येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ नय॒ स्व॒र्दे॒वेषु॒ गन्त॑वे
yéna váhasi sahásraṃ yénāgne sarvavedásam | ténemáṃ yajñáṃ no naya svardevéṣu gántave
凭借那使你承载千倍之力者,凭借那使你承载一切财富者——阿耆尼,通晓万有者——以此引领我们的此一祭祀,使之得以趋往天界诸神。
येन॑ । वह॑सि । स॒हस्रम् । येन॑ । अ॒ग्ने॒ । स॒र्व॒-वे॒द॒सम् । तेन॑ । इ॒मम् । य॒ज्ञम् । नः॒ । न॒य॒ । स्वः॒-दे॒वेषु॑ । गन्त॑वे