛtám éno ’yákṣi áva mártyair mártya-kṛtám pururā́vṇo deva ríṣas pāhi ||
若我等曾辱骂那不可伤害之水(Āpas),说“(汝即)伐楼那(Varuṇa)”而咒詈者——由此,伐楼那啊,释放我等。汝为阿婆婆利他(Avabhṛtha,沐浴净除之礼),为净洁者,为拂除者;请净除、扫除:诸天所作之罪垢,汝已以祭而除;凡人所作之罪垢,亦请以祭而除。普鲁罗婆(Purūravas)啊,天神,请护佑,使我免于伤害。
यत् । आपः । अघ्न्याः । इति । वरुण । इति । शपामहे । ततः । वरुण । नः । मुञ्च । अवभृथ । निचुम्पुण । निचेरुः । असि । निचुम्पुणः । अव । देवैः । देव-कृतम् । एनः । अयक्षि । अव । मर्त्यैः । मर्त्य-कृतम् । पुरुराव्णः । देव । रिषस् । पाहि